बटुकभैरवसहस्रनामस्तोत्रम् १-२

बटुकभैरवसहस्रनामस्तोत्रम् १-२

(भैरवतन्त्रोक्तम्) ईश्वरोवाच - देवेशि भक्तिसुलभे देवनायकवन्दिते । भक्तानां कार्यसिद्धयर्थं निदानं ब्रूहितवत्तः ॥ विनैव न्यासजालेन पूजनेन विना भवेत् । विना कायादिक्लेशेन वित्तव्ययं विनेश्ववरि ॥ देव्युवाच - ॐ अस्य श्रीबटुकभैरवसहस्रनामस्तोत्रमन्त्रस्य ब्रह्मानन्दभैरव ऋषिः । अनुष्टुप् छन्दः । बटुकभैरवो देवता । बं बीजम् । ह्रीं शक्तिः । सर्वाभीष्टसिद्धये जपे विनियोगः । अथ न्यासः - ॐ ह्रां बां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं बीं तर्जनीभ्यां नमः । ॐ ह्रूं बूं मध्यमाभ्यां नमः । ॐ ह्रैं बैं अनामिकाभ्यां नमः । ॐ ह्रौं बौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः बः करतलकरपृष्ठभ्यां नमः । (एवं हृदयादि ।) अथ ध्यानं - उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्त्रजं स्मेरास्यं वरदं कपालमभयं शूलं दधान करैः । नीलग्रीवमुदारकौस्तुभधरं शीतांशुचण्डोज्ज्वलं बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ अथ सहस्रनामानि - ॐ ह्रीं बटुकः कामदो नाथोऽनाथप्रियप्रभाकरः । भैरवो भीतिहा दर्पः कन्दर्पो मीनकेतनः ॥ १॥ रुद्रो बटुर्विभूतीशो भूतनाथः प्रजापतिः । दयालुः क्रूर ईशानो जनेशी लोकवल्लभः ॥ २॥ देवो दैत्येश्वरो वीरो वीरवन्द्यो दिवाकरः । बलिप्रियः सुरश्रेष्ठः कनिष्ठो नैष्ठिकः शिशुः ॥ ३॥ महाबलो महातेजा वित्तजो द्युतिवर्द्धनः । तेजस्वी वीर्यवान् वृद्धो विवृद्धो भूतनायकः ॥ ४॥ बालकः पालकः कामो विकामः कामवर्धनः । कालिकारमणः कालीनायकः कालिकाप्रियः ॥ ५॥ कालीशः कालिकाकान्तः कालिकानन्दवर्धनः । कालिकाहृदयज्ञानी कालिकातनयो नयः ॥ ६॥ खगेशः खेचरः खेटो विशिष्टः खेटकप्रियः । कुमारः क्रोधनः कालीप्रियः पर्वतरक्षकः ॥ ७॥ गणेज्यो गणपो गूढो गूढप्रायो (गूढाशयो)गणेश्वरः । गणनाथ गणश्रेष्ठो गणमुख्यो गणप्रियः ॥ ८॥ घोरनादो घनश्यामो घनस्वामी घनान्तकः । चम्पकाभश्चिरञ्जीवी चारु(चण्ड)वेषश्चराचरः ॥ ९॥ चिन्त्योऽचिन्त्यगुणो धीमान् सुचि(सच्चि)त्तस्थश्चितीश्वरः । छत्री छत्रपतिश्छेत्ता छिन्नमस्तामनःप्रियः ॥ १०॥ छिन्नाभश्छिन्नसन्तापश्छद्दिर्शश्छर्दनान्तकः । जेता जिष्णुर्जडेशानो जनानन्दो (जनार्द्दनो)जनेश्वरः ॥ ११॥ जनको जनसन्तोषो जनजाड्यविनाशनः । जालन्धरो जनाराध्यो जनाध्यक्षो जनप्रियः ॥ १२॥ जीवहा जीवदो जन्तुर्जीवनाथो जनेश्वरः । जयदो जित्वरो जिष्णुर्जयश्रीर्जयवर्धनः ॥ १३॥ जयभूमिर्जयाकारो जयहेतुर्जयेश्वरः । झङ्कारकृदनन्तात्मा झङ्कारहेतुरात्मभूः ॥ १४॥ झञ्झाझरिध्वनिर्भर्ता विभर्ता भृत्यकेश्वरः । टीत्कारकृदमेयात्मा टङकेशोऽष्टङ्कनायकः ॥ १५॥ ठकारभूष्ठरन्ध्रीशो गिरिष्ठष्ठक्कुरः पविः । ढुण्ढिर्ढक्काप्रियः पार्थो ढुण्डिराजो निरन्तकः ॥ १६॥ ताम्रस्तमीश्वरः स्तोता तीर्थराजस्तडित्प्रभः । क्षणस्त्र्यक्षकस्तम्भस्तार्क्षकस्तम्भटेश्वरः ॥ १७॥ स्थलस्यः स्थावरः स्थाता स्थिरबुद्धि स्थिरेन्द्रियः । स्थिरज्ञानी स्थिरप्रीतिः स्थिरस्थितिः स्थिराशयः ॥ १८॥ दामो दामोदरो दम्भो दाडिमीकुसुमप्रियः । दारिद्र्यहा दमी दिव्यो दिव्यदेहो दिनप्रभः ॥ १९॥ दिनकरो दिवानाथो दिवसेशो दिवाकरः । दीर्घेशो दलनज्योतिर्दलेशो दलसुन्दरः ॥ २०॥ दलप्रियो दलाभासो दलपूज्यो दलप्रभुः । दलकान्ति(दुतकीर्ति)र्दलाकारो दलसेव्यो दलार्चितः ॥ २१॥ दीर्घबाहुर्द्दलश्रेष्ठो दललुब्धो दलाकृतिः । दानवश्यो दयासिन्धुर्दयालुर्दीन(दीप्ति)वल्लभः ॥ २२॥ धनेशो धनदो धर्मो धनराजो धनप्रभुः । धनप्रदो धनाध्यक्षो धनमान्यो धनञ्जयः ॥ २३॥ धीवरो धातुको धाता ध्रुवो धूमच्छविर्धवः । धनिष्ठो धवलच्छत्री धनकाम्यो धनेश्वरः ॥ २४॥ धीरो धीरतरो धेनुर्धरशो धरणीप्रभुः । धराधीशो धरानाथो धरणीनायको धरः ॥ २५॥ धराकान्तो धरापालो धरणीजनवल्लभः । धराधरोऽधरो धृष्ठो धृतराष्ट्रो धनीश्वरः ॥ २६॥ नारदो नीरदोऽन्नीतो नतिपूज्यो नतिप्रियः । नतिलभ्यो नतीशानो नीतिलुब्धो नतीश्वरः ॥ २७॥ पाण्डवः पार्थसम्पूज्यः पार्थदः प्रणतः पृथुः । पृथिवीशः पृथासूनुः पृथिवीभृत् परेश्वरः ॥ २८॥ पुराणः पारदः पान्थः पाञ्चालीपातकः प्रभुः । पूर्वः पुरपतिः श्रेयान् प्रीतिदः प्रीतिवर्द्धनः ॥ २९॥ पार्वतीशः परेशानः पार्वतीहृदयप्रियः । पार्वतीरमणः पूतः पवित्रः पापनाशनः ॥ ३०॥ पात्री पत्रालिसन्तुष्टः परितुष्टः पुमान् प्रियः । पर्वेशः पर्वताधीशः पर्वतो नायकात्मजः ॥ ३१॥ फणागुणः फणीनाथः फणीशः फणरक्षकः । फणीपतिः फणीशानः फणराजः फणाकृतिः ॥ ३२॥ बलभद्रो बलो बालो बलधीर्बलवर्द्धनः । बलप्राणो बलाधीशो बलिदानप्रियङ्करः ॥ ३३॥ बलिराजो बलिप्राणो बलिनाथो बलप्रियः । बलिवेशश्च बालेशो बालकप्रियदर्शनः ॥ ३४॥ भद्रो भद्रपदो भीमो भीमसेनो भयङ्करः । भव्यो भव्यप्रियो भूतपतिर्भूतविनाशनः ॥ ३५॥ भूतेशो भूतिदो भर्गो भूतभव्यो भवेश्वरः । भवानीशो भवेशानो भवानीनायकोऽर्भकः ॥ ३६॥ मकरो माधवो मानी मीनकेतुर्महेश्वरः । महेषुर्मदनो(र्मेदसो)मन्थो मिथुनेशोऽमराधिपः ॥ ३७॥ मरीचिर्मञ्जुलो मोहो मोहहा मोहमर्दनः । मोहको मोहनो मेधाप्रियो मोहविनाशकः ॥ ३८॥ महीपतिर्महीशानो महीराजो मनोहरः । महीश्वरो महादेवो महीनाथो महीप्रियः ॥ ३९॥ महीधरो महादेवो मनुराजो मनुप्रियः । मौनी मौनधरो मेघो(षो, धो)मन्दारो मतिवर्द्धनः ॥ ४०॥ मतिदो मन्थरो मन्त्रो मन्त्रीशो मन्त्रनायकः । मतिदो मन्थरो मन्त्रो मन्त्री मन्त्रविनायकः ।) मेधावी मानदो मानी मानहा मानमर्दनः ॥ ४१॥ मीनगो मकराधीशो मधुरो मणिरञ्जितः । मणिरम्यो मणिभ्राता मणिमण्डनमण्डितः ॥ ४२॥ मन्त्रपो मन्त्रदो मुग्धो मोक्षदो मोक्षवल्लभः । मल्लो मल्लप्रियो मञ्चो मेलको मेलनप्रभुः ॥ ४३॥ मल्लिको मल्लिकागन्धी मल्लिकाकुसुमप्रियः । मालतीशो मेघनाथो मघमूर्तिर्मघेश्वरः ॥ ४४॥ मूलाभो मूलहा मूलो मूलदो मूलमत्सरः । माणिक्यरोचिः सम्मुग्धो मणिकूटो मणिप्रियः ॥ ४५॥ मुकुन्दो मदनो मन्दो मन्दवन्द्यो मनुप्रभुः । मनःस्थो मेनकाधीशो मेनकाप्रियर्शनः ॥ ४६॥ यमो यामो यमीदेवो यादवो यदुनायकः । (यमश्च यामलो यन्ता यादवो यदुनायकः ।) यावको याज्ञिको यज्ञो यज्ञेशो यज्ञवर्धनः ॥ ४७॥ रम्भापती रमाधीथो रमेशो रामवल्लभः । रमापती रमानाथे रमाकान्तो रमेश्वरः ॥ ४८॥ रेवतीरमणो रामो रमेशो रामनन्दनः । रम्यमूर्ती रती(रमे)शानो राकायानायको रविः ॥ ४९॥ लक्ष्मीधरो ललज्जिह्वो लक्ष्मीबीजजपेरतः । लम्पटो लिङ्गराजेशो लम्बोदरो लकारभूः(गः) ॥ ५०॥ वामनो वल्लभो वन्द्यो (वर्ण्यो)वनमाली वनेश्वरः । वनस्थो वनगो विन्ध्यो (वन्द्यो)विन्ध्यराजो वनाह्वयः ॥ ५१॥ वनेचरो वनाधीशो वनमालाविभूषणः । वेणुप्रियो वनाकारो वनाराध्यो वनप्रभुः ॥ ५२॥ शम्भुः शङ्करसन्तुष्टः शम्बरारिः शरासनः । शबरीप्रणतः शालः शिलीमुखध्वनिप्रियः ॥ ५३॥ शकुलः शल्लकः (शकलः)शीतः शीतरश्मिः सितांशुकः । शीलदः शीकरः शीलः शीलशीली शनैश्चरः ॥ ५४॥ सिद्धः सिद्धिकरः साध्यः सिद्धिभूः सिद्धिभावनः । सिद्धान्तवल्लभः सिन्धुः सिन्धुतीरनिषेवितः ॥ ५५॥ सिन्धुपतिः सरोधीशः सरसीरुहलोचनः । सरित्पतिः सरित्संस्थः सरः सिन्धुः सरोवरः ॥ ५६॥ सखा सखीपतिः सूतः सचेताः सत्पतिः सितः । सिन्धुराजः सदाभूतः सदाशिवः सताम्पतिः ॥ ५७॥ सदीशः सदनः (सदणुः)सूरिः सेव्यमानः सतीपतिः । सूर्यः सूर्यपतिः सेव्यः सेवाप्रियः सनातनः (सेवाप्रियसदासनुः) ॥ ५८॥ सतीशः सरसीनाथः सतीराजः सतीश्वरः । सतीप्राणः सतीनाथः सतीसेव्यः सतीरतिः ॥ ५९॥ सिद्धराजः सतीतुष्टः सचिवः सव्यवाहनः । सतीनायकसन्तुष्टः सव्यसाची सुमन्तकः ॥ ६०॥ सच्चित्तः सर्वसन्तोषी सर्वाराधन सिद्धिदः । सर्वाराध्यः सचिवाख्यः सचीपतिसुसेवितः ॥ ६१॥ सगरः सागरः सार्थः समुद्रः समुद्रप्रियः । समुद्रतीरसन्तुष्टः समुद्रप्रियदर्शनः ॥ ६२॥ समुद्रेशः सरोनाथः सरसीजविलोचनः । सरसीजलदाकारः सरसीजलदार्चितः ॥ ६३॥ समुद्रकः समुद्रात्माः साध्यमानः सुरेश्वरः । सुरसेव्यः सुरेशानः सुरनाथः सुरार्चितः ॥ ६४॥ सुराध्यक्षः सुराराध्यः सुरवन्द्यविशारदः । सुरमुख्यः सुरप्रायः सुरसिन्धुनिवासवान् ॥ ६५॥ सुधाप्रियः सुधाधीशः सुधाराध्यः सुधापतिः । सुधानाथः सुधाभूतः सुधासागरसेवितः ॥ ६६॥ हाटको हीरको हन्ता हीरको रुचिरप्रभः । हव्यवाहो हरिद्राभो हरिद्रारसदर्शनः ॥ ६७॥ हेतिर्हेतुर्हरित्राता हरिनाथो हरिप्रियः । हरिपूज्यो हरिप्राणो हरहृष्टो हरिद्रकः ॥ ६८॥ हरीशो हन्तृको हीरो हरिनामपरायणः । हरिमुग्धो हरिरम्यो हरिदासो हरीश्वरः ॥ ६९॥ हरो हरपतिर्हारो हरिणीचित्तहारकः । हरहीतो हरप्राणो हरिवाहनशोभनः ॥ ७०॥ हासो हासप्रियो हूहूर्हुतभुग् हुतवाहनः । हुताशनो हली हक्को हलाहलहलायुधः ॥ ७१॥ हलाकारो हलीशानो हलिपूज्यो हलिप्रियः । हरपुत्रो हरोत्साहो हरसूनुर्हरात्मजः ॥ ७२॥ हरवन्द्यो हराधीशो हरातङ्को हराकृतिः । हरमान्यो हराङ्कस्थो हरवैरिविनाशनः ॥ ७३॥ हरशत्रुर्हरामर्षोऽहङ्कारो हरिणीप्रियः । हाटकेशो हहेशानो हाटकप्रियदर्शनः ॥ ७४॥ हाटको हाटकप्राणो हाट्भूषणभूषितः । हेतिदो हंसको हंसो हंसगतिर्हराह्वयः ॥ ७५॥ हंसीपतिर्हरोन्मत्तो हंसीशो हरवल्लभः । हरपुष्पप्रभो हंसीप्रियो हंसविलासकः ॥ ७६॥ हरबीजरतो हारी हरितो हरिताम्पतिः । हरित्प्रभुर्हरित्पालो हरिदन्तरनायकः ॥ ७७॥ हरिदीशो हरित्प्राणो हरप्रियः प्रियो हितः । हेरम्बो हुङ्कृति क्रुद्धो हेरम्बानन्दनो हठी ॥ ७८॥ हेरम्बप्राणसंहर्ता हेरम्बहृदयप्रियः । क्षमापतिः क्षणः क्षान्तः क्षुरधारः क्षितीश्वरः ॥ ७९॥ क्षितीशः क्षितितः क्षीणः क्षितिपालः क्षितिप्रभुः । क्षितीशानः क्षितिप्राणः क्षितिनायकसत्प्रियः ॥ ८०॥ क्षितिराजः क्षणादाधीशः क्षणपतिः क्षणेश्वरः । क्षणप्रियः क्षमानाथः क्षणदानायकप्रियः ॥ ८१॥ क्षणिकः क्षणदाधीशः क्षणदाप्राणदः क्षमी । क्षमः क्षोणिपतिः क्षोभः क्षोभकारी(प्रदः)क्षमाप्रियः ॥ ८२॥ क्षमाशीलः क्षमारूपः क्षमामण्डनमण्डितः । क्षमानाथः क्षमाधारः क्षमाका(धा)रीः क्षमाका(ध)रः ॥ ८३॥ क्षामः क्षीणरजाः क्षुद्रः क्षुद्रपानविशारदः । क्षुद्रेशानः (क्षुद्रासनः)क्षणाकारः क्षीरपानकतत्परः ॥ ८४॥ क्षीरशायी क्षणेशानः क्षोणिभृत्क्षणदोत्सवः । क्षेमङ्करः क्षमालुब्धः क्षमाशास्त्रविशारदः ॥ ८५॥ क्षमीश्वरः क्षमाकामः क्षमाहृदयमण्डनः । नीलाद्रिरुचिरोलेशो नीलपर्वतसन्निभः ॥ ८६॥ नीलमणिप्रभारम्यः शशिभूषणभूषितः । शशिधरः शरीभूतो मुण्डमालाविभूषितः ॥ ८७॥ मुण्डस्यो मुण्डसन्तुष्टो मुण्डमालधरोऽनघः । दिग्वासा विदिगाकारो दिगम्बरवरप्रदः ॥ ८८॥ दिगम्बरीश आनन्दो दिगम्बरतनूद्भवः । पिङ्गलैकजटो धृष्टो डमरूवादनप्रियः ॥ ८९॥ सृणीकरः सृणीशानः खड्गधृक् खड्गपालकः । शूलहस्तो मतङ्गाभो मातङ्गोत्सवसुन्दरः ॥ ९०॥ अभयङ्कर ऊर्वङ्गो लङ्कापतिविनाशनः । नगाशयो नगेशानो नागमण्डलमण्डितः ॥ ९१॥ नगाकारो नगाधीशो नगशायी नगप्रियः । घण्टोत्सवो घटाकारो घण्टावाद्यविशारदः ॥ ९२॥ कपालपाणिरम्बेशः कपालासनसारदः(दनः) । पद्मपाणिः रालास्यस्त्रिनेत्रो नागवल्लभः ॥ ९३॥ किङ्किणीजालसन्तुष्टो जलप्रायो जलाकरः । अपमृत्युहरो मायामोहमूलविनाशनः ॥ ९४॥ आयुष्कः कमलानाथः कमलाकान्तवल्लभः । राज्यदो राजराजेश राजीवपदशोभनः ॥ ९५॥ डाकिनीनायको नित्यो नित्यधर्मपरायणः । डाकिनीहृदयज्ञानी डाकिनीदेहनाशकः ॥ ९६॥ डाकिनीप्राणदः शुद्धः श्रद्धेयचरितो विभुः । हेमप्रभो हिमेशानो हिमानीप्रियदर्शनः ॥ ९७॥ हेमदो मर्मदो नामी नामधेयो नगात्मजः । वैकुण्ठो वासुकिप्राणो वासुकीकण्ठभूषणः ॥ ९८॥ कुण्डलीशो मखध्वंसी मखराजो मखेश्वरः । मखाकारो मखाधीशो मखमालाविभूषणः ॥ ९९॥ अम्बिकावल्लभो वाणीपतिर्वाणीविशारदः । वाणीशो वाचःप्राणश्च वचनस्थो वनप्रियः ॥ १००॥ वेलाधरो दिशामीशो दिङ्नागो(थो)हि दिगीश्वरः । दूर्वाप्रियो दुराराध्यो दारिद्रयभयभञ्जनः ॥ १०१ (दूर्वाप्रियो दुराराध्यो दारिद्रयभञ्जनक्षमः) ॥ १०१॥ तर्कस्तर्कप्रियस्तर्क्यो वितर्क्कस्तर्कवल्लभः । तर्कसिद्धोऽतिसिद्धात्मा सिद्धदेहो गुहाशयः ॥ १०२॥ ग्रहगर्भो ग्रहेशानो गन्धगन्धो विशारदः । मङ्गलो मङ्गलाकारो मङ्गलवाद्यवादकः ॥ १०३॥ मङ्गलीशो विमानस्थो विमानो नैकनायकः । (मङ्गलीशो विमानस्थो विमानस्यैकनायकः ।) बुधेशो विबुधाधीशो बुधवारो बुधाकरः ॥ १०४॥ बुधनाथो बुधप्रीतो बुधवन्द्यो बुधाधिपः । बुधसिद्धो बुधप्राणो बुद्धबुद्धो बुधप्रियः ॥ १०५॥ सोमप्रभो मनःसिद्धो मनोजप्राणनाशनः । सामेशो मशकाकारो सोमपाः सोमनायकः ॥ १०६॥ कामगः कामहा बौद्धः कामनाफलदोऽधिपः । त्रिदशो दशरात्रेशो दशाननविनाशनः ॥ १०७॥ लक्ष्मणो लक्ष्यसम्भर्त्ता (लक्षसंवर्त्ति)लक्ष्यसङ्ख्यो मनःप्रियः । विभावसुर्नलेशानो नायको नगजाप्रियः ॥ १०८॥ नलकान्तिर्नलोत्साहो नरदेवो नराकृतिः । नरपतिर्नरिशानो नारायणो नरेश्वरः ॥ १०९॥ अनिलो मारुतो मांसो मांसैकरससेवितः । मरीचिरमरेशानो मागधो मगधप्रभुः ॥ ११०॥ सुन्दरो सेवकोद्वारी द्वारदेशनिवासनः । देवकीगर्भसञ्जातो देवकीसेवकः कुजः(हूः) ॥ १११॥ बृहस्पतिः कविः शुक्रः शारदासाधकप्रियः । शारदासाधकः प्राणः शारदासेवकोत्सुकः ॥ ११२॥ शारदासाधकश्रेष्ठो वीतरागो जगत्प्रभुः । मांसप्रियो मधुप्राणो मधुमासमहोत्सवः ॥ ११३॥ मधुपो मधुपश्रेष्ठो मधुपानसदारतिः । मोदकादानसम्प्रीतो मोदकामोदमोहितः ॥ ११४॥ आमोदानन्दितो नन्दो नन्दिकेशो नदेश्वरः । नदीप्रियो नदीनाथो नदीतीररुहस्तपाः ॥ ११५॥ तपनस्तापनस्तप्ता(फ्र)तापहा तापकारकः । पतङ्गो गोमुखो गौरो गोपालो गोपवर्द्धनः ॥ ११६॥ गोपतिर्गोपसंहर्ता गोवृन्दैकप्रियोऽतिगः । गर्विष्ठो गुणरम्यश्च गुणसिन्धुर्गुरुप्रियः ॥ ११७॥ गुणपूज्यो गुणोपेतो गुणवाद्यो गुणोत्सुकः । गुणीशः केवलो गर्भः सुगर्भो गर्भरक्षकः ॥ ११८॥ गाम्भीर्यधारको धर्त्ता विधर्ता धर्मपालकः । जगदीशो जगन्मित्रो जगत्त्राता जगत्प्रभुः ॥ ११९॥ जगद्धाता जगद्भोक्ता जगज्जाड्यविनाशनः । जगत्कर्ता जगद्धर्ता जगज्जीवनजीवनः ॥ १२०॥ मालतीपुष्पसम्प्रीतो मालतीकुसुमोत्सुकः । मालतीकुसुमाकारो मालतीकुसुमप्रभः ॥ १२१॥ रसालमञ्जरीरम्यो रसगन्धनिषेवितः । रसालमञ्जरीलुब्धो रसालतरुवल्लभः ॥ १२२॥ रसालतरुवासी वै रसालफलसुन्दरः । रसालरससन्तुष्टो रसालरस(गन्ध)लालसः ॥ १२३॥ केतकीपुष्पसन्तुष्टो केतकीगर्भसम्भवः । केतकीपत्रसङ्काशः केतकीप्राणनाशनः ॥ १२४॥ गर्त्तस्थो गर्त्तगम्भीरो गर्त्तेशो गर्त्तनायकः । गर्त्तशोऽतिगर्त्तस्थो गर्त्ततीरनिवासकः ॥ १२५॥ गणसेव्यो गणाध्यक्षो गणराजो गणाह्वयः । आनन्दभैरवो भीरुर्भैरवेशो रुरुर्भगः ॥ १२६॥ सुब्रह्मभैरवो वामभैरवो भूतभावनः । भैरवीतनयो देवीपुत्रः पर्वतसम्भवः ॥ १२७॥ फलं - नाम्नाऽनेन सहस्रेण स्तुत्वा बटुकभैरवम् । लभते ह्यतुलां लक्ष्मीं देवानामपि दुर्लभाम् ॥ १२८॥ उपदेशं गुरोर्लब्ध्वा योगे त्रिमङ्गली भवेत् । अष्टम्यां वा चतुर्दश्यां वासरे भूमिसम्भवे ॥ १२९॥ शुक्रे वा रविसङ्क्रान्तौ योगोऽयमुत्तमः प्रभो । तस्मिन् योगे महेशानि सर्वसिद्धिमवाप्नुयात् ॥ १३०॥ लक्षमावर्त्तयेन्मन्त्री मन्त्रराजं नगेश्वरि । नित्यकर्म सुसिद्धयर्थं तत्फलं लभते ध्रुवम् ॥ १३१॥ स्तवमेनं पठेन्मन्त्री पाठयन् वा यथाविधि । दुर्लभां लभते सिद्धिं सर्वदेवनमस्कृताम् ॥ १३२॥ न प्रकाश्यं च पुत्रेषु भ्रष्टेषु तु कदाचन । अन्यथा सिद्धिरोधः स्याद् वातुलो वा भवेप्रियः ॥ १३३॥ स्तवस्यास्य प्रसादेन देवनायकवत्प्रियः । सङ्ग्रामे विजयेच्छत्रून्मातङ्गानिव केसरी ॥ १३४॥ राजानं वशयेत् सद्यो देवानपि वशं नयेत् । किं वा परं फलं नाथ ! स्तवराजस्य कथ्यताम् ॥ १३५॥ यद्यन्मनसि सङ्कल्प स्तवमेनमुदीरयन् । तत्तदाप्नोति देवेश बटुकस्य प्रसादतः ॥ १३६॥ आपदां हि विनाशाय कारणं कान्तदुर्लभम् । देवासुररणे घोरे देवानामुपकारकम् ॥ १३७॥ प्रकाशितं मया नाथ तन्त्रे भैरवदीपके । अपुत्रो लभते पुत्रं षण्मासान् निरतो नरः ॥ १३८॥ पठित्वा पाठयित्वाऽपि स्तवराजमनुत्तमम् । दरिद्रो लभते लक्ष्मीमीप्सितामपि निश्चलम् ॥ १३९॥ कन्यार्थी लभते कन्यां सर्वरूपसमन्विताम् । प्रदोषे बलिदाने च वशयेदखिलं जगत् ॥ १४०॥ वटे वा बिल्वमूले वा रम्भायां विपनेऽपि वा । जपेत्सततमालक्षं मन्त्रराजस्य सिद्धये ॥ १४१॥ वर्णलक्षं जपेद्वापि दिङ्मात्रं हि प्रदर्शितम् । पूजयेत्तु तिलैर्माषैर्दुग्धैर्मांसैर्झषैस्तथा ॥ १४२॥ घृतपक्वान्नतो वाऽपि जेमनै रससङ्कुलैः । पूजयेद्धारयेद्वाऽपि स्तवमेनं सुसाधकः ॥ १४३॥ पठेद्वा पाठयेद्वाऽपि यथाविधि सुरप्रिये । शत्रुतो न भयं तस्य नाग्निचोरास्त्रवज्रजम् ॥ १४४॥ ज्वरादिसम्भवं वापि सत्यं सत्यं महेश्वरः । भैरवाराधनाशक्तो यो भवेत्साधकः प्रभो ॥ १४५॥ सदाशिवः स विज्ञयो भैरवेणेति भाषितम् ॥ १४६॥ श्रीमद्धैरवराजरञ्जनविधौ वैय्यग्ग्रमासेदुषः । पुंसः पञ्चविधा भवन्ति नवधा ह्यष्टौ तथा सिद्धयः । क्षोणीपालकिरीटकोटिमणिरुन्मालाभरैर्भूयशो- मौग्ध्यं पादपयोजयोर्विजयते मूर्ध्नि प्रभोश्छत्रताम् ॥ १४७॥ ॥ इति श्रीभैरवन्त्रोक्तं श्रीबटुकभैरवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Notes: Readers' discretion is recommended. The referenced source publications have some variations/errors wrt the names mentioned . e.g . Ṭītkārakṛdameyātmā टीत्कारकृदमेयात्म् vs Ṭītkārahṛdameyātmā टीत्कारहृदमेयात्मा Ṭaṅkanāyakaḥ टङ्कनायकः vs Ṭhaṅkanāyakaḥ ठङ्कनायकः ṬhakārabhūṣṬharandhrīśo GiriṣṭhaṣṬhakkuraḥ Paviḥ ठकारभूष्ठरन्ध्रीशो गिरिष्ठष्ठक्कुरः पविः vs ṬakārabhūṣṬharandhrīśo GiriṣṭhaṣṬhakuraḥ Patiḥ टकारभूष्ठरन्ध्रीशो गिरिष्ठष्ठकुरः पतिः vs Ṭhakārabhū Ṭharandhrīrīśo Giripṛṣṭhakuraḥ Patiḥ ठकारभू ठरन्ध्रीरीशो गिरिपृष्ठकुरः पतिः vs ṬhakārabhūṬharandhrīrīśoGiriṣṭaṬhakuraḥ Patiḥ ठकारभूठरन्ध्रीरीशोगिरिष्टठकुरः पतिः Some source publications mention Canda छन्द as Triṣṭup त्रिष्टुप्, however, upon a closer examination it is Anuṣṭup Canda अनुष्टुप् छन्द. Likewise, differences are found in the Bīja बीज and name of the Ṛṣi ऋषि etc.. BaṭukaBhairavaSahasraNāmāvaliḥ (BhairavaTantroktaBaṭukaBhairavaSahasraNāmaStotraVyutpannā) बटुकभैरवसहस्रनामावलिः (भैरवतन्त्रोक्तबटुकभैरवसहस्रनामस्तोत्रव्युत्पन्ना) that has been derived from the BaṭukaBhairavaSahasraNāmaStotraM (BhairavaTantroktam) बटुकभैरवसहस्रनामस्तोत्रं (भैरवतन्त्रोक्तम्), can be accessed from the respective link given below. Proofread by Ruma Dewan
% Text title            : Batukabhairava Sahasranama Stotram 1-2 from bhairavatantra
% File name             : baTukabhairavasahasranAmastotraMbhairavatantra.itx
% itxtitle              : baTukabhairavasahasranAmastotram 1-2 (bhairavatantrAntargatam OM hrIM baTukaH kAmado nAtho.anAthapriyaprabhAkaraH)
% engtitle              : baTukabhairavasahasranAmastotraM 1-2 from bhairavatantra
% Category              : shiva, sahasranAma, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : See corresponding nAmAvalI
% Indexextra            : (Scans 1, 2, 3, 4, nAmAvalI)
% Latest update         : October 13, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org