ब्रह्माप्रोक्तं शिवस्तोत्रम्
नमस्ते देवदेवाय नमस्तेऽनन्तमूर्तये ॥ ४३९॥
नमो लोकैकनाथाय नमस्ते सर्वसाक्षिणे ।
नमस्ते निर्विकाराय नमस्तेऽनन्तचक्षुषे ॥ ४४०॥
नमस्तेऽनन्तहस्ताय नमस्तेऽनन्तरूपिणे ।
नमस्ते निर्गुणानन्त नमस्ते सगुण प्रभो ॥ ४४१॥
नमस्ते जगदाधार नमस्ते विश्वभावन ।
नमस्ते सत्त्वरूपाय नमस्ते लोकरूपिणे ॥ ४४२॥
नमस्ते सर्वरूपाय रूपातीताय ते नमः ।
नमस्ते शुद्धबुद्धाय नमस्ते परमात्मने ॥ ४४३॥
नमस्ते लिङ्गरूपाय नमस्ते विज्वरानघ ।
नमो वेदान्तवेद्याय नमस्ते वेदरूपिणे ॥ ४४४॥
नमस्ते ज्ञानरूपाय नमस्ते ज्ञानदायक ।
नमस्ते निष्प्रपञ्चाय निरीहाय नमोऽस्तु ते ॥ ४४५॥
निर्द्वन्द्वाय नमस्तेऽस्तु निर्मलायास्तु ते नमः ।
निरवद्य नमस्तेऽतु निरामय नमोऽस्तु ते ॥ ४४६॥
निष्कलङ्क नमस्तेऽस्तु व्यापकाय नमोऽस्तु ते ।
नमस्ते यज्ञरूपाय यज्ञकर्त्रे नमोऽस्तु ते ॥ ४४७॥
नमस्ते भूरिरूपाय नमस्ते शर्मदायिने ।
नमो हिरण्यहस्ताय सेनान्ये ते नमो नमः ॥ ४४८॥
नमो दिक्पतये तुभ्यं कक्षाणां पतयेनमः ।
नमः सस्पिञ्जरायाद्य नमस्तेऽस्तु त्विषीमते ॥ ४४९॥
नमः पथीनाम्पतये कुलुञ्चाय नमोऽस्तु ते ।
विव्याधिने नमोऽन्नानां पतये ते नमो नमः ॥ ४५०॥
नमस्ते हरिकेशाय नमो भाव्योपवीतिने ।
पुष्टानां पतये तुभ्यं नमस्ते पुष्टिदायिने ॥ ४५१॥
जगतां पतये नित्यं नमो रुद्राय ते नमः ।
पराततायिने नित्यं नमस्ते गूढरूपिणे ॥ ४५२॥
क्षेत्राणां पतये नित्यं नमः सूताय ते नमः ।
नमो हन्त्याय दार्ढ्याय विश्वगुप्ताय ते नमः ॥ ४५३॥
वनानां पतये नित्यं रोहिताय नमोऽस्तु ते ।
नमः स्थपतये नित्यं वृक्षाणां पतये नमः ॥ ४५४॥
नमस्ते मन्त्रिणे नित्यं वाणिजाय नमोऽस्तु ते ।
नमः सूर्म्याय च पर्ण्याय पर्णशद्याय ते नमः ॥ ४७८॥
नमोऽपगुरमाणाय नमस्तेऽभिघ्नते सदा ।
नम आखिदते नित्यं नमः प्रखिदते सदा ॥ ४७९॥
नमो विश्वस्वरूपाय गुणातीताय ते नमः ।
नीलग्रीवाय नित्याय शितिकण्ठाय ते नमः ॥ ४८०॥
व्युप्तकेशाय ते नित्यं सहस्राक्षाय ते नमः ।
नमस्ते घोररूपाय नमस्ते शतधन्वने ॥ ४८१॥
गिरीशाय नमस्तेऽस्तु शिपिविष्टाय ते नमः ।
मीढुष्टमाय देवाय भव्यायेषुमते नमः ॥ ४८२॥
नमो ह्रस्वाय देवाय वामनाय नमो नमः ।
नमोऽस्तु बृहते नित्यं नमो वर्षीयसे सदा ॥ ४८३॥
नमो वृद्धाय देवाय नमः संवृध्वनाय ते ।
नमोऽग्रियाय शूराय प्रथमाय नमोनमः ॥ ४८४॥
आशवे ते नमो नित्यमजराय च ते नमः ।
नमः शीघ्र्याय ते नित्यं शीभ्याय महते नमः ॥ ४८५॥
नम ऊर्व्याय नीप्याय वस्वन्याय नमोनमः ।
स्रोतस्याय नमो नित्यं दीप्याय च नमो नमः ॥ ४८६॥
नमो ज्येष्ठाय शूराय कनिष्ठाय च ते नमः ।
पूर्वजाय नमस्तेऽस्तु नमस्तेऽपरजाय च ॥ ४८७॥
मध्यमाय नमस्तेऽस्तु कूश्माण्डाय च ते नमः ।
नमः परन्तपायेश ताराय सकलात्मने ॥ ४८८॥
जघन्याय नमस्तेऽस्तु बुध्नियाय नमो नमः ।
सोभ्याय प्रतिसर्याय नमो याम्याय ते नमः ॥ ४८९॥
नमः क्षेम्याय वर्म्याय उर्वर्याय नमो नमः ।
श्लोक्याय चावसान्याय नमो मङ्गलरूपिणे ॥ ४९०॥
नमो वन्याय कक्ष्याय श्राव्याय च नमो नमः ।
प्रतिश्राव्याय शान्ताय शरण्याय नमो नमः ॥ ४९१॥
नमः सदाशुषेणाय नमश्चाशुरथाय च ।
नमः शूरस्वरूपाय भेत्रे च भयदायिने ॥ ४९२॥
नमोऽस्तु वर्मिणे तुभ्यं नमो नित्यं वरूथिने ।
बिल्मिने च नमो नित्यं नमः कबचिने सदा ॥ ४९३॥
श्रुताय श्रुतसेनाय दुन्दुभ्याय च ते नमः ।
नमस्ते आहनन्याय धृष्णवे प्रमृशाय च ॥ ४९४॥
तीक्ष्णेषवे नमस्तुभ्यं नम आयुधिने सदा ।
नमो गोप्त्रे अश्वहन्त्रे आ(स्वा)युधाय सुधन्वने ॥ ४९५॥
नमस्तुत्याय पथ्याय नमः सूद्याय ते नमः ।
सू(स)रस्याय नमो नित्यं नमो नाद्याय ते नमः ॥ ४९६॥
वैशन्ताय नमो नित्यमग्रगण्याय ते नमः ।
नमोऽस्त्वेकरूपाय नमः कूप्याय ते सदा ॥ ४९७॥
नमो वन्द्याय वर्ष्याय वर्म्यायामृतरूपिणे ।
नमो मेध्याय भौमाय विद्युत्याय नमो नमः ॥ ४९८॥
ईध्रियाय नमस्तेऽस्तु आतप्याय नमो नमः ।
नमो वात्याय रेश्म्याय वास्तव्याय नमो नमः ॥ ४९९॥
वास्तुपाय नमस्तेऽस्तु नमः साम्बाय सर्वदा ।
नमश्चन्द्रकिरीटाय नियताय नमोऽस्तु ते ॥ ५००॥
नमोऽनन्तगुणोपेत सोम सर्वोत्तम प्रभो ।
नमस्ते त्र्यम्बक श्रीमन् नमस्ताम्राय ते नमः ॥ ५०१॥
नमो विश्वैकनिलय नमो विश्वैकसंस्तुत ।
नमो विधूतपापाय महादेवाय ते नमः ॥ ५०२॥
नमस्ते पार्वतीनाथ नमस्ते त्रिपुरान्तक ।
नमस्ते करुणासिन्धो नमस्ते भक्तवत्सल ॥ ५०३॥
नमस्ते कालकालाय कालकालाय ते सदा ।
नमस्ते कालरूपाय नमस्ते वरदाय च ॥ ५०४॥
नमः सर्वोत्तम श्रीमन्सदाशिव नमोऽस्तु ते ।
हिरण्यरूप चिद्रूप हिरण्यनिलयामल ॥ ५०५॥
नमस्तेऽस्तु हिरण्यात्मन् हिरण्यपतये नमः ।
न त्वदन्यो महादेव लोकनाथ जगन्मय ॥ ५०६॥
न त्वदन्यः सुराराध्यो न त्वदन्यो जगत्प्रभुः ।
नमो भवाय भीमाय भग्नाय भवदाय ते ॥ ५०७॥
देवतासार्वभौमाय शम्भवे प्रभवे नमः ।
त्वदन्यो वेदवेद्यो न न त्वदन्यः सुरेष्टदः ॥ ५०८॥
न त्वदन्यः सदा सेव्यो न त्वदन्यो जगत्पिता ।
त्वमेव भूषणं रम्यं त्वमेव मम जीवनम् ॥ ५०९॥
त्वमेव मम मातासि त्वमेव हि पिता मम ।
त्वमाराध्यतमः शम्भो मम देवोत्तम प्रभो ॥ ५१०॥
न त्वदन्यपदद्वन्द्वमर्चयामि कृपानिधे ।
न शृणोमि कथामन्यां शिवनामविवर्जिताम् ॥ ५११॥
शिवनामान्यनामानि न वदामि महेश्वर ।
शिवलिङ्गं विहायान्यं न पश्यायि च सादरम् ॥ ५१२॥
शिवलिङ्गं विहायान्यद्ध्यातं च न कदाचन ।
अपराधान्क्षमस्वेश मम शङ्कर सर्वदा ॥ ५१३॥
स्वरूपं तव विज्ञासु दुःशकं नात्र संशयः ।
वैदैः सर्वैरपि श्रीमन् तव रूपं सदाशिव ॥ ५१४॥
न ज्ञातं तादृशं रूपं मया ज्ञेयं कथं प्रभो ।
लिङ्गस्याग्रं मया ज्ञातुमज्ञानाद्गतमीश्वर ॥ ५१५॥
अपराधं क्षमस्वाद्य दीनवत्सल शङ्कर ।
प्रणतं पाहि मां शम्भो करुणारसवारिधे ॥ ५१६॥
मां न मुञ्च महादेव पाहि पाहि सदाशिव ।
॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं शिवस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १० । ४३९.२-५१६.१॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 10 . 439.2-516.1..
Proofread by Ruma Dewan