ब्रह्माकृता शिवस्तुतिः
मदमुदितमदनदमन सदनीकृत गिरिवदन
सङ्क्रन्दनकृतवन्दन यमुनानुजभवनशमन ।
सिकनाशनतनयरक्षण भुवनाधिपगगनान्तर
(गहनाकृतिमनन) गिरिजानन कमलोद्भव परिगन्धितसंहनन ॥ ३॥
अरुणानुजकृतवाहन परिपूजन परितोषण
तरणिप्रभदितिजान्तकखग्वक्त्रक शम्भो ।
(अरशोभितचक्रवरप्रद) वरुणालय कृतपारण मुनिपूजितचरण
अरुणाचलवसते शिव करुणां कुरु शम्भो ॥ ४॥
भवं हरं मृडं शिवं महेशमीशशङ्करं
उमाधवं रमाधवाब्जनेत्रपूज्यपादकम् ।
गराशनं शरासने गिरीन्द्रमौलिधारिणं
पुराशनं स्मराशनं भजे सदाऽघमोचकम् ॥ २६॥
अजाद्यमुण्डपण्डधृङ्महाण्डकोटिमण्डल-
प्रचण्डताण्डवोल्लसत्सुगण्डकुण्डलीश्वरम् ।
शिखण्डखण्डसोमधृक्सुपुण्डरीकसम्भवप्रकाश-
चर्मवासितं भजाम्यखण्डमीश्वरम् ॥ २७॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये ब्रह्माकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २८ । ३-४, २६-२७॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 28 . 3-4, 26-27..
Notes: Brahmā ब्रह्मा seeks pardon from, and eulogizes Śiva शिव; as He gets rid of the distress (that had ensued when He had spoken demeaningly about Śiva शिव), at Maṇikarṇikā Ghāṭa मणिकर्णिका घाट in Kāśī Vārāṇasī काशी वाराणसी.
Proofread by Ruma Dewan