भृङ्गीकृता शिवस्तुतिः
शम्भो सङ्गतकामिनीनवसुधाग्युर्यमौर्वीधनो
घेनूनाम्पतिवाहन प्रमथपाधीशान विश्वार्चित ।
वैकुण्ठात्मजकुण्ठिनोरुसुशरापारव्यथां संहर
शम्भो देव दयानिधे करुणया मां पाहि विश्वेश्वर ॥ १७॥
पौलस्त्यात्मजवाहुतोलितमहाकैलासस्थिता-
पारोद्वाहपरिश्रमार्तभुजभग्नार्तिस्तिवाम्रेडित ।
स्वर्गगङ्गापतनोरुगर्वकुलिशाखर्वाकपर्दोल्ल-
पल्लीक्षेवाशुधृताव्ययेश्वर महादेवाद्य मां पालय ॥ १८॥
भूमि स्यन्दनवाहने (मौर्वीमूर्ध्नि रथः) सुनिहिता वेदाश्च ते वाजिनो
मौर्वी ते धनुकुध्रको शरवरो भूमेः सुतानायकः ।
सूर्येन्दू रथकर्षणाङ्कगयुतौ यन्ता स्वयं ते विधिः
लक्ष्यं ते त्रिपुरं तथापि यमिनां चित्ते ह्यलक्ष्यो भवान् ॥ १९॥
तव शङ्कर किङ्करार्हता हरिपद्मासननेत्रसम्भवाः ।
वृषवाहाध्वरदक्षशिक्ष शम्भो करटित्वग्धृगहीश्वरोरुमाल ॥ २०॥
गिरिपरिवर्तितसागरोदरोद्यद्गरलीलानिहताः सुरासुराधाः ।
भवता भवतापहारिणा गरभुक्त्या सुखिनः सुरासुराः ॥ २१॥
(एवं संस्तूयमानश्च भृङ्गिनः पुरतः शिवः ।)
प्रादुरासीद्वृषारूढो नीलकण्ठस्त्रिलोचनः ॥ २२॥
देव्यालिङ्गितवामाङ्गो गणबृन्दनिषेवितः ।
दृष्ट्वा प्रणम्य देवेशं सामिचन्द्रकलाधरम् ॥ २३॥
दृष्ट्वा तत्पार्श्वगांस्तत्र गणेन्द्रान्वारणप्रभान् ।
त्रिनेत्रान्नीलकण्ठांश्च भस्मदिव्यत्रिपुण्ड्रकान् ॥ २४॥
नन्दिकेशश्चण्डिकेशो महाकालोऽथ बाणकः ।
कालामुखः शङ्कुकर्णो वीरभद्रो मयूरकः ॥ २५॥
गजकर्णस्ताम्रवक्त्रो वृद्धसेनो विदूरथः ।
सोमनन्दी महानन्दी तुहुण्डश्चैव डुण्डकः ॥ २६॥
छत्रचामरकोटीभिर्व्यजनैश्च पताककैः ।
गणानां शतसाहस्रैः अयुतैर्नियुतैः पुनः ॥ २७॥
कोटिकोटिभिरन्यैंश्च विविधायुधभूषणैः ।
वृतं महेशं तुष्टाव भृङ्गी चन्द्रकलाधरम् ॥ २८॥
शम्भो स्फार तटीद्वयोरुतटिनीगर्वादिनिर्वापणो
वीर्योत्तेजिजटानिटालनयनस्त्वं धूर्जटिः पाटकः ।
घोराकृत्रिमगोसहायुतमहाकण्ठीरवोद्यत्प्रभा कट्यां
त्वत्करटीभवं वरशयः शूलानलेनाहितः (?) ॥ २९॥
त्वं खण्डपर्शो शशिखण्डचूड खट्वाङ्गखड्गशरहेतिमहोरुबाहो ।
आखण्डलादिसुरवन्दित पुण्डरीकचर्माम्बराम्बुज अहीशवरोरुहार ॥ ३०॥
कुण्डलीशकृतकुण्डल गण्डस्फालनील नलिनामलमाल ।
शूलमूलवरहस्तकपाल द्योतितामलझलञ्झलपाद ॥ ३१॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये भृङ्गीकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ९ । १७-३१॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 9 . 17-31..
Notes: Mahāmuni Bhṛṅgī महामुनि भृङ्गी eulogises Śiva शिव as He appears along with His family.
Proofread by Ruma Dewan