ब्रह्मादिदेवैः कृतं रामनाथस्तोत्रम्
ब्रह्मोवाच ।
नमस्ते लोकनाथाय रामनाथाय शम्भवे ।
प्रसीद मम सर्वेश मदविद्यां विनाशय ॥ ४९॥
इन्द्र उवाच ।
यस्य शक्तिरुमादेवी जगन्माता त्रयीमयी ।
तमहं शङ्करं वन्दे रामनाथमुमापतिम् ॥ १.४९.५०॥
यम उवाच ।
पुत्रौ गणेश्वरस्कन्दौ वृषो यस्य च वाहनम् ।
तं वै रामेश्वरं सेवे सर्वाज्ञाननिवृत्तये ॥ ५१॥
वरुण उवाच ।
यस्य पूजाप्रभावेन जितमृत्युर्मृकण्डुजः ।
मृत्युञ्जयमुपासेऽहं रामनाथं हृदा तु तम् ॥ ५२॥
कुबेर उवाच ।
ईश्वराय लसत्कर्णकुण्डलाभरणाय ते ।
लाक्षारुणशरीराय नमो रामेश्वराय वै ॥ ५३॥
आदित्य उवाच ।
नमस्तेऽस्तु महादेव रामनाथ त्रियम्बक ।
दक्षाध्वरविनाशाय नमस्ते पाहि मां शिव ॥ ५४॥
सोम उवाच ।
नमस्ते भस्मदिग्धाय शूलिने सर्पमालिने ।
रामनाथ दयाम्भोधे स्मशाननिलयाय ते ॥ ५५॥
अग्निरुवाच ।
इन्द्राद्यखिलदिक्पालसंसेवितपदाम्बुज ।
रामनाथाय शुद्धाय नमो दिग्वाससे सदा ॥ ५६॥
वायुरुवाच ।
हराय हरिरूपाय व्याघ्रचर्माम्बराय च ।
रामनाथ नमस्तुभ्यं ममाभीष्टप्रदो भव ॥ ५७॥
बृहस्पतिरुवाच ।
अहन्तासाक्षिणे नित्यं प्रत्यगद्वयवस्तुने ।
रामनाथ ममाज्ञानमाशु नाशय ते नमः ॥ ५८॥
शुक्र उवाच ।
वञ्चकानामलभ्याय महामन्त्रार्थरूपिणे ।
नमो द्वैतविहीनाय रामनाथाय शम्भवे ॥ ५९॥
अश्विनावूचतुः ।
आत्मरूपतया नित्यं योगिनां भासते हृदि ।
अनन्यभानवेद्याय नमस्ते राघवेश्वर ॥ १.४९.६०॥
इति श्रीस्कन्दपुराणे ब्रह्मखण्डे सेतुखण्डे एकोनपञ्चाशत्तमाध्यायान्तर्गतं
ब्रह्मादिदेवैः कृतं रामनाथस्तोत्रं समाप्तम् ।
स्कन्दपुराण । ब्रह्मखण्ड । सेतुल्खण्ड । अध्याय ४९/४९-६०॥
skandapurANa . brahmakhaNDa . setulkhaNDa . adhyAya 49/49-60..
Proofread by PSA Easwaran