बटुकभैरवकवचम् २
देव्युवाच ।
देवदेव जगन्नाथ त्रिनाथ श्रीत्रिलोचन ।
भवत्प्रसादाद्भगवन्भैरवस्य महात्मनः ॥ १॥
कवचं श्रोतुमिच्छामि त्वत्स्नेहातिशयादहम् ।
शिव उवाच ।
प्राणिनां रक्षणार्थं च ब्रवीमि सुमुखे गुणान् ॥ २॥
वर्मणो भैरवस्यास्य शिवब्रह्मा ऋषिः स्मृतः ।
छन्दोनुष्टुप् तथा देवो भैरवो बटुकात्मजः ॥ ३॥
ऐश्वर्यस्याभिवृद्ध्यर्थमिष्टार्थं च नियुज्यते ॥ ४॥
शूलखड्गडमरूलसत्करं सव्यहस्तमपरं करोज्ज्वलम् ।
सन्ततं हृदि भजामि भैरवं स्वाधिरूढमधिकारसिद्धये ॥ ६॥
दिग्वाससं कमलपत्रविशालनेत्रं
भस्माङ्गरागमभयं प्रभुमादिदेवम् ।
ध्यायामि तं बटुकनाथमहर्निशं मे
सर्वार्थसिद्धिमतुलां कृपया दिशन्तम् ॥ ६॥
एवं ध्यात्वा तु देवेशं बटुकाख्यं महाबलम् ।
उच्चरेत्कवचं पश्चाद्देवताभीष्टसिद्धिदम् ॥ ७॥
शिरो मे भैरवः पातु भालं पुरनिषूदनः ।
दृशौ पातु त्रिनेत्रो मे श्रवणं नीलकण्ठकः ॥ ८॥
दिग्वासा मे पातु कण्टं नासिकामगन्यभाक् ।
औष्ठौ त्रिपुरघाती मे जिह्वां पातु कपालधृक् ॥ ९॥
दन्तान्पातु क्रतुध्वंसी चिबुकं भूतवासकः ।
कपाली पातु मे ग्रीवां स्कन्धौ पातु गजां तकः ॥ १०॥
भुजौ मे पातु कौमारो हृदयं क्षेत्रपालकः ।
अभीरुमें स्तनौ पातु वक्षः पातु महेश्वरः ॥ ११॥
कुक्षौ मे पातु संहर्ता नाभिं मे षण्मुखप्रियः ।
भूतनाथः कटिं पातु गुह्यं पातु जटाधरः ॥ १२॥
ऊरू पातु वृषारूढो जानुनी भूतभावनः ।
श्मशानवासी मे पातु पातु सर्वाङ्गमीश्वरः ॥ १३॥
य इदं कवचं देवि पठेत्प्रयतमानसः ।
तस्यैश्वर्याभिवृद्ध्यर्थं न ददाम्यहम् ॥ १४॥
रोगार्तो मुच्यते रोगात्पुत्रार्थी लभते सुतान् ।
जपित्वा श्रद्धया कन्या आयुष्मन्तं पतिं लभेत् ॥ १५॥
विद्याविनयसम्पन्नं सुकुलीनं सुरूपिणम् ।
जपित्वा विधवा नारी वैधव्यं नाप्नुयात्क्वचित् ॥ १६॥
जपित्वा कवचं प्रातर्मुच्यते नात्र संशयः ।
नास्ति तस्यापमृत्युश्चाकालमृत्युः कदाचन ॥ १७॥
इह लोके सुखं भुक्त्वा पुत्रपौत्रैः सुबान्धवैः ।
अन्ते कैलासमाविश्य मम पादतलं व्रजेत् ॥ १८॥
तस्मात्सर्वप्रयत्नेन जपेन्नित्यमतन्द्रितः ॥ १९॥
ये भक्तियुक्ताः कवचं पठन्ति ते वै कुले स्वे कुलिनो वसन्ति ।
तेजोधिकं विंशतिसङ्ख्यया दिने कैलासमाप्नोति मम प्रसादात् ॥ २०॥
एतत्ते कथितं देवि यन्मां त्वं परिपृच्छसि ।
त्वत्स्नेहातिशयादुक्तं कवचं भैरवात्मकम् ॥ २१॥
इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे
उपसनास्तबके श्रीबटुकभैरवोपासनाध्याये श्रीबटुकभैरवका
चनिरूपणं नाम प्रकरणं चतुर्थम् ॥ ४॥
Proofread by Rajesh Thyagarajan