बटुकभैरवकवचम्
(भैरवतन्त्रोक्तम्)
अस्य श्री बटुकभैरवकवचस्य
आनन्दभैरव ऋषिस्त्रिष्टुप् छन्दः
श्री बटुकभैरवोदेवता
बं बीजं
ह्रीं शक्तिः
ॐ बटुकायेति कीलकं
ममाभीष्टसिद्धयर्थे जपे विनियोगः ।
ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः ।
पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥ १॥
पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा ।
आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः ॥ २॥
नैरृत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।
वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥ ३॥
भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।
संहारभैरवः पायादीशान्यां च महेश्वरः ॥ ४॥
ऊर्ध्वं पातु विधाता च पाताले नन्दको विभु ।
सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥ ५॥
वामदेवो वनान्ते च वनेऽघोरस्तथाऽवतु ।
जले तत्पुरुषः पातु स्थले ईशान एव च ॥ ६॥
डाकिनीपुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः ।
हाकिनीपुत्रकः पातु दारांस्तु लाकिनीसुतः ॥ ७॥
पातु शाकिनिकापुत्रः सैन्यं वै कालभैरवः ।
मालिनीपुत्रकः पातु पशूनश्वान् गजांस्तथा ॥ ८॥
महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।
वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥ ९॥
नमो भैरवदेवाय सर्वभूताय वै नमः ।
नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ १०॥
॥ इति भैरवतन्त्रोक्तं बटुकभैरवकवचं सम्पूर्णम् ॥
Proofread by Ruma Dewan