बटुकभैरवदशनामानि
(प्रातःपठनीय बटुकभैरवस्य भयनाशकदशनामानि)
कपाली कुण्डली भीमो भैरवो भीमविक्रमः ।
व्यालोपवीती कवची शूली शूरः शिवप्रियः ॥
एतानि दशनामानि प्रातरुत्थाय यः पठेत् ।
भैरवीयातना न स्याद्भयं क्वापि न जायते ॥
॥ इति बटुकभैरवदशनामानि ॥
बटुकभैरवदशनामावलिः
(प्रातःपठनीय बटुकभैरवस्य भयनाशकदशनामावलिः)
१। ॐ ह्रीं कपालिने नमः ।
२। ॐ ह्रीं कुण्डलिने नमः ।
३। ॐ ह्रीं भीमाय नमः ।
४। ॐ ह्रीं भैरवाय नमः ।
५। ॐ ह्रीं भीमविक्रमाय नमः ।
६। ॐ ह्रीं व्यालोपवीतिने नमः ।
७। ॐ ह्रीं कवचिने नमः ।
८। ॐ ह्रीं शूलिने नमः ।
९। ॐ ह्रीं शूराय नमः ।
१०। ॐ ह्रीं शिवप्रियाय नमः ।
॥ इति बटुकभैरवदशनामावलिः सम्पूर्णा ॥
Notes:
Proofread by Ruma Dewan