भगीरथकृतं २ शिवस्तोत्रम्

भगीरथकृतं २ शिवस्तोत्रम्

भगीरथ उवाच । प्रणमामि जगन्नाथं प्रणतार्तिप्रणाशनम् । प्रमाणागोचरं देवमीशानं प्रणवात्मकम् ॥ १६-७८॥ जगद्रूपमजं नित्यं सर्गस्थित्यन्तकारणम् । विश्वरुपं विरुपाक्षं प्रणतोऽस्म्युग्ररेतसम् ॥ १६-७९॥ आदिमध्यान्तरहितमनन्तमजमव्ययम् । समामनन्ति योगीन्द्रास्तं वन्दे पुष्टिवर्धनम् ॥ १६-८०॥ नमो लोकाधिनाथाय वञ्चते परिवञ्चते । नमोऽस्तु नीलग्रीवाय पशूनां पतये नमः ॥ १६-८१॥ नमश्चैतन्यरूपाय पुष्टानां पतये नमः । नमोऽकल्पप्रकल्पाय भूतानां पतये नमः ॥ १६-८२॥ नमः पिनाकहस्ताय शूलहस्ताय ते नमः । नमः कपालहस्ताय पाशमुद्गरधारिणे ॥ १६-८३॥ नमस्ते सर्वभूताय घण्टाहस्ताय ते नमः । नमः पञ्चास्यदेवाय क्षेत्राणां पतये नमः ॥ १६-८४॥ नमः समस्तभूतानामादिभूताय भूभृते । अनेकरूपरुपाय निर्गुणाय परात्मने ॥ १६-८५॥ नमो गणाधिदेवाय गणानां पतये नमः । नमो हिरण्यगर्भाय हिरण्यपतये नमः ॥ १६-८६॥ हिरण्यरेतसे तुभ्यं नमो हिरण्यबाहवे । नमो ध्यानस्वरूपाय नमस्ते ध्यानसाक्षिणे ॥ १६-८७॥ नमस्ते ध्यानसंस्थाय ध्यानगम्याय ते नमः । येनेदं विश्वमखिलं चराचरविराजितम् ॥ १६-८८॥ वर्षेवाभ्रेण जनितं प्रधानपुरुषात्मना ॥ १६-८९॥ स्वप्रकाशं महात्मानं परं ज्योतिः सनातनम् । यमामनन्ति तत्त्वज्ञाः सवितारं नृचक्षुषाम् ॥ १६-९०॥ उमाकान्तं नन्दिकेशं नीलकण्ठं सदाशिवम् । मृत्युञ्जयं महादेवं परात्परतरं विभुम् ॥ १६-९१॥ परं शब्दब्रह्मरुपं तं वन्देऽखिलकारणम् । कपर्द्दिने नमस्तुभ्यं सद्योजाताय वै नमः ॥ १६-९२॥ भवोद्भवाय शुद्धाय ज्येष्ठाय च कनीयसे । मन्यवे त इषे त्रय्याः पतये यज्ञतन्तवे ॥ १६-९३॥ ऊर्जे दिशां च पतये कालायाघोररूपिणे । कृशानुरेतसे तुभ्यं नमोऽस्तु सुमाहात्मने ॥ १६-९४॥ यतः समुद्राः सरितोऽद्रयश्च गन्धर्वयक्षासुरसिद्धसङ्घाः । स्थाणुश्चरिष्णुर्महदल्पकं च असच्च सज्जीवमजीवमास ॥ १६-९५॥ नतोऽस्मि तं योगिनताङ्घ्रिपद्मं सर्वान्तरात्मानमरूपमीशम् । स्वतन्त्रमेकं गुणिनां गुणं च नमामि भूयः प्रणमामि भूयः ॥ १६-९६॥ इत्थं स्तुतो महादेवः शङ्करो लोकशङ्करः । आविर्बभूव भृपस्य सन्तप्ततपसोऽग्रतः ॥ १६-९७॥ इति नारदपुराणे पूर्वभागे षोडशाध्यायान्तर्गतं भगीरथकृतं शिवस्तोत्रं समाप्तम् । बृहन्नारदीयपुराण । पूर्वभाग । अध्याय १६/७८-९६॥ bRRihannAradIyapurANa . pUrvabhAga . adhyAya 16/78-96.. Proofread by PSA Easwaran
% Text title            : Bhagirathakritam 2 Shiva Stotram
% File name             : bhagIrathakRRitaM2shivastotram.itx
% itxtitle              : shivastotram (bhagIrathakRitaM 2 bRRihannAradIyapurANAntargatam praNamAmi jagannAthaM praNatArtipraNAshanam)
% engtitle              : bhagIrathakRRitaM 2 shivastotram
% Category              : shiva, bRRihannAradIyapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bRRihannAradIyapurANa | pUrvabhAga | adhyAya 16/78-96||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Bengali)
% Latest update         : November 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org