बटुकभैरवरहस्यम्

बटुकभैरवरहस्यम्

श्रीदेव्युवाच - भगवन् देवदेवश ! रहस्यं बटुकाय मे । ब्रूहि येन वशीकुर्यात् साधको भैरवं शिवम् ॥ १॥ श्रीबटुक उवाच - श‍ृणु देवि ! परं गोप्यं कथयामि सुशोभने । रहस्यं सिद्धिदं साक्षाद्बटुकस्य महात्मनः ॥ २॥ सर्वे बटुकदेवस्य साधने ये निरुपिताः । उपाया निष्फला एव विधानं वीरसाधनम् ॥ ३॥ यो वीरसाधनं हित्वा उपायं चान्यमाश्रयेत् । न स सिद्धिमवाप्नोति नरो वर्षशतैरपि ॥ ४॥ दक्षिणे भूचरः पातु वामे पातु सदाशिवः । केशान् पातु विशालाक्षो मूर्धानं मे मरुत्प्रियः ॥ ५॥ मस्तकं पातु भृग्वीशो नेत्रं पातु महामनाः । कपोलौ पातु वीरेशो गण्डौ गण्डारिमर्दनः ॥ ६॥ उत्तरोष्ठं विरुपाक्षो ह्यधरे योगिनीप्रियः । दन्ते वक्षसि विध्वंसी चिबुके पातु कालधृक् ॥ ७॥ कण्ठे रक्षतु मे देवो नीलकण्ठो जगद्गुरुः । दक्षस्कन्धे गिरीन्द्रेशो वामस्कन्धे च सुन्दरः ॥ ८॥ भुजे च दक्षिणे सर्वमन्त्रनाथः सदाऽवतु । वामे भुजे सर्वभीमो हृदयं पातु पाण्डुरः ॥ ९॥ दक्षस्तने पशुपतिर्वामे पातु महेश्वरः । उदरे सर्वकल्याणकारकोऽवतु मां सदा ॥ १०॥ नाभौ कामप्रतिध्वंसी जङ्घे पातु महामनाः । जानुनी पातु यामित्रो गुल्फो गौरीपतिः सदा ॥ ११॥ पादपृष्ठौ ज्ञाननिधिस्तथा पादाङ्गुलीर्हरः । पादाधः पातु सततं व्योमकेशो जगत्प्रियः ॥ १२॥ इति रक्षां समाधाय मन्त्ररक्षां ततश्चरेत् । अथ मन्त्ररक्षा - ॐ ह्रां ह्रीं ह्रूं ह्रः पूर्वे(प्राच्ये) असिताङ्गभैरवाय नमः । ॐ ह्रिं ह्रूं ह्रौं आग्नेये रुरुभैरवाय नमः । ॐ ह्रीं श्रीं दक्षिणे चण्डभैरवाय नमः । ॐ ग्ल्ह्रां ग्ल्ह्रूं ग्ल्ह्रीं नग नग नैरृत्ये क्रोधभैरवाय नमः । (ॐ ग्लूं न्लूं नग नग नैरृत्ये क्रोधभैरवाय नमः ।) (ॐ ग्लूं व्लं(ब्लं) नगनग नैरृत्ये क्रोधभैरवाय नमः ।) ॐ प्रं श्रूं प्रूं सः सः पश्चिमे(प्रतीच्ये) उन्मत्तभैरवाय नमः । (ॐ र्यूं(य्रूं) म्रूं प्रूं सं सः पश्चिमे(प्रतीच्ये) उन्मत्तभैरवाय नमः ।) (ॐ प्रूं प्रूं प्रूं सं सः पश्चिमे(प्रतीच्ये) उन्मत्तभैरवाय नमः ।) ॐ ब्रां ब्रां ब्रां वायव्ये कपालभैरवाय नमः । (ॐ म्रां म्रां वायव्ये कपालभैरवाय नमः ।) ॐ भ्रां भ्रां भ्रां उत्तरे भीषणभैरवाय नमः । (ॐ भ्रां भ्रां भैरवे(भैरवाय) उत्तरे भीषणभैरवाय नमः ।) ॐ प्रूं प्रूं स्रूं फट् ईशाने(ईशान्ये, ऐशान्ये) संहारभैरवाय नमः । (ॐ ब्रूं ब्रूं म्रूं फट् ईशाने(ईशान्ये, ऐशान्ये) संहारभैरवाय नमः ।) (ॐ ब्रां ब्रं म्रं फट् ईशाने(ईशान्ये, ऐशान्ये) संहारभैरवाय नमः ।) ॥ इति श्रीश्वरदेवीसंवादे रुद्रयामले तन्त्रे बटुकभैरवरहस्यं सम्पूर्णम् ॥ Notes: The BaṭukaBhairvaRahasyam बटुकभैरवरहस्यम् on this webpage includes BhairavaMantra-s भैरवमन्त्राः for the AṣṭaDiśaḥ अष्टदिशः. The source publication of RudrayāmalaTantram रुद्रयामलतन्त्रम् mentioning this composition needs to be ascertained. Variations found wrt the referenced and other publications that mention these Bīja-s बीजाः in context with the respective directions have been mentioned in parentheses in the main text above. Most publications include the RakṣāBījaMantra-s रक्षाबीजमन्त्राः for DaśaDiśaḥ दशदिशः in general. Alternative simpler sets of AṣṭaDiśaMantra-s अष्टदिशमन्त्राः wrt AṣṭaBhairavāḥ अष्टभैरवाः also found in other publications are given below: Set I. पूर्वे/प्राच्ये - ॐ ह्रीं असिताङ्गभैरवाय नमः । आग्नेये - ॐ ह्रीं रुरुभैरवाय नमः । दक्षिणे - ॐ ह्रीं चण्डभैरवाय नमः । नैरृत्ये - ॐ ह्रीं क्रोधभैरवाय नमः । पश्चिमे/प्रतीच्ये - ॐ ह्रीं उन्मत्तभैरवाय नमः । वायव्ये - ॐ ह्रीं कपालभैरवाय नमः । उत्तरे - ॐ ह्रीं भीषणभैरवाय नमः । ईशाने/ईशान्ये/ऐशान्ये - ॐ ह्रीं संहारभैरवाय नमः । Set II. पूर्वे/प्राच्ये - ॐ ह्रीं आं असिताङ्गभैरवाय नमः । आग्नेये - ॐ ह्रीं ईं रुरुभैरवाय नमः । दक्षिणे - ॐ ह्रीं ऊं चण्डभैरवाय नमः । नैरृत्ये - ॐ ह्रीं आं क्रोधभैरवाय नमः । पश्चिमे/प्रतीच्ये - ॐ ह्रीं आं उन्मत्तभैरवाय नमः । वायव्ये - ॐ ह्रीं ॠं कपालभैरवाय नमः । उत्तरे - ॐ ह्रीं ॡं भीषणभैरवाय नमः । ईशाने/ईशान्ये/ऐशान्ये - ॐ ह्रीं अं संहारभैरवाय नमः । Note that customized AṣṭaDiśaMantra-s अष्टदिशमन्त्राः for AṣṭaBhairavāḥ अष्टभैरवाः are applied respectively for other deities as part of the ĀvaraṇaPūjā आवरणपूजा. The relevant BījaMantra-s बीजमन्त्राः etc. should be learned from an able Guru. Proofread by Ruma Dewan
% Text title            : Batukabhairava Rahasyam
% File name             : baTukabhairavarahasyam.itx
% itxtitle              : baTukabhairavarahasyam
% engtitle              : baTukabhairavarahasyam
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Indexextra            : (1, 2, 3, 4, 5, 6, 7)
% Latest update         : July 6, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org