भगवत्कृतं रुद्रस्तोत्रम्
श्रीभगवानुवाच ।
महेश्वराय देवाय नमस्ते परमात्मने ॥ ९६॥
नारायणाय शर्वाय ब्रह्मणे ब्रह्मरूपिणे ।
शाश्वताय ह्यनन्ताय अव्यक्ताय च ते नमः ॥ ९७॥
सूत उवाच ।
एवं स्तुत्वा महादेवं दण्डवत्प्रणिपत्य च ।
जजाप रुद्रं भगवान्कोटिवारं जले स्थितः ॥ ९८॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे एकसप्ततितमाध्यायान्तर्गतं
भगवत्कृतं रुद्रस्तोत्रं समाप्तम् ।
लिङ्गपुराण । पूर्वभाग । अध्याय ७१/९६-९७; १००-११५॥
lingapurANa . pUrvabhAga . adhyAya 71/96-97; 100-115..
Proofread by PSA Easwaran