बटुकभैरवसहस्रनामस्तोत्रम्
(रुद्रयामलोक्तम्)
ॐ नमो भैरवरूपाय भैरवाय नमो नमः ।
नमो भद्रस्वरूपाय जगदाद्य नमो नमः ॥ १॥
नमः कल्पस्वरूपाय विकल्पाय नमो नमः ।
नमः शुद्धस्वरूपाय सुप्रकाशाय ते नमः ॥ २॥
नमः कङ्कालरूपाय कालरूप नमोऽस्तु ते ।
नमस्त्र्यम्बकरूपाय महाकालाय ते नमः ॥ ३॥
नमः संसारसाराय शारदाय नमो नमः ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ ४॥
नमः क्षेत्रनिवासाय क्षेत्रपालाय ते नमः ।
क्षेत्राक्षेत्रस्वरूपाय क्षेत्रकर्त्रे नमो नमः ॥ ५॥
नमो नागविनाशाय भैरवाय नमो नमः ।
नमो मातङ्गरूपाय भारतरूप नमोऽस्तु ते ॥ ६॥
नमः सिद्धस्वरूपाय सिद्धिदाय नमो नमः ।
नमो बिन्दुस्वरूपाय बिन्दुसिन्धुप्रकाशिने ॥ ७॥
नमो मङ्गलरूपाय मालवाय नमो नमः ।
नमः सङ्कटनाशाय शङ्कराय नमो नमः ॥ ८॥
नमो धर्मस्वरूपाय धर्मदाय नमो नमः ।
नमोऽनन्तस्वरूपाय एकरूप नमोऽस्तुते ॥ ९॥
नमो वृद्धिस्वरूपाय वृद्धिकार नमोऽस्तुते ।
नमो मोहनरूपाय मोक्षरूपाय ते नमः ॥ १०॥
नमो जलदरूपाय सामरूप नमोऽस्तु ते ।
नमः स्थूलस्वरूपाय शुद्धरूपाय ते नमः ॥ ११॥
नमो नीलस्वरूपाय रङ्गरूपाय ते नमः ।
नमो मण्डलरूपाय मण्डलाय नमो नमः ॥ १२॥
नमो रुद्रस्वरूपाय रुद्रनाथाय ते नमः ।
नमो ब्रह्मस्वरूपाय ब्रह्मवक्त्रे ते नमः ॥ १३॥
नमस्त्रिशूलधाराय धाराधारिन्नमोऽस्तु ते ।
नमः संसारबीजाय विरूपाय नमो नमः ॥ १४॥
नमो विमलरूपाय भैरवाय नमो नमः ।
नमो जङ्गमरूपाय जलजाय नमो नमः ॥ १५॥
नमः कालस्वरूपाय कालरुद्राय ते नमः ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ १६॥
नमः शत्रुविनाशाय भीषणाय नमो नमः ।
नमः शान्ताय दान्ताय भ्रमरूप नमोऽस्तु ते ॥ १७॥
न्यायगम्याय शुद्धाय योगिध्येयाय ते नमः ।
नमः कमलकान्ताय कालवृद्धाय ते नमः ॥ १८॥
नमो ज्योतिःस्वरूपाय सुप्रकाशाय ते नमः ।
नमः कल्पस्वरूपाय भैरवाय नमो नमः ॥ १९॥
नमो जयस्वरूपाय जगज्जाड्यनिवारिणे ।
महाभूताय भूताय भूतानां पतये नमः ॥ २०॥
नमो नन्दाय वृन्दाय वादिने ब्रह्मवादिने ।
नमो वादस्वरूपाय न्यायगम्याय ते नमः ॥ २१॥
नमो भवस्वरूपाय मायानिर्माणरूपिणे ।
विश्ववन्द्याय वन्द्याय नमो विश्वम्भराय ते ॥ २२॥
नमो नेत्रस्वरूपाय नेत्ररूपिन्नमोऽस्तु ते ।
नमो वरुणरूपाय भैरवाय नमो नमः ॥ २३॥
नमो यमस्वरूपाय वृद्धरूपाय ते नमः ।
नमः कुबेररूपाय कालनाथाय ते नमः ॥ २४॥
नमः ईशानरूपाय अग्निरूपाय ते नमः ।
नमो वायुस्वरूपाय विश्वरूपाय ते नमः ॥ २५॥
नमः प्राणस्वरूपाय प्राणाधिपतये नमः ।
नमः संहाररूपाय पालकाय नमो नमः ॥ २६॥
नमश्चन्द्रस्वरूपाय चण्डरूपाय ते नमः ।
नमो मन्दरवासाय वासिने सर्वयोगिनाम् ॥ २७॥
योगिगम्याय योग्याय योगिनां पतये नमः ।
नमो जङ्गमवासाय वामदेवाय ते नमः ॥ २८॥
नमः शत्रुविनाशाय नीलकण्ठाय ते नमः ।
नमो भक्तिविनोदाय दुर्भगाय नमो नमः ॥ २९॥
नमो मान्यस्वरूपाय मानदाय नमो नमः ।
नमो भूतिविभूषाय भूतिषाय नमो नमः ॥ ३०॥
नमो रजःस्वरूपाय सात्त्विकाय नमो नमः ।
नमस्तामसरूपाय तारणाय नमो नमः ॥ ३१॥
नमो गङ्गाविनोदाय जयसन्धारिणे नमः ।
नमो भैरवरूपाय भीषणाय नमो नमः ॥ ३२॥
नमः सङ्ग्रामरूपाय सङ्ग्रामजयदायिने ।
सङ्ग्रामसाररूपाय पावनाय नमो नमः ॥ ३३॥
नमो वृद्धिस्वरूपाय वृद्धिदाय नमो नमः ।
नमस्त्रिशूलहस्ताय शूलसंहारिणे नमः ॥ ३४॥
नमो द्वन्द्वस्वरूपाय रूपदाय नमो नमः ।
नमः शत्रुविनाशाय शत्रुबुद्धिविनाशिने ॥ ३५॥
महाकालाय कालाय कालनाथाय ते नमः ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ ३६॥
नमः शुभस्वरूपाय शम्भुरूपिन्नमोऽस्तु ते ।
नमः कमलहस्ताय डमरुहस्ताय ते नमः ॥ ३७॥
नमः कुक्कुरवाहाय वहनाय नमो नमः ।
नमो विमलनेत्राय त्रिनेत्राय नमो नमः ॥ ३८॥
नमः संसाररूपाय सारमेयाय वाहिने ।
संसारज्ञानरूपाय ज्ञाननाथाय ते नमः ॥ ३९॥
नमो मङ्गलरूपाय मङ्गलाय नमो नमः ।
नमो न्यायविशालाय मन्त्ररूपाय ते नमः ॥ ४०॥
नमो यन्त्रस्वरूपाय यन्त्रधारिन्नमोऽस्तु ते ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ ४१॥
नमः कलङ्करूपाय कलङ्काय नमो नमः ।
नमः संसारपाराय भैरवाय नमो नमः ॥ ४२॥
रुण्डमालाविभूषाय भीषणाय नमो नमः ।
नमो दुःखनिवाराय विहराय नमो नमः ॥ ४३॥
नमो दण्डस्वरूपाय क्षणरूपाय ते नमः ।
नमो मुहूर्तरूपाय सर्वरूपाय ते नमः ॥ ४४॥
नमो मोदस्वरूपाय श्रोत्ररूपाय ते नमः ।
नमो नक्षत्ररूपाय क्षेत्ररूपाय ते नमः ॥ ४५॥
नमो विष्णुस्वरूपाय बिन्दुरूपाय ते नमः ।
नमो ब्रह्मस्वरूपाय ब्रह्मचारिन्नमोऽस्तु ते ॥ ४६॥
नमः कन्थानिवासाय पटवासाय ते नमः ।
नमो ज्वलनरूपाय ज्वलनाय नमो नमः ॥ ४७॥
नमो बटुकरूपाय धूर्तरूपाय ते नमः ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ ४८॥
नमो वैद्यस्वरूपाय वैद्यरूपिन्नमोऽस्तु ते ।
नमः औषधरूपाय औषधाय नमो नमः ॥ ४९॥
नमो व्याधिनिवाराय व्याधिरूपिन्नमोनमः ।
नमो द्वा(ज्व)रनिवाराय ज्वररूपाय ते नमः ॥ ५०॥
नमो रुद्रस्वरूपाय रुद्राणां पतये नमः ।
विरूपाक्षाय देवाय भैरवाय नमो नमः ॥ ५१॥
नमो ग्रहस्वरूपाय ग्रहाणां पतये नमः ।
नमः पवित्रधाराय पर्शुधाराय ते नमः ॥ ५२॥
यज्ञोपवीतदेवाय देवदेव नमोऽस्तुते ।
नमो यज्ञस्वरूपाय यज्ञानां फलदायिने ॥ ५३॥
नमो रणप्रतापाय तापनाय नमो नमः ।
नमो गणेशरूपाय गणरूपाय ते नमः ॥ ५४॥
नमो रश्मिस्वरूपाय रश्मिरूपाय ते नमः ।
नमो मलयरूपाय रश्मिरूपाय ते नमः ॥ ५५॥
नमो विभक्तिरूपाय विमलाय नमो नमः ।
नमो मधुररूपाय माधिपूर्णकलापिने ॥ ५६॥
कालेश्वराय कालाय कालनाथाय ते नमः ।
नमो विश्वप्रकाशाय भैरवाय नमो नमः ॥ ५७॥
नमो योनिस्वरूपाय मातृरूपाय ते नमः ।
नमो भगिनीरूपाय भैरवाय नमो नमः ॥ ५८॥
नमो वृषस्वरूपाय कर्मरूपाय ते नमः ।
नमो वेदान्तवेद्याय वेदसिद्धान्तसारिणे ॥ ५९॥
नमः शाखाप्रकाशाय पुरुषाय नमो नमः ।
नमः प्रकृतिरूपाय भैरवाय नमो नमः ॥ ६०॥
नमो विश्वस्वरूपाय शिवरूपाय ते नमः ।
नमो ज्योतिःस्वरूपाय निर्गुणाय नमो नमः ॥ ६१॥
निरञ्जनाय शान्ताय निर्विकाराय ते नमः ।
निर्ममाय विमोहाय विश्वनाथाय ते नमः ॥ ६२॥
नमः कण्ठप्रकाशाय शत्रुनाथाय ते नमः ।
नमः आशाप्रकाशाय आशापूरकृते नमः ॥ ६३॥
नमो मत्स्यस्वरूपाय योगरूपाय ते नमः ।
नमो वाराहरूपाय वामनाय नमो नमः ॥ ६४॥
नमः आनन्दरूपाय आनन्दाय नमो नमः ।
नमोऽस्त्वनर्घकेशाय ज्वलत्केशाय ते नमः ॥ ६५॥
नमः पापविमोक्षाय मोक्षाय च नमो नमः ।
नमः कैलासनाथाय कालनाथाय ते नमः ॥ ६६॥
नमो बिन्दुदबिन्दाय बिन्दुभाय नमो नमः ।
नमः प्रणवरूपाय भैरवाय नमो नमः ॥ ६७॥
नमो मेरुनिवासाय रक्तवासाय ते नमः ।
नमो मेरुस्वरूपाय भैरवाय नमो नमः ॥ ६८॥
नमो भद्रस्वरूपाय भद्ररूपाय ते नमः ।
नमो योगिस्वरूपाय योगिनां पतये नमः ॥ ६९॥
नमो मन्त्रस्वरूपाय मित्ररूपाय ते नमः ।
नमो ब्रह्मनिवासाय काशीनाथाय ते नमः ॥ ७०॥
नमो ब्रह्माण्डवासाय ब्रह्मवासाय ते नमः ।
नमो मातङ्गवासाय सूक्ष्मवासाय ते नमः ॥ ७१॥
नमो मातृनिवासाय भ्रातृवासाय ते नमः ।
नमो जगन्निवासाय जलावासाय ते नमः ॥ ७२॥
नमः कौलनिवासाय नेत्रवासाय ते नमः ।
नमो भैरववासाय भैरवाय नमो नमः ॥ ७३॥
नमः समुद्रवासाय वह्निवासाय ते नमः ।
नमश्चन्द्रनिवासाय चन्द्रावासाय ते नमः ॥ ७४॥
नमः कलिङ्गवासाय कलिङ्गाय नमो नमः ।
नमः उत्कलवासाय इन्द्रवासाय ते नमः ॥ ७५॥
नमः कर्पूरवासाय सिद्धिवासाय ते नमः ।
नमः सुन्दरवासाय भैरवाय नमो नमः ॥ ७६॥
नमः आकाशवासाय वासिने सर्वयोगिनाम् ।
नमो ब्राह्मणवासाय शूद्रवासाय ते नमः ॥ ७७॥
नमः क्षत्रियावासाय वैश्यवासाय ते नमः ।
नमः पक्षिनिवासाय भैरवाय नमो नमः ॥ ७८॥
नमः पातालमूलाय मूलावासाय ते नमः ।
नमो रसातलवासाय सर्वपातालवासिने ॥ ७९॥
नमः कङ्कालवासाय कङ्कवासाय ते नमः ।
नमो मन्त्रनिवासाय भैरवाय नमो नमः ॥ ८०॥
नमोऽहङ्काररूपाय रजोरूपाय ते नमः ।
नमः सत्त्वनिवासाय भैरवाय नमो नमः ॥ ८१॥
नमो नलिनरूपाय नलिनाङ्गप्रकाशिने ।
नमः सूर्यस्वरूपाय भैरवाय नमो नमः ॥ ८२॥
नमो दुष्टनिवासाय साधूपायस्वरूपिणे ।
नमो नम्रस्वरूपाय स्तम्भनाय नमो नमः ॥ ८३॥
पञ्चयोनिप्रकाशाय चतुर्योनिप्रकाशिने ।
नवयोनिप्रकाशाय भैरवाय नमो नमः ॥ ८४॥
नमः षोडशरूपाय नमः षोडशधारिणे ।
चतुःषष्टिप्रकाशाय भैरवाय नमो नमः ॥ ८५॥
नमो बिन्दुप्रकाशाय सुप्रकाशाय ते नमः ।
नमो गणस्वरूपाय सुखरूप नमोऽस्तुते ॥ ८६॥
नमोऽम्बरस्वरूपाय भैरवाय नमो नमः ।
नमो नानास्वरूपाय मुखरूप नमोऽस्तुते ॥ ८७॥
नमो दुर्गस्वरूपाय दुःखहन्त्रे नमोऽस्तुते ।
नमो विशुद्धदेहाय दिव्यदेहाय ते नमः ॥ ८८॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमः प्रेतनिवासाय पिशाचाय नमो नमः ॥ ८९॥
नमो निशाप्रकाशाय निशारूप नमोऽस्तुते ।
नमः सोमार्धरामाय धराधीशाय ते नमः ॥ ९०॥
नमः संसारभाराय भारकाय नमो नमः ।
नमो देहस्वरूपाय अदेहाय नमो नमः ॥ ९१॥
देवदेहाय देवाय भैरवाय नमो नमः ।
विश्वेश्वराय विश्वाय विश्वधारिन्नमोऽस्तु ते ॥ ९२॥
स्वप्रकाशप्रकाशाय भैरवाय नमो नमः ।
स्थितिरूपाय स्थित्याय स्थितीनां पतये नमः ॥ ९३॥
सुस्थिराय सुकेशाय केशवाय नमो नमः ।
स्थविष्ठाय गरिष्ठाय प्रेष्ठाय परमात्मने ॥ ९४॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमः पारदरूपाय पवित्राय नमो नमः ॥ ९५॥
नमो वेधकरूपाय अनिन्दाय नमो नमः ।
नमः शब्दस्वरूपाय शब्दातीताय ते नमः ॥ ९६॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमो निन्दास्वरूपाय अनिन्दाय नमो नमः ॥ ९७॥
नमो विष्णुस्वरूपाय भैरवाय नमो नमः ।
नमः शरण्यशरण शरण्यानां सुखाय ते ॥ ९८॥
नमो शरण्यरक्षाय भैरवाय नमो नमः ।
नमः स्वाहास्वरूपाय स्वधारूपाय ते नमः ॥ ९९॥
नमो वौषट्स्वरूपाय भैरवाय नमो नमः ।
अक्षराय नमस्तुम्भ्यं त्रिधामात्रास्वरूपिणे ॥ १००॥
नमोऽक्षराय शुद्धाय भैरवाय नमो नमः ।
अर्धमात्राय पूर्णाम पूर्णाय ते नमो नमः ॥ १०१
(अर्धमात्राय पूर्णाय सम्पूर्णाय नमो नमः ॥ १०१) ॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमोऽष्टचक्ररूपाय ब्रह्मरूपाय ते नमः ॥ १०२॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमः सृष्टिस्वरूपाय सृष्टिकर्त्रे महात्मने ॥ १०३॥
नमः पाल्यस्वरूपाय भैरवाय नमो नमः ।
सनातनाय नित्याय निर्गुणाय गुणाय ते ॥ १०४॥
नमः सिद्धाय शान्ताय भैरवाय नमो नमः ।
नमो धारास्वरूपाय खड्गहस्ताय ते नमः ॥ १०५॥
नमस्त्रिशूलहस्ताय भैरवाय नमो नमः ।
नमः कुण्डलवर्णाय शवमुण्डविभूषिणे ॥ १०६॥
महाकुद्धाय चण्डाय भैरवाय नमो नमः ।
नमो वासुकिभूषाय सर्पभूषाय ते नमः ॥ १०७॥
नमः कपालहस्ताय भैरवाय नमो नमः ।
पानपात्रप्रमत्ताय मत्तरूपाय ते नमः ॥ १०८॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमो माधवरूपाय माधवाय नमो नमः ॥ १०९॥
नमो माङ्गल्यरूपाय भैरवाय नमो नमः ।
नमः कुमाररूपाय स्त्रीरूपाय नमो नमः ॥ ११०॥
नमो गन्धस्वरूपाय भैरवाय नमो नमः ।
नमो दुर्गन्धरूपाय सुगन्धाय नमो नमः ॥ १११॥
नमः पुष्पस्वरूपाय पुष्पभूषण ते नमः ।
नमः पुष्पप्रकाशाय भैरवाय नमो नमः ॥ ११२॥
नमः पुष्पविनोदाय पुष्पपूजाय ते नमः ।
नमो भक्तिनिवासाय भक्तदुःखनिवारिणे ॥ ११३॥
भक्तप्रियाय शान्ताय भैरवाय नमो नमः ।
नमो भक्तस्वरूपाय रूपदाय नमो नमः ॥ ११४॥
नमो भैरवरूपाय भैरवाय नमो नमः ।
नमो वासाय भद्राय वीरभद्राय ते नमः ॥ ११५॥
नमः सङ्ग्रामसाराय भैरवाय नमो नमः ।
नमः खट्वाङ्गहस्ताय कालहस्ताय ते नमः ॥ ११६॥
नमऽघोराय घोराय घोराघोरस्वरूपिणे ।
घोरघर्माय घोराय भैरवाय नमो नमः ॥ ११७॥
घोरत्रिशूलहस्ताय घोरपानाय ते नमः ।
घोररूपाय नीलाय भैरवाय नमो नमः ॥ ११८॥
घोरवाहनगम्याय अगम्याय नमो नमः ।
घोरब्रह्मस्वरूपाय भैरवाय नमो नमः ॥ ११९॥
घोरशब्दाय घोराय घोरदेहाय ते नमः ।
घोरद्रव्याय घोराय भैरवाय नमो नमः ॥ १२०॥
घोरसङ्गाय सिंहाय सिद्धसिंहाय ते नमः ।
नमः प्रचण्डसिंहाय सिंहरूपाय ते नमः ॥ १२१॥
नमः सिंहप्रकाशाय सुप्रकाशाय ते नमः ।
नमो वियजरूपाय जगदाद्य नमो नमः ॥ १२२॥
नमो भार्गव रूपाय गर्भरूपाय ते नमः ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ १२३॥
नमो मेध्याय शुद्धाय मायाधीशाय ते नमः ।
नमो मेघप्रकाशाय भैरवाय नमो नमः ॥ १२४॥
दुर्ज्ञेयाय दुरन्ताय दुर्लभाय दुरात्मने ।
भक्तिलभ्याय भव्याय भविताय नमो नमः ॥ १२५॥
नमो गौरवरूपाय गौरवाय नमो नमः
नमो भैरवरूपाय भैरवाय नमो नमः ॥ १२६॥
नमो विघ्ननिवाराय विघ्नराशिन्नमोऽस्तुते ।
नमो विघ्नविदाराय भैरवाय नमो नमः ॥ १२७॥
नमः किंशुकरूपाय रजोरूपाय ते नमः ।
नमो नीलस्वरूपाय भैरवाय नमो नमः ॥ १२८॥
नमो गणस्वरूपाय गणनाथाय ते नमः ।
नमो विश्वप्रकाशाय भैरवाय नमो नमः ॥ १२९॥
नमो योगिप्रकाशाय योगिगम्याय ते नमः ।
नमो हेरम्बरूपाय भैरवाय नमो नमः ॥ १३०॥
नमस्त्रिधास्वरूपाय रूपदाय नमो नमः ।
नमः स्वरस्वरूपाय भैरवाय नमो नमः ॥ १३१॥
नमः सरस्वतीरूप बुद्धिरूपाय ते नमः ।
नमः वन्द्यस्वरूपाय भैरवाय नमो नमः ॥ १३२॥
नमस्त्रिविक्रमरूपाय त्रिस्वरूपाय ते नमः ।
नमः शशाङ्करूपाय भैरवाय नमो नमः ॥ १३३॥
नमो व्यापकरूपाय व्याप्यरूपाय ते नमः ।
नमो भैरवरूपाय भैरवाय नमो नमः ॥ १३४॥
नमो विशदरूपाय भैरवाय नमो नमः ।
नमः सत्त्वस्वरूपाय भैरवाय नमो नमः ॥ १३५॥
नमः सूक्तस्वरूपाय शिवदाय नमो नमः ।
नमो गङ्गास्वरूपाय यमुनारूपिणे नमः ॥ १३६॥
नमो गौरीस्वरूपाय भैरवाय नमो नमः ।
नमो दुःखविनाशाय दुःखमोक्षस्वरूपिणे ॥ १३७॥
महाचलाय वन्द्याय भैरवाय नमो नमः ।
नमो नन्दस्वरूपाय भैरवाय नमो नमः ॥ १३८॥
नमो नन्दिस्वरूपाय स्थिररूपाय ते नमः ।
नमः केलिस्वरूपाय भैरवाय नमो नमः ॥ १३९॥
नमः क्षेत्रनिवासाय वासिने ब्रह्मवादिने ।
नमः शान्ताय शुद्धाय भैरवाय नमो नमः ॥ १४०॥
नमो नर्मदरूपाय जलरूपाय ते नमः ।
नमो विश्वविनोदाय जयदाय नमो नमः ॥ १४१॥
नमो महेन्द्ररूपाय महनीयाय ते नमः ।
नमः संसृतिरूपाय शरणीयाय ते नमः ॥ १४२॥
नमस्त्रिबन्धुवासाय बालकाय नमो नमः ।
नमः संसारसाराय सरसां पतये नमः ॥ १४३॥
नमस्ते जलरूपाय भैरवाय नमो नमः ।
नमः काव्यस्वरूपाय भैरवाय नमो नमः ॥ १४४॥
नमो गोकर्णरूपाय ब्रह्मवर्णाय ते नमः ।
नमः शङ्करवर्णाय हस्तिकर्णाय ते नमः ॥ १४५॥
नमो विष्टकर्णाय यज्ञकर्णाय ते नमः ।
नमः शम्बुककर्णाय भैरवाय नमो नमः ॥ १४६॥
नमो दिव्यसुकर्णाय कालकर्णाय ते नमः ।
नमो भयदकर्णाय भैरवाय नमो नमः ॥ १४७॥
नमो आकाशवर्णाय कालकर्णाय ते नमः ।
नमो दिग्रूपकर्णाय भैरवाय नमो नमः ॥ १४८॥
नमो विशुद्धकर्णाय विमलाय नमो नमः ।
नमः सहस्रकर्णाय भैरवाय नमो नमः ॥ १४९॥
नमो नेत्रप्रकाशाय सुनेत्राय नमो नमः ।
नमो वरदनेत्राय जयनेत्राय ते नमः ॥ १५०॥
नमो विमलनेत्राय योगिनेत्राय ते नमः ।
नमः सहस्रनेत्राय भैरवाय नमो नमः ॥ १५१॥
नमः कलिन्दरूपाय कलिन्दाय नमो नमः ।
नमो ज्योतिस्वरूपाय ज्योतिषाय नमो नमः ॥ १५२॥
नमस्तारप्रकाशाय ताररूपिन्नमोऽस्तुते ।
नमो नक्षत्रनेत्राय भैरवाय नमो नमः ॥ १५३॥
नमश्चन्द्रप्रकाशाय चन्द्ररूप नमोऽस्तु ते ।
नमो रश्मिस्वरूपाय भैरवाय नमो नमः ॥ १५४॥
नमः आनन्दरूपाय जयानन्दस्वरूपिणे ।
नमो द्रविडरूपाय भैरवाय नमो नमः ॥ १५५॥
नमः शङ्खनिवासाय शङ्कराय नमो नमः ।
नमो मुद्राप्रकाशाय भैरवाय नमो नमः ॥ १५६॥
नमो न्यासस्वरूपाय न्यासरूप नमोऽस्तुते ।
नमो बिन्दुस्वरूपाय भैरवाय नमो नमः ॥ १५७॥
नमो विसर्गरूपाय प्रणवरूप ते नमः ।
नमो मन्त्रप्रकाशाय भैरवाय नमो नमः ॥ १५८॥
नमो जम्बुकरूपायाय जङ्गमाय नमो नमः ।
नमो गरुडरूपाय भैरवाय नमो नमः ॥ १५९॥
नमो लम्बुकरूपाय लम्बिकाय नमो नमः ।
नमो लक्ष्मीस्वरूपाय भैरवाय नमो नमः ॥ १६०॥
नमो वीरस्वरूपाय वीरणाय नमो नमः ।
नमः प्रचण्डरूपाय भैरवाय नमो नमः ॥ १६१॥
नमो दम्भस्वरूपाय डमरुधारिन्नमोऽस्तु ते ।
नमः कलङ्कनाशाय कालनाथाय ते नमः ॥ १६२॥
नमः सिद्धिप्रकाशाय सिद्धिदाय नमो नमः ।
नमः सिद्धस्वरूपाय भैरवाय नमो नमः ॥ १६३॥
नमो धर्मप्रकाशाय धर्मनाथाय ते नमः ।
धर्माय धर्मराजाय भैरवाय नमो नमः ॥ १६४॥
नमो धर्माधिपतये धर्मध्येयाय ते नमः ।
नमो धर्मार्थसिद्धाय भैरवाय नमो नमः ॥ १६५॥
नमो निर्जररूपाय रूपारूपप्रकाशिने ।
नमो राजप्रकाशाय भैरवाय नमो नमः ॥ १६६॥
नमः प्रतापसिंहाय प्रतापाय नमो नमः ।
नमः कोटिप्रतापाय भैरवाय नमो नमः ॥ १६७॥
नमः सहस्ररूपाय कोटिरूपाय ते नमः ।
नमः आनन्दरूपाय भैरवाय नमो नमः ॥ १६८॥
नमः संहारबन्धाय बन्धकाय नमो नमः ।
नमो विमोक्षरूपाय मोक्षदाय नमो नमः ॥ १६९॥
नमो विष्णुस्वरूपाय व्यापकाय नमो नमः ।
नमो माङ्गल्यनाथाय शिवनाथाय ते नमः ॥ १७०॥
नमो व्यालाय व्याघ्राय व्याघ्ररूप नमोऽस्तु ते ।
नमो व्यालविभूषाय भैरवाय नमो नमः ॥ १७१॥
नमो विद्याप्रकाशाय विद्यानां पतये नमः ।
नमो योगिस्वरूपाय क्रूररूपाय ते नमः ॥ १७२॥
नमः संहाररूपाय शत्रुनाशाय ते नमः ।
नमो पालकरूपाय भैरवाय नमो नमः ॥ १७३॥
नमः कारुण्यदेवाय देवदेवाय ते नमः ।
नमो विश्वविलासाय भैरवाय नमो नमः ॥ १७४॥
नमो नमः प्रकाशाय काशीवासिन्नमोऽस्तुते ।
नमो भैरवक्षेत्राय क्षेत्रपालाय ते नमः ॥ १७५॥
नमो भद्रस्वरूपाय भद्रकाय नमो नमः ।
नमो भद्राधिपतये भयहन्त्रे नमोऽस्तु ते ॥ १७६॥
नमो मायाविनोदाय मायिने मदरूपिणे ।
नमो मत्ताय शान्ताय भैरवाय नमो नमः ॥ १७७॥
नमो मलयवासाय कैलासाय नमो नमः ।
नमः कैलासवासाय कालिकातनयाय ते ॥ १७८॥
नमः संसारसाराय भैरवाय नमो नमः ।
नमो मातृविनोदाय विमलाय नमो नमः ॥ १७९॥
नमो यमप्रकाशाय नियमाय नमो नमः ।
नमः प्राणप्रकाशाय ध्यानाधिपतये नमः ॥ १८०॥
नमः समाधिरूपाय निर्गुणाय नमो नमः ।
नमो मन्त्रप्रकाशाय मन्त्ररूपाय ते नमः ॥ १८१॥
नमो वृन्दविनोदाय वृन्दकाय नमो नमः ।
नमो बृंहितरूपाय भैरवाय नमो नमः ॥ १८२॥
नमो मान्यस्वरूपाय मानदाय नमो नमः ।
नमो विश्वप्रकाशाय भैरवाय नमो नमः ॥ १८३॥
नमो नैमिषपीठाय सिद्धपीठाय ते नमः ।
नमो मण्डलपीठाय भक्तपीठाय ते नमः ॥ १८४॥
नमो यशोदानाथाय कामनाथाय ते नमः ।
नमो विनोदनाथाय सिद्धनाथाय ते नमः ॥ १८५॥
नमो नाथाय नाथाय ज्ञाननाथाय ते नमः ।
नमः शङ्करनाथाय जयनाथाय ते नमः ॥ १८६॥
नमो मुद्गलनाथाय नीलनाथाय ते नमः ।
नमो बालकनाथाय धर्मनाथाय ते नमः ॥ १८७॥
विश्वनाथाय नाथाय कार्यनाथाय ते नमः ।
नमो भैरवनाथाय महानाथाय ते नमः ॥ १८८॥
नमो ब्रह्मसनाथाय योगनाथाय ते नमः ।
नमो विश्वविहाराय विश्वमार्याय ते नमः ॥ १८९॥
नमो रङ्गसनाथाय रङ्गनाथाय ते नमः ।
नमो मोक्षसनाथाय भैरवाय नमो नमः ॥ १९०॥
नमो गोरक्षनाथाय नन्दनाथाय ते नमः ।
नमो मन्दारनाथाय नन्दनाथाय ते नमः ॥ १९१॥
नमो मङ्गलनाथाय चम्पानाथाय ते नमः ।
नमः सन्तोषनाथाय भैरवाय नमो नमः ॥ १९२॥
नमो निर्धननाथाय सुखनाथाय ते नमः ।
नमः कारुण्यनाथाय भैरवाय नमो नमः ॥ १९३॥
नमो द्रविडनाथाय दरिनाथाय ते नमः ।
नमः संसारनाथाय जगन्नाथाय ते नमः ॥ १९४॥
नमो माध्वीकनाथाय मन्त्रनाथाय ते नमः ।
नमो न्याससनाथाय ध्याननाथाय ते नमः ॥ १९५॥
नमो गोकर्णनाथाय महानाथाय ते नमः ।
नमः शुभ्रसनाथाय भैरवाय नमो नमः ॥ १९६॥
नमो विमलनाथाय मण्डलनाथाय ते नमः ।
नमः सरोजनाथाय सत्य(मत्स्य)नाथाय ते नमः ॥ १९७॥
नमो भक्तसनाथाय भक्तिनाथाय ते नमः ।
नमो मोहननाथाय वत्सनाथाय ते नमः ॥ १९८॥
नमो मातृसनाथाय विश्वनाथाय ते नमः ।
नमो बिन्दुसनाथाय जयनाथाय ते नमः ॥ १९९॥
नमो मङ्गलनाथाय धर्मनाथाय ते नमः ।
नमो गङ्गासनाथाय भूमिनाथाय ते नमः ॥ २००॥
नमो धीरसनाथाय बिन्दुनाथाय ते नमः ।
नमः कञ्चुकिनाथाय शृङ्गिनाथाय ते नमः ॥ २०१॥
नमः समुद्रनाथाय गिरिनाथाय ते नमः ।
नमो माङ्गल्यनाथाय कद्रुनाथाय ते नमः ॥ २०२॥
नमो वेदान्तनाथाय श्रीनाथाय नमो नमः ।
नमो ब्रह्माण्डनाथाय भैरवाय नमो नमः ॥ २०३॥
नमो गिरीशनाथाय वामनाथाय ते नमः ।
नमो बीजसनाथाय भैरवाय नमो नमः ॥ २०४॥
नमो मन्दिरनाथाय मनोनाथाय ते नमः ।
नमो भैरवनाथाय भैरवाय नमो नमः ॥ २०५॥
अम्बानाथाय नाथाय जन्तुनाथाय ते नमः ।
नमः कालिसनाथाय भैरवाय नमो नमः ॥ २०६॥
नमो मुकुन्दनायाय कुन्दनाथाय ते नमः ।
नमः कुण्डलनायाय भैरवाय नमो नमः ॥ २०७॥
नमोऽष्टचक्रनाथाय शूलनाथाय ते नमः ।
नमो विभूतिनाथाय शूलनाथाय ते नमः ॥ २०८॥
नमो न्यायसनाथाय न्यायनाथाय ते नमः ।
नमो दयासनाथाय जङ्गमनाथाय ते नमः ॥ २०९॥
नमो विशदनाथाय जगन्नाथाय ते नमः ।
नमः कामिकनाथाय भैरवाय नमो नमः ॥ २१०॥
नमः क्षेत्रसनाथाय जीवनाथाय ते नमः ।
नमः शैलसनाथाय चैलनाथाय ते नमः ॥ २११॥
नमो मात्रासनाथाय भैरवाय नमो नमः ।
नमो द्वन्द्वसनाथाय भैरवाय नमो नमः ॥ २१२॥
नमः शूरसनाथाय शूरनाथाय ते नमः ।
नमः सौजन्यनाथाय सौजन्याय नमो नमः ॥ २१३॥
नमो दुष्टसनाथाय भैरवाय नमो नमः ।
नमो भयसनाथाय बिम्बनाथाय ते नमः ॥ २१४॥
नमो भैरवनाथाय भैरवाय नमो नमः ।
नमो विटङ्कनाथाय टङ्कनाथाय ते नमः ॥ २१५॥
नमश्चर्मसनाथाय खड्गनाथाय ते नमः ।
नमः शक्तिसनाथाय धनुर्नाथाय ते नमः ॥ २१६॥
नमो बाणसनाथाय शापनाथाय ते नमः ।
नमो यन्त्रसनाथाय भैरवाय नमो नमः ॥ २१७॥
नमो गण्डूषनाथाय गण्डूषाय नमो नमः ।
नमो डाकिनीनाथाय भैरवाय नमो नमः ॥ २१८॥
नमो डामरनाथाय डारकाय नमो नमः ।
नमो डङ्कसनाथाय डङ्कनाथाय ते नमः ॥ २१९॥
नमो माण्डवनाथाय यज्ञनाथाय ते नमः ।
नमो यजुःसनाथाय क्रीडानाथाय ते नमः ॥ २२०॥
नमः सामसनाथायाथर्वनाथाय ते नमः ।
नमः शून्याय नाथाय स्वर्गनाथाय ते नमः ॥ २२१॥
॥ इति रुद्रयामलोक्तं बटुकभैरवसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Notes:
Readers' discretion is recommended.
The names of Ṛṣi ऋषि vary amongst publications.
Some publications have mentioned a detailed Phalaśruti फलश्रुति.
There are errors and variations in some publications wrt the names, e.g.:
Dhyānanāthāya ध्याननाथाय is incorrectly written as Ghyānanāthāya घ्याननाथाय, etc.
Some of the Names are repeated; especially, Bhairava भैरव, Bhairavarūpa भैरवरूप etc. perhaps as iteration.
BaṭukaBhairavaSahasraNāmāvaliḥ (RudrayāmaloktaBaṭukaBhairavaSahasranAmaStotraVyutpannā) बटुकभैरवसहस्रनामावलिः (रुद्रयामलोक्तबटुकभैरवसहस्रनामस्तोत्रव्युत्पन्ना) derived from the BaṭukaBhairavaSahasranāmaStotraM (Rudrayāmaloktam) बटुकभैरवसहस्रनामस्तोत्रं (रुद्रयामलोक्तम्) can be accessed from the respective link given below .
Proofread by Ruma Dewan