भार्गवकृतं महादेवस्तोत्रम्
भार्गव उवाच ।
त्वं भाभिराभिरभिभूय तमः समस्त-
मस्तं नयस्यभिमतानि निशाचराणाम् ।
देदीप्यसे दिनमणे गगने हिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ॥ १०१॥
लोकेऽतिवेलमतिवेलमहामहोभिर्निर्मासि कौमुदमुदं च समुत्समुद्रम् ।
विद्राविताखिलतमाः सुतमो हिमांशो पीयूषपूरपरिपूरित तन्नमस्ते ॥ १०२॥
त्वं पावने पथि सदा गतिरस्युपास्यः
कस्त्वां विना भुवनजीवन जीवतीह ।
स्तब्धप्रभञ्जन विवर्धितसर्वजन्तो
सन्तोषिता हि कुलसर्वग तन्नमस्ते ॥ १०३॥
विश्वैकपावन तावकपावकैक
शक्तेरृतेऽमृतवतामृतदिव्यकार्यम् ।
प्राणित्यदो जगदहो जगदन्तरात्मं-
अतत्पावक प्रतिपदं शमदं नमस्ते ॥ १०४॥
पानीयरूप परमेश जगत्पवित्र
चित्रं विचित्रसुचरित्र करोषि नूनम् ।
विश्वं पवित्रममलं किल विश्वनाथ
पानावगाहनत एतदतो नतोऽस्मि ॥ १०५॥
आकाशरूप बहिरन्तरुतावकाश
दानाद्विकस्वरमिहेश्वर विश्वमेतत् ।
त्वत्तः सदा सदयसंश्वसिति स्वभावा-
त्सङ्कोचमेति भवतोऽस्मि नतस्ततस्त्वाम् ॥ १०६॥
विश्वम्भरात्मक बिभर्ति विभोऽत्रविश्वं
को विश्वनाथ भवतोऽन्य तमस्तमोऽरे ।
तत्त्वां विना न शमिनां हिमजाहिभूष-
स्तव्योऽपरः परपरप्रणतस्ततस्त्वाम् ॥ १०७॥
आत्मस्वरूप तव रूपपरम्पराभि-
राभिस्ततं हर चराचररूपमेतत् ।
सर्वान्तरात्मनिलयप्रतिरूपरूप
नित्यं नतोऽस्मि परमात्मतनोऽष्टमूर्ते ॥ १०८॥
इत्यष्टमूर्तिभिरिमाभिरुमाभिवन्द्य-
वन्द्यातिवन्द्य भव विश्वजनीनमूर्ते ।
एतत्ततं सुविततं प्रणतप्रणीत
सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि ॥ १०९॥
अष्टमूर्त्यष्टकेनेष्टं परिष्टूयेति भार्गवः ।
भर्गभूमिमिलन्मौलिः प्रणनाम पुनःपुनः ॥ १.१६.११०॥
इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे षोडशाध्यायान्तर्गतं
भार्गवकृतं महादेवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । काशीखण्ड । पूर्वखण्ड । अध्याय १६/१०१-११०॥
skandapurANa . kAshIkhaNDa . pUrvakhaNDa . adhyAya 16/101-110..
Proofread by PSA Easwaran