श्रीबटुकभैरवसहस्रनामस्तोत्रम् ४

श्रीबटुकभैरवसहस्रनामस्तोत्रम् ४

शिव उवाच । एवं श्रीबटुकं ध्यायेत्रिधा भिन्नं गुणैः क्रमात् । शान्तिके सात्त्विकं ध्यानं वश्यादौ राजसं मतम् ॥ १॥ मारणादौ तामसं तद्देवं ध्यायेन्महेश्वरम् । एवं ध्यात्वा प्रसन्नात्मा स्तोत्रमेतत्पठेन्नरः ॥ २॥ अथ नामानि । ॐ बटुको बटुकाधीशो वटप्रीतिर्वटेशयः । विपाणिर्वज्रपाणिश्च वज्राभो वज्रवल्लभः ॥ ३॥ वामाचारप्रियो वक्रो वक्रग्रासो विशारदः । विशापो विघ्नहर्ता च वेतालाढ्यो विचक्षणः ॥ ४॥ विश्वव्यापी विश्वनाथो विश्वो बालपराक्रमः । विश्ववन्द्यो विश्वरूपो विश्वाधारो विकीरणः ॥ ५॥ वैद्यो बालो विराड् विष्णुर्व्योमकेशश्च वश्यकृत् । बलिभुग्बलिभुङ्नाथो बहुनेत्रो बरो बली ॥ ६॥ व्याधिघाती व्याधिकरो व्याध्यात्मा व्याधिवेपनः । कङ्कालधारी कन्दर्प कामी कान्तः कलानिधिः ॥ ७॥ कामरूपः कामचारी कल्पवित्कामिनीप्रियः । कोटरेशः कोटपतिः कमनीयः कपालभृत् ॥ ८॥ कङ्कालः क्रूरदृक्कालः करालः कोकिलस्वनः । कपर्दी कम्बुकण्ठश्च कम्बुमाली कलाधरः ॥ ९॥ कामिनीवशकृत्कौलः कुलीनः कुलरक्षकः । कपालमाली कुब्जश्च कण्वः कण्ठीरवः कविः ॥ १०॥ कलाकाष्ठातनुः कालशमनः कम्बुकुण्डली । कुरङ्गी कपिलः कीरी कुमारः कोपनः कविः ॥ ११॥ कङ्काली कपिशः केशी केशरी केशरप्रियः । कौपीनधारी कितवः कितवघ्नः कलाधरः ॥ १२॥ कमलावल्लभः कुठः कठोरकिरणः क्षणः । कौशिकः कौशिकधरः कुशभृत्कुशतल्पगः ॥ १३॥ कुशली कश्मलाकर्षी काश्मिरी कररत्नभृत् । कृतघ्नश्च कृतज्ञश्च कृतवीर्यः कपिध्वजः ॥ १४॥ कुशीलवः कुशीलश्च केतकी केतकीप्रियः । कादम्बरीयः कादम्बः कलकण्ठः कपिञ्जली ॥ १५॥ कैटभारिः कंसमर्द्दी कुरङ्गवदनः कुशः । भूधरो भूधराधीशो भैरवो भैरवीप्रियः ॥ १६॥ भूतात्मा भूतपो भूभृत् भृगुजो भूधरात्मजः । भवसूनुर्भवो भीरुर्भ्रामरो भूतसम्भवः ॥ १७॥ भीषणो भैरवीनाथो भगवान्भोगिभूषणः । भस्मधारी भ्रमहरो भूताध्यक्षश्च भिक्षुकः ॥ १८॥ भ्रूणहा भूतहा भूतो भीतोऽभीतोऽभयङ्करः । खरान्तकृत्खर्पराशिः खड्गपाणिः खलाप्रियः ॥ १९॥ खण्डभूः खण्डपरशुः खड्गी खट्वाङ्गभृत्खलः । खेचरः खेचरी नाथः खपुरः खगनायकः ॥ २०॥ खेलाप्रियः खातकीर्तिः खरनादः खरव्रतः । खेचरीकृत् खेटकभृत् खातीतः खाण्डवाशनः ॥ २१॥ गन्धर्वगीतो गङ्गेशो गोपतिर्गोपिकापतिः । गर्विष्ठो गर्वहा गेयो गौरो गौरीसुतो गुरुः ॥ २२॥ गीर्वाणगीतो गीर्वाणो गाढो गाढान्धकारहा । गेयो गरुडगो गोऽवो गुप्तो गोप्ता गराशनः ॥ २३॥ गजकृत्तिधरो गुञ्जो गुञ्जाहारधरो गजः । गेयप्रियो गह्वरगो गुञ्जस्थो गुञ्जगायकः ॥ २४॥ गोवर्द्धनधरो गोष्ठरक्षको गोकुलप्रियः । गम्भीरो गोधनो गोपो गोधाभृद्गिरिजात्मजः ॥ २५॥ जगदीशो जनाध्यक्षो जीवनो जीवनप्रियः । जीवानुजीवनच्छेदी जीवितात्मा जनार्दनः ॥ २६॥ जृम्भणश्च जवी जीवो जैनो जैनजयङ्कर । जपप्रियो जपासक्तो जापको जपकार्थकृत् ॥ २७॥ जम्बूश्यामो जितक्रोधो जितारातिर्जितासुरः । जम्बुको जानकीजानिर्जटिलो जनमेजयः ॥ २८॥ जीर्णो जीर्णोज्ज्वलन्नेत्रो जामदग्न्यो जयप्रदः । झषकेतुर्झषहरो झिण्टीशो झषभोजितः ॥ २९॥ झङ्कारकारी झम्पी च झषवान्झषवल्लभः । मधुरो मदिरामत्तो मेघनादो मृगाधिपः ॥ ३०॥ मधुमत्तो मद्यगन्धो मेदस्वी मेघदीधितिः । मोदनो मेदिनीनाथो मघवा मण्डभूषणः ॥ ३१॥ माधुकरीप्रियो मत्तो मेधावी मधुसूदनः । मदनो मदनप्रीतो मुकुन्दो मादनो मरुत् ॥ ३२॥ अथ नवश्लोकाः क्षेपकाः । मकरो माधवो मीनो मीनकेतुर्महेश्वरः । महेषुर्मदनो मन्थो मिथुनेशोऽमराधिपः ॥ ३३॥ मरीचिर्मञ्जुलो मोहो मोहहा मोहमर्दनः । मोहको मोहनो मेघप्रियो मोहविनायकः ॥ ३४॥ महीपतिर्महीशानो महीराजो मनोहरः । महीश्वरो महीपालो महीनाथो महीप्रियः ॥ ३५॥ महीधरो महादेवो मनुराजो मुनिप्रियः । मानी मौनधरो मेघो मन्दिरो मतिवर्द्धनः ॥ ३६॥ मतिदो मन्थरो मन्त्रो मन्त्रीशो मन्त्रनायकः । मेधावी मानदो मानी मानहा मानमर्दनः ॥ ३७॥ मीनगो मकराधीशो मधुरो मणिरञ्जितः । मणिरम्यो मणिभ्राता मणिमण्डनमण्डितः ॥ ३८॥ मन्त्रपो मन्त्रदो मुग्धो मोक्षदो मोक्षवल्लभः । मल्लो मल्लप्रियो मञ्चो मल्लको मेलनप्रभुः ॥ ३९॥ मल्लिको मल्लिकागन्धी मल्लिकाकुसुमप्रियः । मालतीशो मघानाथोऽमोघमूर्तिमघेश्वरः ॥ ४०॥ याचको याज्ञिको यज्ञो यज्ञेशो यज्ञवर्द्धनः । रमापतिर्रमाधीशो रमेशो रामवल्लभः ॥ ४१॥ इति क्षेपकाः । धनेशो ध्रुवधूर्धीमान्धिषणो धूम्रलोचनः । दाता दापयिता दुर्गो दान्तो दान्ताशयो दमः ॥ ४२॥ देवो देवाधिपो दावो दुःखहा दुःखसेवितः । दरिद्रो दारदो दारो देवतात्मा दमी दयी ॥ ४३॥ दण्डकृद्दण्डहा दीप्तो दीप्तकेशो दयान्वितः । दार्वीकरो दरी दीर्घो दीपनो दीपवल्लभः ॥ ४४॥ दिगम्बरो दीर्घदंष्ट्रो दक्षिणो दक्षिणोदरः । दंष्ट्री दंष्ट्रिप्रियो दैत्यो दिव्यो दिव्यपराक्रमः ॥ ४५॥ दैत्यहा दक्षिणार्हश्च दीर्घपृष्ठो दिवाकरः । घण्टावादी घनरवो घनाभो घूत्करो घनः ॥ ४६॥ घण्टापथी घटो घूको घध्वकरपरिवारितः । घणी घर्मांशुरघहा घातहा घातकारकः ॥ ४७॥ घोरो घनाघनोऽर्घीशो घस्मरो घोरघोषवान् । छगलण्डश्छलच्छेत्ता छत्री छातछविश्छली ॥ ४८॥ छगलाक्षो छदो छिन्नश्छुच्छुरीकश्छिदाङ्कुरः । छन्दश्छन्दप्रियश्छन्दश्छिदुरश्छद्महोछ्रितः ॥ ४९॥ तपनीयप्रभजटस्तरुणस्तरुणीप्रियः । तुन्दिलस्तपनस्तेयस्तोमरस्तोमरप्रियः ॥ ५०॥ तुष्कस्तुरुष्कस्तिलभुक् त्रिमूर्तिस्त्रिपुरान्तकः । त्रिशूलधारी त्रिशीर्षी त्रिपुरश्च त्रिलोकपः ॥ ५१॥ त्रिनेत्रस्त्रिपुरावासस्तेजस्वी त्रिदिवस्पतिः । त्रिविक्रमस्तृणावर्त्तस्तृप्तस्तृप्तिप्रियस्तमः ॥ ५२॥ तमोपहस्तिमिस्त्रेशस्त्रिदशस्त्रीश्वरस्तपः । त्रिनेत्रतनयस्तिग्मस्तमोमूर्तिस्तमोमयः ॥ ५३॥ तापनस्तोदनस्त्रेता तारानाथस्त्रिलोचनः । नित्यो निरञ्जनो नेता नीतिज्ञो नयवल्लभः ॥ ५४॥ नन्दनो निपुणो नम्रोनम्रोऽनेमिर्निमिर्नयः । नागहारो नागपाशो नित्यकामो नतिप्रियः ॥ ५५॥ निर्ममो नमनो नान्यो नैगमो नैगमेश्वरः । नित्यक्लिन्नो नित्यनवो निरुद्धो नन्ददीपकः ॥ ५६॥ निर्मलो निर्मलाकारो न्यस्तनिन्दो नदीश्वरः । नक्षत्रनाथो निगमो निगमारम्भको नवः ॥ ५७॥ निधीशो निरहङ्कारो नानारूपी नमेरुकः । नास्तिकारी नास्तिकहा निश्चितो निश्चिताशयः ॥ ५८॥ निश्चलोऽनेकवदनो नाथो नारायणो नखी । नरकघ्नो नरकदो नीलो नीलालकोऽनलः ॥ ५९॥ नीलाम्बरो नीलकण्ठो नीलजीमूतसन्निभः । पण्डितः पञ्चवदनः पञ्चमः पञ्चमप्रियः ॥ ६०॥ पञ्चयज्ञः पञ्चवातः पञ्चवित्तः पविप्रियः । पञ्चश्लेष्मा पञ्चबाणः पञ्चस्थानः परन्तपः ॥ ६१॥ परमायुः परः पद्मी पद्मेशः पद्मवल्लभः । पद्मनाभः पद्ममुखः पद्मः पद्मासनस्थितः ॥ ६२॥ पद्मजः पद्मनिलयः पद्मगन्धः परात्परः । पर्वतः पर्वताधारः पारदः पारदप्रियः ॥ ६३॥ परदारपरः प्रौढः पटुः पाण्डुरलोचनः ॥ ६४॥ पेटभृत्पेटकृत्पेटी पन्नगी पन्नगेश्वरः । पाण्डुहा पाण्डुरः पिण्डी पञ्चभूतप्रशासनः ॥ ६५॥ पतङ्गः पक्षिराजश्च परलोकप्रदः प्रभुः । पानदः पानपः पानी पानारुणविलोचनः ॥ ६६॥ पिशाचघ्नः पिशाचेशः पिशिताशी पितामहः । पिता प्रतापवान्पाशी पाशिनाथः पशुप्रियः ॥ ६७॥ पशुभोक्ता पशुपतिः पशुप्रेष्ठ पशूदरः । पीनसारिः पिपासार्त्तः पीडाकृत्पीडनाशनः ॥ ६८॥ प्रेतघ्नः प्रेतकुलपः प्रेतवाहः प्रकम्पनः । प्रेतनाथः प्रेतपूज्यः पीतवासाः प्रजागरः ॥ ६९॥ प्रजापतिः प्रजानाथः परिपूर्णः प्रियोऽप्रियः । पर्जन्यकृत्प्रशमनः परमः परमास्पदः ॥ ७०॥ प्रसन्नगः प्रतिच्छन्नः प्रतिभाकृत्प्रपूजितः । प्रमेहघ्नः प्रमेही च प्रमेहकृदथप्रभः ॥ ७१॥ प्रमः प्रमादहा प्रौढः प्रौढिदः प्रौढिवल्लभः । प्रेमदः प्रमदाप्रेमी प्रमदः प्रमदाप्रियः ॥ ७२॥ प्रकामदः प्रकामेशः प्राणदः प्राणवल्लभः । प्राणाधारः प्रयागश्च प्रयागनिलयप्रदः ॥ ७३॥ परिचारः परिवरः प्रशान्तः प्रतिभानवान् । प्रेयः प्रेयवियोगी च प्रमथश्च प्रियंवदः ॥ ७४॥ सारमेयानुगः सीधुः सीधुः सीधुपवल्लभः । सावधानः साधुपूज्यः सारमेयधरः समः ॥ ७५॥ सर्वापत्तारणः सिद्धः सिद्धिदः सिद्धिसेवितः । सामन्तभद्रः सन्तोषी सत्यः सत्यपराक्रमः ॥ ७६॥ सत्यसन्धः सत्यवक्ता सत्पदः सत्यवल्लभः । सत्यभामापतिः शूरः सम्पन्नःसम्पदालयः ॥ ७७॥ सरस्वान् सागरः सेतुः सेतुकृत्सेतुपालकः । समुद्रसीमासामन्तः स्मरारिः सत्यसङ्गरः ॥ ७८॥ स्मरः स्मरप्रियः स्मेरः स्मरदः स्मरसुन्दरः । समिद्धः सम्मदः सिन्धुः सामगः सामगार्चितः ॥ ७९॥ समयः समयाचारः शङ्करप्रियबान्धवः । सम्मोहदः संशयदः संशयघ्नः समुद्धतः ॥ ८०॥ सोमः सोमधरः सौम्यः सौम्यः शान्तजनप्रियः । सुन्दरः सुन्दराधारः सुरापः सुरसः सुरः ॥ ८१॥ सुरासक्तः सुगमोदी सुरापालः सुरात्रियः । स्वर्गः स्वर्गपतिः स्वर्गी स्वर्गदः स्वर्गवल्लभः ॥ ८२॥ सुखी सुखाकरः सौख्यसिन्धुः सिन्धुरनायकः । सारस्वतः स्वानुभवः स्वानुभावस्वानुध्रु(स्रु)वः ॥ ८३॥ स्वयम्भूकुसुमामोदी स्वयम्भूकुसुमप्रियः । समगः सर्वतोभद्रः सर्वसत्त्वः सरोवरः ॥ ८४॥ सारी सरीसृपाधीशः समाराध्यः समामयः । सन्तानदः सत्त्वदाता सरोजाक्षः सरोजभूः ॥ ८५॥ सर्वसिद्धिप्रदः सारी सरोजनयनप्रियः । सुपर्वनाथः सर्वज्ञः सर्वगः सर्वदीपनः ॥ ८६॥ श्मशानवासी स्तम्भी च सर्पयुक्तः सहस्रदृक् । सहस्रदो सहस्राङ्घ्रिः सहस्रकिरणप्रभः ॥ ८७॥ शौरिः शम्भुसुतः शम्भूः शिवः शूली शवाअस्नः । श्रीकण्ठः शितिकण्ठश्च श्रीपतिः श्रीनिकेतनः ॥ ८८॥ श्रेयोनिधिः शङ्करश्च शर्वः सर्वात्मजः शमः । शतानन्दः शशधरः शबरः शबरीसुतः ॥ ८९॥ शोभनः शोभनावासः शोकहा शोकनाशनः । शतानन्दः शूलपाणिः शुचिः शौचपरः शुभः ॥ ९०॥ शिखिसखः श्रुतिधरः श्रुतिगीतः श्रुतिप्रियः । शुद्धाशयः शुद्धिकरः शुद्धः शुद्धजनप्रियः ॥ ९१॥ शोणः शोणाधरः शोणनेत्रः शोणाङ्गरागभृत् । शीतः शीताशयः शौण्डः शौण्डिकः शौण्डिकप्रियः ॥ ९२॥ शाड्यहा शाड्यदः शार्ङ्गी शरी शरणदः शिशुः । शुद्धनीलाञ्जनप्रख्यः शान्तिदः शान्त इत्यपि ॥ ९३॥ शकः शाकम्भरीयश्च शङ्कितः शङ्किताननः । हरो हरिर्हयग्रीवः हयारिकुसुमप्रियः ॥ ९४॥ हेरम्बो हयमेधी च हेषणो हरवल्लभः । हव्यवाहो हुतवही हारी हारीतपूजितः ॥ ९५॥ हिंस्रहा हिंस्रयो हेतिर्हेलानुश्च हलायुधः । हिरण्यरेता हरिणो हरिणाक्षो हरिप्रियः ॥ ९६॥ हिमो हिमालयचरो हिमधामाविभूषणः । हेममाली हेमकान्तिर्हेमाचलकृतालयः ॥ ९७॥ हारको हारशाली च होता होमो हुतिर्हयः । यशप्रदो यशोवृद्धो यशस्वी यशसां निधिः ॥ ९८॥ यज्वा यजनकामश्च यजुर्यजनतत्परः । यमो यमभयध्वंसी यमवन्द्यो यमान्तकृत् ॥ ९९॥ यज्ञभोक्ता यज्ञकरो यवनो यवनोद्धतः । यवप्रियो यौवनाढ्यो युवतीवछभो यवी ॥ १००॥ यामलो यामलाधीशो यशोदानन्दवर्धनः । योद्धा युद्धप्रियो यूपो योक्तिको योगिनीपतिः ॥ १०१॥ योगी योगीश्वरो योक्ता योगिराड्योगिसेवितः । रतिप्रदो रतिकरो रतिनाथो रतिप्रदः ॥ १०२॥ रमणीयो रमानाथो रजनीशो रमेश्वरः । रससिद्धीश्वरो रम्यो रसज्ञो रसपूजितः ॥ १०३॥ रञ्जनो रोचनो रागो रोगो रोगकुलान्तकृत् । रासो रासप्रियो रन्ता रङ्गो रङ्गकृतास्पदः ॥ १०४॥ रक्तपो रक्तनयनो रक्तदो रक्तनाशनः । रुरू रुद्रो रौद्रमुखो राजा राजीववर्द्धनः ॥ १०५॥ रसो रतिरसाधारो रसालो रविलोचनः । लोकनाथो लोकचक्षुर्ललितो ललितात्मजः ॥ १०६॥ लम्बोदरो लम्बदंष्ट्रो लोलो लोलविलोचनः । लोहिताक्षो लोहितपो लालपो ललनाप्रियः ॥ १०७॥ लेलिहानो ललजिह्वो (ललज्जिह्वो) लक्ष्मीनाथो लुलायुगः । क्षेत्रपालश्च(क्षेत्रपालो च) क्षेत्रज्ञः क्षत्रियः क्षेत्रपः क्षमी ॥ १०८॥ क्षमाधारः क्षौमधरः क्षेमकारी क्षयापहः । क्षपापतिधरः क्षुद्रः क्षान्तः क्षान्तजनप्रियः ॥ १०९॥ क्षितिदः क्षतिदः क्षौद्रप्रियः क्षीरप्रियोऽक्षयः । क्षोभहा क्षोभदोऽक्षोभ्यः क्षिप्रसिद्धप्रदो क्षुपः ॥ ११०॥ क्षेमकरः क्षौद्रपिङ्गः क्षामशत्रुः क्षुधाकरः । क्षोभणः क्षीरदः क्षीरी क्षवकः क्षवदोषहा ॥ १११॥ आन्त्रयज्ञोपवीतीशोऽजगरोऽग्रिरहो रहः । इन्दुरिन्दिन्दिरो बिन्दुरिन्द्रेभः इन ईश्वरः ॥ ११२॥ डिम्भ ऊर्जस्वलः स्वस्तिः स्वाहाभुग्गुरुरर्जुकः । ज्ञानचक्षुश्चोर्ध्वरेता दशदिक्पालपालकः ॥ ११३॥ शाकिनेयो डाकिनेयो राकिनेयस्तथैव च । काकिनेयो लाकिनेयो डाकिनेयोऽपि हाकिनिः ॥ ११४॥ पञ्चाशद्वर्णतनुकः षडाधारः षडध्वकः । अष्टाधारोऽष्टमूर्तिश्च ब्रह्मरन्ध्रकृतालयः ॥ ११५॥ सहस्रपत्रभवनो द्विपत्रपरमास्पदः । षोडशारकृतावासी द्वादशच्छदमण्डनः ॥ ११६॥ दशारकृतविश्रामः षडारविहितादरः । चतुर्दलविकासी च चतुरस्रविनोदनः ॥ ११७॥ इडाधारः सुषुम्णेशः पिङ्गलापरिपालकः । संसारसाक्षी चिद्रूपः परमात्मा सदाशिवः ॥ ११८॥ पञ्चविंशतितत्त्वात्मा विकृतः प्रकृतेः परः । अव्यक्तश्चाव्ययो हंसो नादः सत्त्वात्मको विभुः ॥ ११९॥ एतद्वटुकनाथस्य नाम्नां साग्रं सहस्रकम् । यः पठेत्प्रातरुत्थाय मध्याह्ने वा निशामुखे ॥ १२०॥ मासत्रयाद्दत्यस्मै श्रीमद्भटुकभैरवः । मनोऽभिलषितं देवि देवानामपि दुर्लभम् ॥ १२१॥ पुरश्चरणमेतस्य नामसङ्ख्यं प्रकीर्तितम् । तद्दशांशं प्रजुहुयात्संस्कृते हव्यवाहने ॥ १२२॥ तन्दुलैस्तु त्रिमध्वक्तैस्तिलमिश्ररतन्द्रितः । तर्पणं तद्दशांशेन प्रोक्तद्रव्येण कल्पयेत् ॥ १२३॥ मार्जनं तद्दशांशेन तद्दशांशेन भोजनम् । दक्षिणा तु यथाशक्ति कल्पनीया मनीषिभिः ॥ १२४॥ एवं कृते भवेत्सिद्धिः स्तोत्ररूपो मनुस्त्वयम् । छागचर्मासनासीनोऽरिष्टबीजाक्षमालया ॥ १२५॥ त्रिसुगन्धिसुगन्धास्यो मुदितात्मा तु साधकः । पर्वताग्रे तथारण्ये पुण्ये चोपवनेऽथवा ॥ १२६॥ सिन्धुसम्भेदके वापि गोष्ठे वा बिल्वमूलके । शिवालये गृहे शून्ये दरदारुणितान्तरे ॥ १२७॥ यथोक्तविधिनाभ्यर्च्य देवं पश्चाजपेन्मनुम् । स्तोत्ररूपमिदं प्रातरारभ्यार्द्धदिनावधि ॥ १२८॥ ततो हविष्यभोजी स्यात्पौरश्चरणिको नरः । होमे तु चतुरस्रं स्यात्कुण्डं सर्वाङ्गसुन्दरम् ॥ १२९॥ प्रतिनाम प्रजुहुयादुक्तद्रव्येण पण्डितः । ततः प्रयोगान्कारयेद्वाञ्छितार्थसमृद्धिदान् ॥ १३०॥ करभैरयुतं हुत्वा कवितामाप्नुयाद्व्रती । कमलैरचलां लक्ष्मीं वटकैरन्नसम्पदाम् ॥ १३१॥ हरिद्राक्तान्धसा वश्यं जगदेतच्चराचरम् । निम्बपत्रकटुस्नेहराजि कालवणैर्नरः ॥ १३२॥ हुत्वा मारयति क्षिप्रं वैरिणो दुर्जनानपि । सिन्दुरादेस्तु होमेन मोहयेदीप्सिताङ्गनाम् ॥ १३३॥ वादेषु स्तम्भयेद्वाचं शत्रूणां दधिहोमतः । तत्तद्रोगोक्तभैषज्यैस्तत्तद्रोगप्रणुत्तये ॥ १३४॥ डाकिनीग्रहभूतादेः प्रशान्त्यै माषहोमतः । प्रत्यहं यः पठेदेतन्मनुजः सुसमाहितः ॥ १३५॥ वत्सरानन्तरं तस्य दर्शनादेव भूभुजः । वशीभवन्ति सहसा सामात्याः किङ्करा इव ॥ १३६॥ स्थिरीभवति तद्गेहे चञ्चलापि त्वचञ्चला । मासत्रयस्य पठनादपस्मारादयो गदाः ॥ १३७॥ नश्यन्त्येव न सन्देहः सत्यं मम वचो यदि । निर्धनो धनमाप्नोति सुतार्थी लभते सुतान् ॥ १३८॥ यद्यत्कार्यं समुद्दिश्य पठेदेतदवाप्नुयात् । नारीभये वह्निभये भूमिपालभयेऽपि च ॥ १३९॥ परिपन्थिभये घोरे महासङ्ग्रामसङ्कटे । अरण्यसङ्कटे चैव पठेत्रिस्त्रिरनन्यधीः ॥ १४०॥ तत्तद्भयात्प्रमुच्येत सत्यं सत्यं सुरेश्वरि । इदं रहस्यं परमं पवित्रं पापनाशनम् ॥ १४१॥ अपमृत्योश्च शमनं सर्वाऽमङ्गलनाशनम् । बन्दीप्रमोचनं पुंसां दुःस्वप्नविनिवारणम् ॥ १४२॥ श‍ृणु पार्वति यत्नेन विशेषेणास्य यत्फलम् । अलौहप्रहरणं सूक्ष्मं महाक्लेशनिवारणम् ॥ १४३॥ स्तोत्रमेतत्परिध्वंसे शस्त्रं हि मम प्रेरितम् । तथा वशीकरं राज्ञामप्रयोगमचूर्णकम् ॥ १४४॥ तथापस्मारभूतादेर्नाशनं वाथ नौषधम् ॥ १४५॥ इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे उपसनास्तबके श्रीबटुकभैरवोपासनाध्याये श्रीबटुकभैरवसहस्रनामस्तोत्रनिरूपणं नाम प्रकरणं नवमम् ॥ ९॥ Proofread by Rajesh Thyagarajan
% Text title            : Shri Batukabhairava Sahasranamastotram 4
% File name             : baTukabhairavasahasranAmastotram4.itx
% itxtitle              : baTukabhairavasahasranAmastotram 4 (bRihajjyotiShArNave baTuko baTukAdhIsho vaTaprItirvaTeshayaH)
% engtitle              : baTukabhairava sahasranAmastotram 4
% Category              : shiva, sahasranAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : See corresponding nAmAvalI
% Indexextra            : (Scans 1, 2, nAmAvalI)
% Latest update         : August 22, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org