भाद्रपदमासकृते शिवशताष्टनामस्तोत्रम् मास ६
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
रुद्राय रुद्ररूपाय कद्रुद्राय प्रचेतसे ।
हिरण्याय शरण्याय अरण्याय नमोनमः ॥ ४५॥
वरेण्यायादिमध्यान्तरहिताय गणाय च ।
प्रभासाय सुभासाय गन्धगर्भाय भूतये ॥ ४६॥
लोकधात्रे विधात्रे च पात्रे नेत्रे पवित्रिणे ।
कुण्डलीशफणारत्नकुण्डलाय नमो नमः ॥ ४७॥
चण्डताण्डवरूपाय खण्डाखण्डाय मुण्डिने ।
दण्डिने खण्डिने चैव खड्गमांसादनाय च ॥ (? ) ४८॥
भूमिपादादधोमूर्ध्नि सिद्धरूपाय शूलिने ।
भस्माभ्यक्ताय भद्राय भीमाय भयहेतवे ॥ ४९॥
वैशन्ताय च शान्ताय शमीपुष्पप्रियाय च ।
नमः काट्याय नीप्याय पार्याय परमात्मने ॥ ५०॥
अधिष्ठानाय ज्येष्ठाय कनिष्ठाय प्रथयिष्णवे ।
नक्तञ्चराय कूप्याय कुलालपतये नमः ॥ ५१॥
सङ्ग्रहीत्रे प्रसादाय पद्ममालाधराय च ।
पुराणाय वरेण्याय करुणाय नमो नमः ॥ ५२॥
तारानाथधरायाथ गजकृत्तिधराय च ।
पादुकापद्मपादाय नागहंसकधारिणे ॥ ५३॥
गिरिशाय गिरीशाय महाकैलासवासिने ।
श्वसते ग्रसतेचैव धावते वसते नमः ॥ ५४॥
नमो दंष्ट्राकरालाय करवालकराय च ।
व्यक्ताव्यक्ताय मुक्ताय भुक्तिमुक्तिप्रदायिने ॥ ५५॥
पशूनां पतये चैव वैद्युताय बलाय च ।
बलप्रमथनायैव बालपालाय शूलिने ॥ ५६॥
काव्याय भव्यरूपाय भावाभावरताय च ।
एवं नामशताष्टेन पूज्यो भाद्रपदे शिवः ॥ ५७॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं भाद्रपदमासकृते शिवशताष्टनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १९ भाद्रपदार्चनम् । ४५-५७॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 19 bhAdrapadArchanam . 45-57..
Notes:
Śiva शिव delivers to Devī देवी; Bhādrapadamāsakṛte ŚivaŚatāṣṭanāmaStotram भाद्रपदमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव while detailing about His Worship during the Bhādrapada māsa भाद्रपद मास.
The count from the source text comes to less than 108 though. Perhaps there are/were meant to be more Śloka-s.
The corresponding Bhādrapadamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ भाद्रपदमासकृते शिवशताष्टनामावलिः derived from the Bhādrapadamāsakṛte ŚivaŚatāṣṭanāmaStotram भाद्रपदमासकृते शिवशताष्टनामस्तोत्रम्, and a Bhādrapadamāsakṛte ŚivaStutiḥ भाद्रपदमासकृते शिवस्तुतिः can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 19 are presented on this page.
Proofread by Ruma Dewan