चित्रगुप्तप्रोक्तं बिल्वमूलस्थिते शिवलिङ्गपूजामहिमकथनम्
चित्रगुप्तः -
यो बिल्वमूलस्थितलिङ्गपूजां करोति भक्त्या नवबिल्वपत्रैः ।
तत्पुण्यराशिर्गणनामतीतः स एव कैलासपतिप्रियोऽपि ॥ ७७॥
बिल्वमूलस्थिते लिङ्गे शिवः सन्निहितः स्वयम् ।
बिल्वपत्राणि गृह्णाति शिवभक्तार्पितानि सः ॥ ७८॥
न रत्नानि गृह्णाति गौरीसहायो यथा बिल्वपत्राणि गृह्णाति मूर्ध्ना ।
स्वभक्तार्पितानि प्रियाणीति मत्वा ददात्येव मुक्ति स तैरर्चितोऽपि ॥ ७९॥
किमन्यन्महादेवलिङ्गार्पितेन परिच्छिन्नबिल्वीदलेनापि तुल्यः ।
तदेकं महापातकापारशैलप्रदाहाय शक्तं महापावकाभम् ॥ ८०॥
किमन्यन्महेशाय देयं प्रियं वा न बिल्वीदलान्यत् प्रियं भूतलेऽस्मिन् ।
पुरा बिल्वपत्रैः समाराध्य धीराः सुरत्वं च लब्ध्वा शिवं ते प्रपन्नाः ॥ ८१॥
अहो बिल्वमूलस्थलिङ्गार्चनेन प्रयान्त्येव सर्वेऽपि शर्वं महार्हम् ।
पदं प्राप्य तुष्टा भवन्त्येव सत्यं न तैरस्ति तुल्योऽत्र लोके परत्र ॥ ८२॥
यः कल्मलीकतमनुत्तमबिल्वमूले बिल्वीदलेन कमलैरमलैश्च भक्त्या ।
सम्पूजयत्यसकृदादरतो विलोक्य तं पूजयन्ति बहुधा त्रिदशा मुनीन्द्राः ॥ ८३॥
न बिल्वपत्रार्पणपुण्यतुल्यं पुण्यं न वेदेषु यतस्तदेव ।
सर्वार्थसिद्धिर्भवतीति मन्ये धन्ये धन्येन मान्येन शिवार्चनेन ॥ ८४॥
॥ इति शिवरहस्यान्तर्गते चित्रगुप्तप्रोक्तं बिल्वमूलस्थिते शिवलिङ्गपूजामहिमकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ४६। ७७-८४ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 46. 77-84 ..
Proofread by Ruma Dewan