भृङ्गिप्रसादार्थं देवीसान्त्वनम्
त्वं मे पुत्रवरोऽसि मां च शिवतो भिन्नां न सम्पश्य भो ।
किञ्चिद्द्रोणमरीचिकाविरहिता सूर्यप्रभा सूर्यतः ॥ ४२॥
मायाऽहं प्रकृतिः परः स भगवान्मायी महेशः शिवः
विद्याधीश्वर एव विश्वजनको लोकातिगः शङ्करः ।
मुक्ताः कालकलाविलासकलितैः ब्रह्मेन्द्रनारायणाः
श्रीमृत्युञ्जय एव कालकलनातीतो महेशः परः ।
लोकानुग्रहरूपतो हि समया कैलासमौलौ स्थितः ॥ ४३॥
न वेद वेदोऽपि शिवप्रभावं स्वात्मानमेवाद्वयमीशितारम् ।
सर्वेन्द्रियाणां पुरुषं परायणं को वेद यो वेद शिवः सनातनः ॥ ४४॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये भृङ्गिप्रसादार्थं देवीसान्त्वनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ९ । ४२-४४॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 9 . 42-44..
Notes: Devī देवी assuages Mahāmuni Bhṛṅgī महामुनि भृङ्गी (who had avoided circumambulation of Devī देवी in favour of Śiva शिव) by advising him about the oneness of Śiva शिव and Herself.
Proofread by Ruma Dewan