श्रीबिल्हणस्तवः
सन्तु सहस्रं देवास्तद्गुणदोषोक्तिभिः किमस्माकम् ।
शिवमेव वर्णयामः पुनरपि शिवमेव शिवमेव ॥ १॥
धत्से मूर्ध्नि सुधामयूखशकलं श्लाघ्ये कपालस्रजं
वक्षस्यद्रिसुताकुचागरुरजःसान्द्रं चिताभस्म च ।
तद्बाणादिकविप्रणीतललितस्तोत्रप्रबन्धप्रिये
त्वत्कर्णे लभतामयं मम गिरां गुम्भोऽपि सम्भावनाम् ॥ २॥
पञ्चब्रह्मषडङ्गबीजमुखरप्रासादपञ्चाक्षर-
व्योमव्यापिपुरःसरेषु मनुषु प्रौढिः कुतो मादृशाम् ।
ओङ्कारादिनमोऽन्तमुद्रितभवन्नामावलीकल्पितं
सर्वं मन्त्रतया प्रभो परिणमत्यन्तर्बहिर्यागयोः ॥ ३॥
सर्वेषां हृदि विद्यसे शिव ततस्त्वद्ध्यानयोगेन किं
विश्वस्योपरि वर्तसे यदि ततस्त्वत्पादमूलेन किम् ।
त्रैलोक्यं त्वयि लीयते यदि तदा त्वत्प्राप्त्युपायैरलं
सर्वं चापि तवैव तत्त्वमपरं दैवं न रोचिष्यते ॥ ४॥
प्रासादैस्तव किं श्मशानवसतेः स्नानैः किमस्थिस्पृशः
किं वस्त्रैश्च दिगम्बरस्य भसितालेपस्य गन्धैश्च किम् ।
किं धूमैः शवधूमधूम्रवपुषः किं कालकूटाशिनो
नैवेद्यैरपि भक्तिमात्रसुलभं त्वां देव सेवामहे ॥ ५॥
वदन्ति चेतश्चपलस्वभावं
जल्पन्ति दोषान् कवयो गुणाय ।
तद्यत्र कुत्रापि विलीयमानं
कदाचन त्वय्यपि धावतीति ॥ ६॥
एनांसि मानसिकवाचिककायिकानि
कुर्मस्तथापि चरणं शरणं ददी(दे)थाः ।
यो दोषवन्तमपि रक्षति रक्षितासौ
को(किं)वा न रक्षति निरागसमिन्दुमौले ॥ ७॥
आयुषि महति विलम्बो भवति भवत्पादपङ्कजप्राप्तेः ।
हीने भवदाराधन(ने)विघात इत्युभयथापि किं कुर्मः ॥ ८॥
पुंसामायुर्निटलफलकेष्वक्षरैर्विद्यमानै-
र्निश्चिन्वानो विधिरवधिना पूर्यमाणं स लुम्पेत् ।
नैतत्कर्तुं प्रभवति मम त्वत्पदाम्भोजयुग्म-
प्रत्यासन्नक्षितिनति (किणामृष्ट) विसङ्घृष्टफालाक्षरस्य ॥ ९॥
श्मशाने भूतानां पतिरिति विजानन्नपि जनो
नृणां भस्मान्यस्थीन्यपि किमिति तीर्थं नमयति (गमयति) ।
भवद्देहाश्लेषं भवदपघनारोहणमपि
स्वयं लब्ध्वा स्वेषामकृतपरिपाकेन भवति
(स्वयं लब्धानां कस्सुकृतपरिपाको नु भवति)
(लब्धान्येषां सुकृतपरिपको न) भवति ॥ १०॥
प्रेतताममरतां च बिभ्रतीं
त्वद्भुजिष्यपदवीं लभामहे ।
दुष्कृतस्य सुकृतस्य चोभयो-
र्नान्तरं तदपि धारयामहे ॥ ११॥
ब्रह्मोत्तमाङ्गलवितुर्नृकपाललेढुः (वोढुः)
श्रीकण्ठपादकमलं वरिवस्यतां ते ।
हिंसाप्यशौचमपि नागसि कारणं नः
स्वामीव सेवकमिति प्रवदन्ति (लोकाः) तज्ज्ञाः ॥ १२॥
जटाजूटे गङ्गां निटलनिकटे शीतकिरणं
पुनर्देहे देवीं तुहिनगिरिपुत्रीं पवयसि । (स्फुटयसि ।)
ततः शङ्के लोकत्रितयपरितापापहरणं
विधातुं सन्नाहो वरद भवता भावित इति ॥ १३॥
वित्तेशस्य कुबेरता न विरता नीहारभानोः क्षयो
हेरम्बस्य महोदरं न गलितं दैत्यारिरुच्चैर्गदः ।
अङ्गं भृङ्गिरिटेश्च पाण्डु कृश(त)मित्यास्ताममीषां कथा
त्वं शूलीति विधीयसे कथमयं भक्तस्तवानामयः ॥ १४॥
गृह्यन्तां वसनेषु चर्म भुजगो हारेषु यानेषु गा-
र्धुत्तूरं कुसुमेषु नात्र रुदितुः किं तत्र (रुदिमः किं त्वत्र) कम्पामहे ।
अब्धेः कौस्तुभकामधेनुकमलाकल्पद्रुमोच्चैःश्रवः
पीयूषादिषु सत्सु तात भवता यः कालकूटग्रहः ॥ १५॥
उत्तरङ्गमधिमस्तकगङ्गा-
वारि धारयसि वारिजगन्धि ।
किं पयश्चुलुकबिल्वदलैस्ते
भिक्षुरुज्झति कदापि न लाभम् ॥ १६॥
सस्यारोपणरक्षणाक्षमतया भिक्षाटनं निर्मितं
कच्छग्रन्थिविमोचनापटुतया वासो दिशः कल्पिताः । (लसतया, पहतया वासो)
शाणान्वेषणघर्षणालसतया भस्माङ्गरागः कृतो
विश्वोत्पादनपालनापहरणायासस्त्वया नेक्षितः ॥ १७॥
धुत्तूराणि शिरःस्रजं पितृवनं वासं विषं भोजनं
गर्ह्यान्याभरणानि भस्म तिलकं वृद्धोक्षमारोहणम् । (सर्पाश्चाभरणानि)
प्रेतान् पारिषदान् विधाय ममृजे दुर्मेधसो वेधसः
त्रैलोक्यानुपयोगिवस्तुरचनावैफल्यदोषस्त्वया ॥ १८॥
वाणी पङ्करुहासनस्य गृहिणीत्यास्थायि मौनव्रतं
लक्ष्मीः सागरशायिनः प्रियतमेत्यग्राहि भिक्षाटनम् ।
इत्थं स्वामिनिषिद्धसेवकवधूसम्भोगबीभत्सया
पञ्चासेविषत त्वया धृतिदयादान्तिक्षमामुक्तयः ॥ १९॥
भिक्षां देहि गृहाण कीदृशमभिप्रेतं प्रतिज्ञा दृढा
बाढं पृच्छ हिमाचलं न गृहिणी भिक्षां पतिं पृच्छति ।
तद्भिक्षुस्तनयामियं त्रिनयनायत्ता प्रतिज्ञा मृषे-
त्यन्तश्छद्मपरीक्षिताचलवधूभावाय तुभ्यं नमः ॥ २०॥
स स्वामी जगतां सखा धनपतेः सेव्यः सुराणामिति
श्रुत्वा तुभ्यमुमां प्रतिश्रुतवती मेना मुनीनां पुरः ।
त्वामाशावसनं पिशाचसुहृदं प्रेतावृतं प्राङ्गणे
दृष्ट्वा चित्रशिखण्डिभिः प्रहसितं मेने नटैर्नाटितं (नवैर्नाटितम्) ॥ २१॥
शूलानि क्षिणु लोहकार डमरून् मातङ्गसिंहत्वचो
व्यालान् जाङ्गलिक प्रयच्छ शबर व्याघ्राजिनान्यानय ।
खट्वाङ्गान्यपि सूत्रधार घटयेत्युद्वाहकोलाहले
दण्ड्यन्ते हिमवत्पुरे भवदनुज्ञातैर्गणैः कारवः ॥ २२॥
श्वश्रूः सव्रीडमेषा मिषति न विहितः कङ्कणस्यापि मोक्षो
कोऽसावुद्धूलनस्यावसर इति भवान् मातृभिर्वारितोऽपि ।
निर्वृत्तो माधुपर्को विधिरिति गिरिजासिद्धिसिद्धान्तवादी
निर्वाणस्य स्वपाणि ग्रहणहुतभुजो भस्मलिप्तो ननर्त ॥ २३॥
(ग्रहणजहुतभुग्भस्म)
गङ्गा केवलमम्बु शैलतनया पत्नीत्यमुष्याः पुरः
सा गुप्ता शिरसीति केलिकलिभिः सा दर्शितास्या इति ।
सा जूटेऽर्धवपुष्यसावपि धृतेत्येकोऽनुकूलः शठो
धृष्टो दक्षिण इत्यजायत चतुर्भेदो भवान्नायकः ॥ २४॥
हारं त्यक्त्वाक्षसूत्रं श्रवसि मणिसरं चिह्नमौञ्जीगुणायां
कट्यां श्रीखण्डपङ्कं विगलितभसिते कक्षतुम्बीकरण्डे ।
मौलौ वृत्तां नरास्थिस्रजमपि मकुटं मुक्तभिक्षाकपाले
पाणौ शैलेन्द्रदत्तां शिव तव दधतो मुग्धता धूर्तता वा ॥ २५॥
किं स्थानं च (न) जगत्सु सप्तसु परं हे पद्मवासे कुतो
हे पद्मासन पद्ममीश्वरशिरोऽलङ्कारमारोहतां (रोपितम्) ।
इत्थं तन्नियमार्चनप्रणयिभिर्माहेश्वरैर्भक्तितो (र्भर्त्सितौ)
मन्ये वार्धिशयस्वभाव भवता हृन्नाभिपद्मासनौ ॥ २६॥
(स्य तत्र भवता, स्य तावभवतां)
त्वत्पादयोरब्जसहस्रपूजां
नेत्राब्जपूर्णां कृतवत्युपेन्द्रे ।
त्रिनेत्र नेत्राब्जसहस्त्रपूजां
कुर्वन्निवेन्द्रः प्रणतो विभाति ॥ २७॥
नेत्रानले कामकरीषदीप्ते
कृतान्तकाष्ठज्वलिते पिनाकिन् ।
मूलाहुतीस्त्रीणि पुराणि हुत्वा
पूर्णाहुतिं विश्वमिदं जुहोषि ॥ २८॥
आरोप्य वायुमपि खेचरतां लभन्ते
हुत्वा हुताशमपि वासवतां भजन्ते ।
शम्भो भवच्चरणपद्ममनर्चयन्तो
मर्त्याः कथञ्चिदपि नाश्नुवते भवन्तम् ॥ २९॥
छिन्धि ब्रह्मशिरो यदि प्रथयसे प्रेतेषु सख्यं यदि
क्षीबः क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि ।
सृष्ट्वा संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः
त्वां सेवे करवाणि किं त्रिजगतीमान्यः स एवेश्वरः ॥ ३०॥
व्यालेभ्योऽस्तु नमः पिशाचसदसि न्यस्तः प्रणामाञ्जलि-
र्नम्राः स्मो नृकपालदामनि चिताभस्मापि वन्दामहे ।
जानुभ्यां प्रणिपत्य चारुवचनैः सन्तोषयामो वृषं
किं कुर्मः परमेश्वरस्य चरितं विज्ञाय वर्तामहे ॥ ३१॥
धत्तां भास्मनमङ्गरागमजिनं वस्त्रं(वस्तां) च तारक्षवं
कापालीं स्रजमाबिभर्तु कटकं चाहेयमामुञ्चतु ।
भूयश्चापि शिवेतराणि भजतां देवस्तथापि स्वयं
सत्स्वन्येष्वपि दैवतेषु शिव इत्येकः समाम्नायते ॥ ३२॥
अपि कुशलिनी प्रेतावासस्थली सहवासिनः
प्रमथपतयः कच्चिज्जीर्णः सुखी किमु शङ्करः ।
अपि च सुलभा भिक्षावृत्तिर्जगत्त्रयनाथ ते
न खलु शिथिलप्रान्तः किं ते गजाजिनकम्बलः ॥ ३३॥
भो भो कैतकपुष्प सौरभनिधे खेदं वृथा मा कृथाः
दृष्ट्वा मूर्ध्नि महेश्वरस्य रचितामर्कप्रसूनावलिम् ।
अस्थिष्वाभरणस्पृहां विदधतः क्षारा(भस्मा)नुलिप्ताकृतेः
(भस्माङ्गरागाकृतेः, रक्षानुलिप्ताकृतेः)
नग्नीभूय च नृत्यतोऽस्य चरितं सर्वं सखे तादृशम् ॥ ३४॥
भवद्भवनदेहलीनिकटतण्डुदण्डाहति-
त्रुटन्मकुटकोटिभिर्मखवदादिभिर्भूयते ।
भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं
किमित्यमरसम्पदं प्रमथनाथ नाथामहे ॥ ३५॥
अर्थानर्थनिरूपणव्यसनितामाढ्यस्तुतिव्यग्रता-
मेणाक्षीकुचलालनप्रणयितामद्यापि वर्तामहे ।
त्वद्ध्यानव्यवधानहेतुषु मनस्त्वच्चाटुविघ्नेषु वा
त्वत्पूजाविधुरेषु कर्मसु करः श्रीकण्ठ नोत्कण्ठते ॥ ३६॥
वासः शुभ्रमृतुर्वसन्त समयः पुष्पं शरन्मल्लिका
धावन्तः (धानुष्कः) कुसुमायुधः परिमलः कास्तूरिकास्त्रं (?)धनुः ।
वाणी तर्करसोज्ज्वला प्रियतमा श्यामा वयो यौवनं
मार्गः शाङ्कर एव पञ्चमलया गीतिः कविर्बिल्हणः ॥ ३७॥
ये बिल्हणाह्वयकवीश्वरसम्प्रणीता-
मेतां स्तुतिं शिवमुदेऽन्वहमामनन्ति ।
ते प्राप्नुवन्ति (प्राप्नुवन्तु) पुरुषायुषमात्मविद्या-
मारोग्यमष्टतनयानखिलार्थसिद्धिम् ॥ ३८॥
एतद्ग्रन्थसहस्रशाणकषणत्रुट्यत्कलङ्कैर्गिरा- (नायं श्लोकः बिल्हणस्य)
मुल्लासैः कथयन्ति बिल्हणकविः तेष्वेव सन्नह्यति ।
बिन्दुद्वन्द्वतरङ्गिताग्निसरणिः कर्ता शिरोबिन्दुकं
कर्मेति क्रमशिक्षितान्वयकलाः ये के च तेभ्यो नमः ॥ ३९॥
॥ इति श्रीबिल्हणस्तवः सम्पूर्णः ॥
Proofread by Aruna Narayanan