भगीरथकृता शिवस्तुतिः
इन्दुखण्ड कलितामलमौलिं कुण्डलीशमणिकुण्डलगण्डम् ।
चण्डपापहरणं विधिमुण्डोल्लासिपाणिकमलं शिवमीडे ॥ ११॥
भस्म त्रिपुण्ड्रनिटिलाम्बरकृष्णराङ्काजिनं करटिचर्मधरं त्वाम् ।
शुलामलोद्यतकरं शशिधामचूडमोडे शिवं गरुडवाउतुपूजिताङ्घ्रिम् ॥ १२॥
शशिशिखिहरिबाणमीशितारं त्रिपुरयमान्धकसूदनं महेशम् ।
नरहरिगजकृत्तिधारिणं महेश शरणमुपगतोऽस्मि देवदेवम् ॥ २२॥
अरुणतरणिशम्बराङ्कवह्निद्युतिनयनं सुरशेखरं महेशम् ।
विधिहरिविमृशोचमाङ्गमूलं शरणमुपगतोऽस्मि देवदेवम् ॥ २३॥
मजे भवानीरमणं शिवं भवं भयापदं भीमनभोर्ध्वकेशम् ।
भयानकं भर्गमुमासहायं भस्माङ्गरागं भुजगाङ्गहारम् ॥ ३०॥
वामदेवमगजामनोहरं व्योमकेशमसमेषु दाहकम् ।
सोमधामजकलोत्तममौलिं हेमदेहमुमया भजाम्यहम् ॥ ३१॥
यममददमनं जितैककामं यमिहृत्पद्मगतं जनाधिवासम् ।
फणिगणकलिताङ्घ्रिपाणिभूषं सितभस्मावलितत्रिपुण्ड्रजुष्टम् ॥ ३२॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये भगीरथकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ३२ । ११-१२, २२-२३, ३०-३२॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 32 . 11-12, 22-23, 30-32..
Notes: Bhagīratha भगीरथ worships and eulogizes Kedāreśa Śiva केदारेश शिव for bringing River Gaṅgā गङ्गा down to the earthly plane, in order to relieve his ancestors who had passed away.
Proofread by Ruma Dewan