ब्रह्मादिदेवैः कृतं १ शिवस्तोत्रम्
ब्रह्मादय ऊचुः ।
जय शङ्कर देवेश दीनानाथ महाप्रभो ॥ १, २३.४५॥
कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥ १, २३.४५॥
मखपाल मखाधीश मखविध्वंसकारक ॥ १, २३.४६॥
कृपां कुरु मशानापराधं नः क्षमस्व वै ॥ १, २३.४६॥
देवदेव परेशान भक्तप्राणप्रपोषक ॥ १, २३.४७॥
दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमोऽस्तु ते ॥ १, २३.४७॥
त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ॥ १, २३.४८॥
रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥ १, २३.४८॥
अद्भुतं चरितं ते हि निश्चितं कृपया तव ॥ १, २३.४९॥
सर्वापराधः क्षन्तव्यो विभवो दीनवत्सलाः ॥ १, २३.४९॥
इति शिवपुराणे वायवीयसंहितायां पूर्वखण्डे त्रयोविंशाध्यायान्तर्गतं
ब्रह्मादिदेवैः कृतं शिवस्तोत्रं समाप्तम् ।
शिवपुराण । वायवीयसंहिता । पूर्वभाग । अध्याय २३/४५-४९॥
shivapurANa . vAyavIyasaMhitA . pUrvabhAga . adhyAya 23/45-49..
Proofread by PSA Easwaran