श्रीभवबन्धविमोचनशिवस्तुतिः
रदच्छदाधःकृतबिम्बगर्वः पदप्रणम्राहितसर्वविद्यः ।
कैलासशृङ्गादृतनित्यवासो धुनोतु शीघ्रं भवबन्धमीशः ॥ १॥
राकाशशाङ्कप्रतिमानकान्तिः कोकाहितप्रोल्लसदुत्तमाङ्गः ।
शैलेन्द्रजालिङ्गितवामभागो धुनोतु शीघ्रं भवबन्धमीशः ॥ २॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीभवबन्धविमोचनशिवस्तुतिः सम्पूर्णा ।
Proofread by PSA Easwaran