भानुप्रोक्तं शिवस्तवः
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं वदन्ति तम् ॥ ९५॥
सत्यं ज्ञानमनन्तं च तद्ब्रह्म परमं विदुः ।
ततो भीतः स वातोऽपि वाति सूर्योऽप्युदेति सः ॥ ९६॥
अग्निरिन्द्रश्च भीतश्च मृत्युर्धावति पञ्चमः ।
इयमानन्दमीमांसा तत्स्वरूपमगोचरम् ॥ ९७॥
यस्य प्रसादलेशेन सर्वे नारायणादयः ।
सुराः कृतार्थास्तं देवं शरणं यामि शङ्करम् ॥ ९८॥
संहारकाले सम्प्राप्ते ब्रह्मनारायणादिकान् ।
संहृत्य लीलां कुरुते यः सदैव सदाशिवः ॥ ९९॥
यस्य प्रसादादशिवापहारो यस्य प्रसादाज्जननापहारः ।
यस्य प्रसादेन जरापहारः तमेव देवं शिवमाश्रयामः ॥ १००॥
शिव इत्युचरन् नाम मनुजः स्याच्छिवालयः ।
तस्य देवस्य महिमा वेदानामप्यगोचरः ॥ १०१॥
सहस्रजिह्वोऽपि न यस्य तत्वं स्तोतुं समर्थश्चतुराननो वा ।
नारायणो वा तमुमासहायं आन्दकन्दं हृदि भावयामः ॥ १०२॥
यमाहुरीशं परमं वरेण्यं सर्गस्थितीनामपि हेतुभूतम् ।
तमेव देवोत्तममिन्दुखण्डशोभासमालङ्कृतमाश्रयामः ॥ १०३॥
यल्लीलास्वेदराशिः सुरसरिदचलाधीशकन्या यदङ्के
यन्मौलौ चन्द्ररेखा विलसति सततं यज्जटाजूटमाला ।
ताराणामेव हारोऽप्युरसि नवलसद्बिल्वमाला विलोला
तत्पादाम्भोजभृङ्गो भवतु मम मनस्त्यक्तसंसारगन्धम् ॥ १०४॥
लोके भाग्यसुधाम्बुराशिरहितास्ते ये तदा शङ्कर
ध्यानानन्दविहीनहीनमनसः ते दुर्भगाः सर्वदा ।
कल्पान्तेऽपि न मुक्तिरित्यपि मिताः संसारिणस्ते सदा
सर्वे नारकिणोऽपि तत्कुलमिति स्यात् पुल्कसानां कुलम् ॥ १०५॥
यस्यान्तःकरणं महेश्वरपदाम्भोजार्चने सादरं
तन्नामस्मरणेऽपि तत्सुखकथावार्तानुरक्तं सदा ।
तं प्राहुर्गतकल्मपं मुनिजनाः सर्वेऽपि तं केवलं
वेद्यं प्राहुरमन्दपुण्यविभवं भावं भवाभ्यर्चकम् ॥ १०६॥
आकल्पं विजयी स एव स शुभारम्मैकभूर्भासुरः
स स्यादिन्दुकलावतंसचरणाम्भोजार्चकानां प्रियः ।
यः स्यादुत्तमसम्पदामपि निधिः स स्यात् सुराणामपि
प्रायः सेव्य इति प्रभूतविभवो भावो न किं दुर्लभः ॥ १०७॥
स्वप्नेऽपि यस्य शिवलिङ्गविलोकनेच्छा स्वच्छा भविष्यति भवार्चनजातपुण्यैः ।
तत्पादपद्मजरजो मणिमञ्जरीव धन्योत्तमोरुशिरसि स्फुरतीह धीरे ॥ १०८॥
अज्ञात्वापि शिवप्रसादविभवं स्वं शङ्कराराधन-
ध्यानालङ्कृतिचित्तवृत्तिरसकृत् यद्वा सकृत् सादरम् ।
तं मुक्तं प्रवदन्ति पावनमिति प्राहुर्मुनीन्द्राः सुराः
तं रत्नं जगतीतलस्य सततं वन्दे मुहुः सादरम् ॥ १०९॥
यो भक्त्या रजनीमुखेषु गिरिशं सम्पूज्य बिल्वादिभिः
नैवेद्यादिसमर्पणेन च मुहुर्नाट्यैः प्रणामैरपि ।
सन्तुष्टस्तमपास्तदुःखनिकरं मन्ये स रेवासरि-
त्तीरे लिङ्गमभङ्गबिल्वकमलैराराध्य शङ्गं व्रजेत् ॥ ११०॥
॥ इति शिवरहस्यान्तर्गते भानुप्रोक्तं शिवस्तवः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३०। ९५-११०॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 30. 95-110..
Proofread by Ruma Dewan