भूतनाथाष्टकगीतम्
शिव शिव शक्तिनाथं संहारं शं स्वरूपं
नव नव नित्यनृत्यं ताण्डवं तं तन्नादम् ।
घन घन घूर्णिमेघं घङ्घोरं घं निनादं
भज भज भस्मलेपं भजामि भूतनाथम् ॥ १॥
कल कल कालरूपं कल्लोलं कं करालं
डम डम डमनादं डम्बुरुं डङ्कनादम् ।
सम सम शतग्रीवं सर्वभूतं सुरेशं (सितग्रीवं)
भज भज भस्मलेपं भजामि भूतनाथम् ॥ २॥
रम रम रामभक्तं रमेशं रां रारावं
मम मम मुक्तहस्तं महेशं मं मधुरम् । (मुक्तहासं)
बम बम ब्रह्मरूपं वामेशं बं विनाशं
भज भज भस्मलेपं भजामि भूतनाथम् ॥ ३॥
हर हर हरिप्रियं त्रितापं हं संहारं
खम खम क्षमाशीलं सपापं खं क्षमणम् ।
द्दग द्दग ध्यानमूर्त्तिं सगुणं धं धारणं
भज भज भस्मलेपं भजामि भूतनाथम् ॥ ४॥
पम पम पापनाशं प्रज्वलं पं प्रकाशं
गम गम गुह्यतत्त्वं गिरीशं गं गणानाम् ।
दम दम दानहस्तं धुन्दरं दं दारुणं
भज भज भस्मलेपं भजामि भूतनाथम् ॥ ५॥
गम गम गीतनाथं दूर्गमं गं गन्तव्यं
टम टम रुण्डमालं टङ्कारं टङ्कनादम् ।
भम भम भ्रं भ्रमरं भैरवं क्षेत्रपालं
भज भज भस्मलेपं भजामि भूतनाथम् ॥ ६॥
त्रिशूलधारी संहारकारी गिरिजानाथं ईश्वरं
पार्वतीपति त्वं मायापति शुभ्रवर्णं महेश्वरम् ।
कैलासनाथ सतिप्राणनाथ महाकालं कालेश्वरं
अर्धचन्द्रं शिरकिरीटं भूतनाथं शिवं भजे ॥ ७॥
नीलकण्ठाय सत्स्वरूपाय सदाशिवाय नमो नमः
यक्षरूपाय जटाधराय नागदेवाय नमो नमः
इन्द्रहाराय त्रिलोचनाय गङ्गाधराय नमो नमः
अर्धचन्द्रं शिरकिरीटं भूतनाथं शिवं भजे ॥ ८॥
तव कृपा कृष्णदासः भजति भूतनाथं
तव कृपा कृष्णदासः स्मरति भूतनाथम् ।
तव कृपा कृष्णदासः पश्यति भूतनाथं
तव कृपा कृष्णदासः पिबति भूतनाथम् ॥ ९॥
यः पठति निष्कामभावेन सः शिवलोकं सगच्छति ॥
॥ इति श्री कृष्णदासविरचितं भूतनाथाष्टकगीतं सम्पूर्णम् ।