ब्रह्माकृतः शिवस्तवः
(शिवरहस्यान्तर्गते उग्राख्ये)
ब्रह्मोवाच
पूज्यः सर्वोत्तमो देवः शिव एव न चापरः ।
पूज्यश्च सर्वथा देवः शिव एव मुमुक्षुभिः ॥ १४८॥
मन्यन्ते शिवमद्वैतं चतुर्थं ब्रह्मवादिनः ।
स एव परमात्माऽतो विजिज्ञास्यो मुमुक्षुभिः ॥ १४९॥
सर्वव्यापी सर्वरूपः परमात्मा सदाशिवः ।
स एव सर्वदा पूज्यो मुमुक्षुभिरनेकधा ॥ १५०॥
यमाहुरक्षरं वेदाः सर्वदेवशिखामणिम् ।
स एव सर्वदा पूज्यो मुमुक्षुभिरनेकधा ॥ १५१॥
यमाहुः सर्वगं वेदाः सर्वदेवशिखामणिम् ।
स एव सर्वदा पूज्यो मुमुक्षुभिरनेकधा ॥ १५२॥
शिवाभिधं परं ब्रह्म सेवनीयं प्रयत्नतः ।
पार्वतीसहितो नित्यं ध्यातव्यः श्रीमहेश्वरः ॥ १५३॥
पूजनीयो लिङ्गरूपी त्र्यम्बकस्त्रिपुरान्तकः ।
जप्तव्यश्च मनुः शैवः पञ्चाक्षरमयो नृभिः ॥ १५४॥
यमाहुः प्रणवाकारं वेदा देवशिखामणिम् ।
स एव सर्वदा पूज्यो मुमुक्षुभिरीश्वरः ॥ १५५॥
मुक्तिर्हस्तगता नॄणां यस्य देवस्य पूजनात् ।
स एव सर्वदा पूज्यो मुमुक्षुभिरीश्वरः ॥ १५६॥
॥ इति शिवरहस्यान्तर्गते ब्रह्माकृतः शिवस्तवः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २२। १४८-१५६॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 22 . 148-156..
Proofread by Ruma Dewan