बटुकोपनिषदे बटुकभैरवस्तुतिः

बटुकोपनिषदे बटुकभैरवस्तुतिः

यो वै बटुकः स भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च विष्णुस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च रुद्रस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चेन्द्रस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चाग्निस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च वायुस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च सूर्यस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च सोमस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चग्रहास्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चोपग्रहास्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चभूस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चभुवस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च स्वस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चान्तरिक्षं वै नमो नमः । यो वै बटुकः स भगवान् यश्चद्यौस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चापस्तस्मै वै नमो नमः । यो बटुकः स भगवान् यश्च तेजस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च कालस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च मृत्युस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चामृत्युस्तस्मै वै नमो नमः । वै बटुकः स भगवान् यश्चाकाशस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च विश्वं तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चाशुक्लं तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चदम्भस्तस्मै वै नमो नमः । यो वै बटुकः स भङ्गवान् यश्चादम्भस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च सूक्ष्मं तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च स्थूलं तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चकृष्णस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्चाकृष्णस्तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च सत्यं तस्मै वै नमो नमः । यो वै बटुकः स भगवान् यश्च सर्वं तस्मै वै नमो नमः । ॥ इत्यथर्वणरहस्ये बटुकोपनिषदे बटुकभैरवस्तुतिः सम्पूर्णा ॥ Notes: The BaṭukaBhairavaStutiḥ बटुकभैरवस्तुतिः as given on this webpage is from the Baṭukopaniṣat बटुकोपनिषत् that can be accessed from the respective link given below. Proofread by Ruma Dewan
% Text title            : Batukopanishade Batukabhairava Stuti
% File name             : baTukopaniShadebaTukabhairavastutiH.itx
% itxtitle              : baTukabhairavastutiH baTukopaniShade
% engtitle              : baTukopaniShade baTukabhairavastutiH
% Category              : shiva, stuti, upanishhat, upaniShat
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Indexextra            : (Scans 1, 2, upaniShat)
% Latest update         : October 13, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org