ऋषिगौतमप्रोक्तं भावलिङ्गपूजनम्
विश्वासो यत्र भक्तस्य यत्र पूज्यत्वधीरपि ।
तदेव लिङ्गं तत्पूज्यं सर्वसिद्धिप्रदं भवेत् ॥ १॥
यदेव लिङ्गसम्बन्धघनचन्दनगोलकैः ।
तत्रार्पितं बिल्वपत्रं भुक्तिमुक्तिप्रदं न किम् ॥ २॥
अनुलिप्तं चन्दनाद्यैः लिङ्गमभ्यर्चयेदिति ।
श्रुतिश्चन्दनसम्बन्धं न दूरीकर्तुमिच्छति ॥ ३॥
समर्पितेषु पुष्पेषु पुनः पुष्पसमर्पणम् ।
पुष्पेषु क्रियते तेषु पुनः पुष्पसमर्पणम् ॥ ४॥
भावलिङ्गं तु भावेन शुद्धभावेन निर्मितम् ।
तत्रार्चनं कृतं तेन स्वसिद्ध्यै तद्भविष्यति ॥ ५॥
ततस्तद्भावलिङ्गस्य भावपूर्वार्चनेन तु ।
भवत्येव महद्भाग्यं स्वस्वभावानुरोधतः ॥ ६॥
तद्भावलिङ्गे दृष्टेऽपि तुष्टिर्वृष्टिर्भविष्यति ।
पुष्टिर्वृष्टिश्च तेनैव शुभवृद्धिर्भविष्यति ॥ ७॥
अयं तीर्थश्वरस्तत्र भावलिङ्गे मनोहरे ।
तत्कृतं पूजनं सर्वं स्वीकरिष्यति सादरम् ॥ ८॥
तीर्थेश्वरलिङ्गनिर्माल्यं चन्दनं च समर्पितम् ।
ददाति सिद्धिं तल्लिङ्गं तीर्थेशाधिष्ठितं यतः ॥ ९॥
तीर्थेश्वराभिमानस्तु स्वनिर्माल्येष्वविच्युतः ।
ततस्तदभिमानस्य निलयं लिङ्गमुत्तमम् ॥ १०॥
अस्य देवाधिदेवस्य तीर्थशस्यावलोकनात् ।
स्मरणादपि सिद्धयन्ति फलानि विविधान्यपि ॥ ११॥
तीर्थेशनिकटे यत्तु तीर्थं पापविनाशनम् ।
तदीक्षणात् पापनाशः स्नानात् सिद्धिमवाप्नुयात् ॥ १२॥
तत्तीरे यस्तनुत्यागं तीर्थेशस्मरणोत्सुकः ।
करिष्यति स पुण्यात्मा याति तीर्थेशरूपताम् ॥ १३॥
इदे पाशुपतस्थानं महापाशुपताश्रितम् ।
तत्राधिकारः शैवानां वासो नान्यस्य सर्वथा ॥ १४॥
अत्र पाशुपते मुक्तिः प्राप्ता पूव महात्मभिः ।
अग्रेऽपि मुक्तिः प्राप्तव्या महापाशुपतैरिह ॥ १५॥
॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं भावलिङ्गपूजनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३७। ३-१७ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 37. 3-17 ..
Proofread by Ruma Dewan