बिल्वपुष्पपञ्चामृतधान्यजलधारादिशिवपूजाफलवर्णनम्
मुनयः -
साधु पृष्टमिदं प्राज्ञाः शिवपूजनसाधनम् ।
शिवार्चनस्त्ररूपं च वेदोक्तमधुनोच्यते ॥ ९१॥
- -
स्नात्वा जलैः समुद्धृल्य भस्मनाऽङ्गानि सादरम् ।
अग्निरित्यादिभिर्मन्त्रैः कृत्वा भस्माभिमन्त्रणम् ॥ ९२॥
त्रिपुण्ड्रधारणं कृत्वा कृत्वा रुद्राक्षधारणम् ।
बिल्वमूले सन्निविश्य जप्त्वा मन्त्रं षडक्षरम् ॥ ९३॥
बिल्ववृक्ष नमस्तेऽस्तु शिवपूजनसाधन ।
मूलतो भवरूपाय मध्यतो मृडरूपिणे ॥ ९४॥
अग्रतः शिवरूपाय पत्रर्वेदस्वरूपिणे ।
स्कन्धे वेदान्तरूपाय तरुराजाय ते नमः ॥ ९५॥
नमस्ते बिल्वतरवे भानुसोदर ते नमः ।
शिवपूजोद्यताभीष्टसाधनाय नमो नमः ॥ ९६॥
इति सम्प्रार्थ्य तं बिल्वं नत्वा कृत्वा प्रदक्षिणम् ।
कृताञ्जलिपुटो भूत्वा प्रार्थयेत् पुनरादरात् ॥ ९७॥
वेदरूपाणि पत्राणि शिवपूजार्थमद्य ते ।
प्रार्थयामीति सम्प्रार्थ्य भवेत् तद्ग्रहणोद्यतः ॥ ९८॥
रुद्राध्यायं जपन्नेव स्मरन्नन्ते महेश्वरम् ।
गृहीत्वा बिल्वपत्राणि पूजयेगद्गिरिजापतिम् ॥ ९९॥
सुबिल्वपत्रपृष्टेन योजयेलिङ्गमस्तकम् ।
उत्तानैः पूजयेत्पत्रैः उत्तराग्रैर्जलान्वितैः ॥ १००॥
यथोत्पन्नेन पुष्पेण पूजयेत् गिरिजापतिम् ।
सर्वात्मना वृन्तहीनं बृहतीपुष्पमर्चयेत् ॥ १०१॥
वृन्तहीनानि पद्मानि कुमुदानि नवान्यपि ।
शिवपूजोपयुक्तानि नान्यानीत्यवधारितम् ॥ १०२॥
चम्पकामल्लिकाजाती करवीरादिकानि तु ।
यथेष्टमेव देयानि सितान्यप्यसितान्यपि ॥ १०३॥
अर्कं वा करवीरं वा बकं कनकमेव वा ।
दत्वा लिङ्गे शिवं स्मृत्वा भक्त्या पापैः प्रमुच्यते ॥ १०४॥
नवारुणैः बिल्वपत्रैः पूजयित्वा महेश्वरम् ।
ब्रह्महापि विमुक्तः स्यात् भूतिरुद्राक्षभूषणः ॥ १०५॥
उद्धूल्य भस्मनाङ्गानि धृत्वा तिर्यक् त्रिपुण्ड्रकम् ।
बिल्वपत्रैः समभ्यर्च्य मुक्तो भवति मानवः ॥ १०६॥
भक्त्या दत्वा महेशाय कोमलं बिल्वपल्लवम् ।
कैलासं समवाप्नोति गृहं गृहपतिर्यथा ॥ १०७॥
सन्ति पत्राण्यनेकानि प्रसूनान्यपि कोटिशः ।
बिल्वपत्रार्पणेनैव तुष्टो भवति शङ्करः ॥ १०८॥
एकस्य बिल्वपत्रस्य शिवलिङ्गे प्रदानतः ।
यत् पुण्यं समवाप्नोति तद्वदेद्गिरिजापतिः ॥ १०९॥
बिल्वपत्र प्रदानस्य फलमेतावदित्यपि ।
वेदैरपि न विज्ञातं अन्येषां तत्र का कथा ॥ ११०॥
बिल्वे भस्मनि रुद्राक्षे शङ्करस्य यथा रुचिः ।
तथा रुचिर्भवान्यां तु तथाऽन्येषु रुचिर्न तु ॥ १११॥
अखण्डानि सखण्डानि बिल्वपत्राणि तेष्वपि ।
अतिप्रीतिरखण्डेषु दुर्लभान्येव तानि तु ॥ ११२॥
लिङ्गानि दुर्लभान्येव बिल्वपत्राण्यपि स्वतः ।
सुलभानि भवन्त्येव क्वचित् भाग्यवतां नृणाम् ॥ ११३॥
नवानि बिल्वपत्राणि दुर्लभानि भवन्ति चेत् ।
अनवान्यपि सम्पाद्य पूजयेत् तैरुमापतिम् ॥ ११४॥
बिल्वपत्राणि देयानि शुष्काणि पतितान्यपि ।
भिन्नान्यपि नवाभावे छिद्राण्यपि कदाचन ॥ ११५॥
यावत्तद्रक्षणं शक्यं तावत्कृत्वैव सादरम् ।
देयं बिल्वं महेशाय तच्चूर्णमपि तत्प्रियम् ॥ ११६॥
दुर्लभं बिल्वचूर्णं चेत् बिल्वचन्दनमेव वा ।
दद्यान्नित्यं महेशाय तेन तुष्यति शङ्करः ॥ ११७॥
बिल्वपत्रैरनभ्यर्च्य तच्चूर्णैरपि चन्दनैः ।
न भोक्तव्यं न शेतव्यं कदापि द्विजजन्मना ॥ ११८॥
अपराणि सुगन्धीनि प्रसूनानि महेश्वरः ।
बिल्वाभावे न गृह्णाति तेन प्रीतः सदाशिवः ॥ ११९॥
सूर्याभावे यथा ध्वान्तं न नश्यति तथा सुराः ।
बिल्वपत्रार्चनाभावे न पापं याति सर्वथा ॥ १२०॥
बिल्वीतरुजवाते वा या प्रीतिर्गिरिजापतेः ।
सा प्रीतिः पुष्पवातेऽपि शङ्करस्य न जायते ॥ १२१॥
सूर्यः सृष्टो महेशेन ध्वान्तसंहरणाय सः ।
बिल्वः सृष्टः शिवेनैव पापनाशाय केवलम् ॥ १२२॥
आदित्यः समभूत् सोमात् सोमाद्बिल्वः प्रजायते ।
उमया सहितः सोमः स तयोर्जनको यतः ॥ १२३॥
नीलोत्पलकृतां मालां शङ्कराय समर्चयेत् ।
प्रफुल्लपद्ममालां च कुड्मलैर्नार्चयेत् शिवम् ॥ १२४॥
करवीरप्रसूनानि प्रक्षिप्य लिङ्गमस्तके ।
मुच्यते पातकैः सर्वैः ब्रह्महत्यादिभिः सुराः ॥ १२५॥
करवीरप्रसूनेन यो नार्चयति शङ्करम् ।
स दरिद्रो भवत्येव सवंशः प्रतिजन्मनि ॥ १२६॥
मन्दारैः कनकैर्वापि यः सायं शिवमर्चयेत् ।
स मुक्तः पापकोटिभ्यो मुक्तो भवति मानवः ॥ १२७॥
बृहतीकुसुमैर्नित्यं योऽर्चयेत् गिरिजापतिम् ।
अस्थूलैरपि वा स्थूलैः मुच्यते पापबन्धनात् ॥ १२८॥
यः प्रयच्छति शर्वाय फुल्ल्लां पङ्कजमालिकाम् ।
सायङ्काले विशेषेण स याति शिवमन्दिरम् ॥ १२९॥
पुभागमालिकां दत्वा महेशाय निशामुखे ।
मुच्यते पापकोटिभ्यः सद्य एव न संशयः ॥ १३०॥
शतपत्रप्रसूनानि यः प्रयच्छति शङ्करे ।
द्रोणपुष्पाणि वा नित्यं स याति शिवमन्दिरम् ॥ १३१॥
पारिजातप्रसूनानि यो ददाति महेश्वरे ।
वकुलान्यपि पूतात्मा स मुक्तो भवति ध्रुवम् ॥ १३२॥
यः पूजयेन्महादेवं कुन्दसुन्दरमालया ।
स गन्धर्वपतिर्भूत्वा प्रयाति शिवमन्दिरम् ॥ १३३॥
अर्चयित्वा महादेवं केतकीकुसुमैर्निशि ।
अरातिभ्यः सर्वथापि न बिभेत्येव मानवः ॥ १३४॥
दुर्वाङ्कुरैर्नवैः शुद्धैरभिपूज्य सदाशिवम् ।
सर्वपुष्पार्चनफलं प्राप्नोत्येव न संशयः ॥ १३५॥
यवतण्डुलगोधूमैः चणकैर्द्विदलैरपि ।
सितासितैस्तिलैरीशं सर्षपैश्च समर्चयेत् ॥ १३६॥
प्रियङ्गुभिश्च नीवारैः श्यामाकैः शालिभिस्तथा ।
अणुभिश्च समाराध्य मुच्यते पापकोटिभिः ॥ १३७॥
दध्ना क्षीरैर्घृतेनापि मधुना सितयाऽपि च ।
समभ्यर्च्य महादेवं मुच्यते पापकोटिभिः ॥ १३८॥
हिमशीकरसङ्काशनीरधाराभिषेचनम् ।
महालिङ्गे प्रदोषेषु महापापैः प्रमुच्यते ॥ १३९॥
क्षीराज्यमधुधाराभिः योऽभिषिञ्चेदुमापतिम् ।
स एव हयमेधादियागकोटिफलं लभेत् ॥ १४०॥
आकल्पार्जितपापनाशकमिति ज्ञेयं शिवाराधनं
सामान्येन तदप्यखण्डबिल्वीदलैश्चैत्कृतम् ।
तत् किं किं फलमातनोति बहुधा तन्नैव जाने निजं
दास्यत्येव पदं सदाशिव इति ज्ञातं तदन्यत्तथा ॥ १४१॥
मुक्तिप्रासादमार्गप्रथितमणिलसद्दीर्धसोपानपङ्क्तिः
भक्तिः श्रीपतिनेत्रपूजितशिवाकान्ताङ्घ्रिपङ्केरुहे ।
सा भक्तिर्यदि बिल्वपल्लवलसन्मल्लीप्रसूनार्पणे
शाङ्गे लिङ्गवरे तदा जितमिदं तावज्जगज्जायते ॥ १४२॥
धन्यैर्जन्मसहस्रसाधितमहापुण्यार्णवैः केवलं
भक्तिः शङ्करपादपद्मभजने तावत्परं लभ्यते ।
सा लब्धा जननादिदुःखनिकरं हन्त्येव हन्त्यापदां
राशीनप्यमितान् करोति परमानन्दाश्रयं सर्वदा ॥ १४३॥
॥ इति शिवरहस्यान्तर्गते मुनयः प्रोक्तं बिल्वपुष्पपञ्चामृतधान्यजलधारादिशिवपूजाफलवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २४। ९१-१४३ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 24. 91-143 ..
Proofread by Ruma Dewan