ब्रह्माण्डमहापुराणे ब्रह्माकृता शिवस्तुतिः
नमस्तुभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषे ।
नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ॥ १॥
नमस्त्रैलोक्य नाथाय भूतानां पतये नमः ।
नमः सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे ॥ २॥
ब्रह्मणे चैव रुद्राय विष्णवे चैव ते नमः ।
साङ्ख्याय चैव योगाय भूतग्रामाय वै नमः ॥ ३॥
मन्मथाङ्गविनाशाय कालपृष्ठाय वै नमः ।
सुरेतसेऽथ रुद्राय देवदेवाय रंहसे ॥ ४॥
कपर्दिने करालाय शङ्कराय हराय च ।
कपालिने विरूपाय शिवाय वरदाय च ॥ ५॥
त्रिपुरघ्नमखघ्नाय मातॄणां पतये नमः ।
वृद्धाय चैव शुद्धाय मुक्तायैव बलाय च ॥ ६॥
लोकत्रयैकवीराय चन्द्राय वरुणाय च ।
अग्राय चैव चोग्राय विप्रायानेकचक्षुषे ॥ ७॥
रजसे चैव सत्त्वाय नमस्तेऽव्यक्तयोनये ।
नित्याय चैवानित्याय नित्यानित्याय वै नमः ॥ ८॥
व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ।
चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः ॥ ९॥
जगतामार्त्तिनाशाय प्रियनारायणाय च ।
उमाप्रियाय शर्वाय नन्दिवक्त्राङ्किताय च ॥ १०॥
पक्षमासार्द्धमासाय ऋतुसंवत्सराय च ।
बहुरूपाय मुण्डाय दण्डिने च वरूथिने ॥ ११॥
नमः कपालहस्ताय दिग्वासाय शिखण्डिने ।
धन्विने रथिने चैव यमिने ब्रह्मचारिणे ॥ १२॥
ऋग्यजुःसामवेदाय पुरुषायेश्वराय च ।
इत्येवमादिचरितैः स्तोत्रैः स्तुत्य नमोऽस्तु ते ॥ १३॥
॥ इति ब्रह्माण्डमहापुराणे ब्रह्माकृता शिवस्तुतिः सम्पूर्णा ॥
॥ ब्रह्माण्डमहापुराणम् । वायुप्रोक्तं पूर्वभागः । अनुषङ्गपादः - २।
अध्यायः २५ - नीलकण्ठनामोत्पत्तिकथनम् । ६४-७६॥
.. brahmANDamahApurANam . vAyuproktaM pUrvabhAgaH . anuSha~NgapAdaH - 2.
adhyAyaH 25 - nIlakaNThanAmotpattikathanam . 64-76..
Encoded and proofread by Ruma Dewan