बटुकभैरव मङ्गलाचरणम्
भजन्ते यद्भर्गप्रभवभुवनाभोगभरितं
प्रभाभिर्भास्वन्तं भगवति भवे भाविततनुम् ।
भयार्त्ता भक्ता यं भुवनभयभङ्गाय भुवि तं
भजे भव्यैर्भावैर्भवभयहरं ``भैरव''महम् ॥ १॥
बिभेति क्लेशोऽस्मादथ जगदिदं भीषणतमाद्-
भयं विन्ते किं वा त्रिदिवपतयो बिभ्यति यतः ।
रवं भीमं कृत्वा दितिजगणमामर्दयति यः
स ``भूतानां नाथः'' किरतु करुणादृष्टिकिरणान् ॥ २॥
समूहं दुःखानां परिहरित यो भैरववरो
भिया सर्वान् भीरून् रवयति तथा रोदयति च ।
बिभर्ति स्वात्मानं भरति च जगत् सोऽतिमतिमान्
विधत्तां ``भूतात्मा'' मतिमतितमां तच्चरणयोः ॥ ३॥
प्रभुर्बालो दीप्तः स्फटिकसदृशः कुन्तलरुचा
स्फुरद्वक्त्रो दिव्यैर्नवमणिगणैर्भूषिततनुः ।
त्रिशूलं दण्डं च स्वकरयुगले धारणपर-
स्त्रिनेत्रो भक्तेभ्यो वितरतु शिवं ``क्षेत्रद'' इह ॥ ४॥
सदोद्यत्सूर्याभस्त्रिनयनयुतः पाणिषु दधन्
कपालं शूलं चाभयवरदयुग्मं स्मितमुखः ।
अलङ्कारै रम्यैरपि विलसितः शोणवसनः
क्षतात्त्रातुं सद्यो भवतु सदयः ``क्षत्रिय'' वर ॥ ५॥
सृणिं खड्गं पाशं डमरुमभयं नागममलं
कपालं घण्टां च स्वकरकमलैर्बिभ्रदनिशम् ।
नृमुण्डानां मालां शशिशकलकं पिङ्गचिकुरान्
दधानो दिग्वासाः सकलसुखदाताऽवतु ``विराट्'' ॥ ६॥
श्रीमद्विद्यारण्योगुरोः कारुण्यकणिकाञ्चितः ।
रुद्रदेवः कृतिमिमां निरमात् सर्वतुष्टये ॥ ७॥
॥ इति रुद्रदेवत्रिपाठीकृतं बटुकभैरवमङ्गलाचरणं सम्पूर्णम् ॥
Notes:
Each verse has a specific name incorporated into its last line from the following Śloka श्लोक from the ĀpaduddhārakaBaṭukaBhairavĀṣṭottaraśatanāmaStotraM (Rudrayāmalatantre Viśvāsoddhāre) आपदुद्धारकबटुकभैरवाष्टोत्तरशतनामस्तोत्रं (रुद्रयामलतन्त्रे विश्वसारोद्धारे) that can be accessed from one of the links given below.
Om̐ hrīṃ Bhairavo Bhūtanāthaśca Bhūtātmā Bhūtabhāvanaḥ .
Kṣetrajñaḥ Kṣetrapālaśca Kṣetradaḥ Kṣatriyo Virāṭ ..
ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रदः क्षत्रियो विराट् ॥
Proofread by Ruma Dewan