भगीरथकृतं १ शिवस्तोत्रम्
भगीरथ उवाच ।
बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो ।
नाहं किमपि जानामि ततः प्रीतो भव प्रभो ॥ ५६॥
वाग्भिर्मनोभिः कृतिभिः कदाचिन्ममोपकुर्वन्ति हिते रता ये ।
तेभ्यो हितार्थं त्विह चामरेश सोमं नमस्यामि सुरादिपूज्यम् ॥ ५७॥
उत्पादितो यैरभिवर्धितश्च समानगोत्रश्च समानधर्मा ।
तेषामभीष्टानि शिवः करोतु बालेन्दुमौलिं प्रणतोऽस्मि नित्यम् ॥ ५८॥
इति ब्रह्मपुराणे अष्टसप्ततितमाध्यायान्तर्गतं
भगीरथकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ७८/५६-५८॥
brahmapurANa . adhyAya 78/56-58..
Proofread by PSA Easwaran