भृगुप्रोक्तं शिवधर्ममहिमानुवर्णनम्
- भृगुयमसंवादे -
भृगुः -
शिवधर्मसमानधर्ममन्यं न विजानामि न वेदबोधितोऽपि ।
स तु धर्मबरः स एव धर्मः स सुराणामपि सेवनीय एव ॥ १५८॥
सुरैरपारैः शिवधर्मधर्मो नारायणाद्यैः कृत एव सर्वैः ।
मुनीश्वरैरप्युरगेश्वरैश्च सिद्धैश्च गन्धर्ववरैश्च नित्यम् ॥ १५९॥
यं सर्वदेवोत्तममामनन्ति सोमावतंसं गिरिजावृतांसम् ।
तं दारितापारनृसिंहमांसं वन्दे शिवामानसराजहंसम् ॥ १६०॥
यत्पादुकाराधकसेवकानां पादारविन्दान्यरविन्दजातः ।
गोविन्दवृन्दारकवृन्दमौलिमूलानि चक्रे तमहं भजामि ॥ १६१॥
यस्यैश्वर्यं मानगम्यं न नूनं यं वेदान्ता नैव जानन्ति सर्वे ।
तं देवेशं पूजयामि प्रभाते मध्याह्ने वा सायमभ्यन्तरे वा ॥ १६२॥
यल्लिङ्गाग्रादिन्दिराकान्तमुख्याः सर्वे देवास्तावदुत्पत्तिमापुः ।
तं त्यक्त्वाऽन्यं कं व्रजामः शरण्यं तं देवानामग्रगण्यं भजामि ॥ १६३॥
यत्पादाङ्गुल्यग्ररेखाभिजातं चक्रं विष्णोर्भूषणं तं वरेण्यम् ।
वन्दे गौरीकान्तमेकं नितान्तं स्वान्ते शान्ते सन्ततं संवसन्तम् ॥ १६४॥
न भजामि शिवान्यमन्यवार्तां न करोम्येव न धीरहारकण्ठः ।
स कपर्दकपालिकासमेतो भवति प्रीतिविशिष्टमानसोऽपि ॥ १६५॥
न स्वप्नेऽपि शिवान्यनामकथने प्रीतिः सुधाधारया
प्रीतः काञ्जिरमिच्छतीति कुमतिः को वा जगन्मण्डले ।
नेन्द्रोपेन्द्रविरिञ्चिनामकथने तत्पूजने वा मतिः
स्वप्नेऽपीति शपामि काल शिवयोः पादारविन्दे मुदा ॥ १६६॥
पूज्यः शङ्कर एव शङ्करकथा श्राव्या सदा श्रूयते
शर्वाराधनमेव साधनवरैः बिल्वादिभिः साध्यते ।
नेयं स्यादनिशं वयोऽपि सततं तुङ्गाङ्गलिङ्गार्चनैः
लिङ्गाराधनमेव मे धनमिति ज्ञेयं निधानं परम् ॥ १६७॥
भस्मोद्धूलनपूर्वकं सितलसद्भूत्या त्रिपुण्ड्रं मुहुः
धृत्वा भालतले कपोलयुगले रुद्राक्षमालामपि ।
तं पश्चाक्षरमन्त्रमेव सततं जप्त्वा शिवाराधनं
कृत्वा बिल्वदलैर्वसामि भुवने जीवामि यावद्यम ॥
यल्लोचनाञ्चलविलोचनगात्रपातं तावत् पवित्रमपि मुक्तिपवित्रगात्रम् ।
तं चित्रभानुनयनं शरणं व्रजामि माहेश्वरामरतरुं परमेकमेव ॥ १६९॥
॥ इति शिवरहस्यान्तर्गते भृगुप्रोक्तं शिवधर्ममहिमानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ४२। १५८-१६९ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 42. 158-169 ..
Proofread by Ruma Dewan