भैरवीवल्लभाष्टकम्
नमो भूतनाथं नमो प्रेतनाथं
नमः कालकालं नमो रुद्र(ण्ड)मालम् ।
नमः कालिकाप्रेमलोलं करालं
भजे भैरवीवल्लभं भैरवेन्द्रम् ॥ १॥
सदा शूलहस्तं सदा खड्गचालं
सदा तन्त्रसिद्धं सदा शुभ्रभस्मम् ।
सदा ध्यानयुक्तं सदा ज्ञानयुक्तं
भजे भैरवीवल्लभं भैरवेन्द्रम् ॥ २॥
शिवारक्षकारां महाकाशीवासं
शरीरं सुशोभं विमुक्तं त्रिपुण्ड्रम् ।
पिशाचादिनाथं पशूनां प्रतिष्ठं
भजे भैरवीवल्लभं भैरवेन्द्रम् ॥ ३॥
फणीनागकण्ठे भुजङ्गाद्यनेकं
गलेरुण्डमालं महावीरधीरम् ।
कटिव्याघ्रचर्मं चिताभस्मलेपं
भजे भैरवीवल्लभं भैरवेन्द्रम् ॥ ४॥
परमशान्तिदायं सुसिद्धिप्रदायं
महाकालरूपं योगिन्यादीभूषम् ।
गजारूढदेवं त्रिकालं सुदर्शं
भजे भैरवीवल्लभं भैरवेन्द्रम् ॥ ५॥
करे शूलधारं महाकष्टनाशं
स्वभक्तादिचित्तं सदा वासमानम् ।
महाब्रह्ममानं महारुद्ररूपं
भजे भैरवीवल्लभं भैरवेन्द्रम् ॥ ६॥
रोषं विदारं परमपुण्यकारं
कपालं निवासं सदाभावशुद्धम् ।
गणाधीश ईशं पुराविश्व ईशं
भजे भैरवीवल्लभं भैरवेन्द्रम् ॥ ७॥
मुनिवृन्दसेव्यं पुराणस्य पुरुषं
सदा ध्यानलीनं प्रभायुक्तदेवम् ।
धरं पापपाशं महाऽट्टहासं
भजे भैरवीवल्लभं भैरवेन्द्रम् ॥ ८॥
सदा भावनाथं सदा सेव्यमानं
सदा भक्तिदेवं सदा पूज्यमानम् ।
महातीर्थवासं सदासेव्यमेकं
भजे भैरवीवल्लभं भैरवेन्द्रम् ॥ ९॥
॥ इति भैरवीवल्लभाष्टकं सम्पूर्णम् ॥
Encoded and proofread by Ruma Dewan