ब्रह्माविष्णूकृतं लिङ्गोत्पत्तिस्तवः
(शिवरहस्यान्तर्गते महादेवाख्ये)
ब्रह्मविष्णू ऊचतुः ।
अनादिदेव देवेश विश्वेश्वर महेश्वर ।
सर्वज्ञ ज्ञानविज्ञानप्रदामेय नमोऽस्तु ते ॥ ९॥
अनेक(अनन्त)कान्तिसम्पन्न अनन्तासनसंस्थित ।
अनन्तशक्तिसम्भोग परमेश नमोऽस्तुते ॥ १०॥
परात्परतरातीत उत्पत्तिस्थितिकारण ।
सर्वार्थसाधनोपाय विश्वेश्वर नमोऽस्तुते ॥ ११॥
बहुरूप महारूप सर्वरूपोत्तमोत्तम ।
पशुपाशार्णर्वातीत वृषभारूढ ते नमः ॥ १२॥
स्वप्रभानिर्मलामेय सर्वस्वामिन् महेश्वर ।
योगिवर्य महायोगिन् योगेश्वर नमोऽस्तु ते ॥ १३॥
निरञ्जन निराधार स्वाघार निरुपप्लव ।
प्रपन्नशरणेशान योगातीत नमोऽस्तुते ॥ १४॥
जिह्वाचपलभावेन यदिदं गादितं मया (प्रभो) ।
तत्क्षन्तव्यमनौपम्य कस्ते स्तौति गुणार्णवम् ॥ १५॥
नमस्ते नामलिङ्गाय शिवलिङ्गाय ते नमः ।
नमस्ते गूढलिङ्गाय परलिङ्गाय भो(यो)गिने ॥ १६॥
नमस्ते ज्योतिलिङ्गाय देवलिङ्गाय लिङ्गिने ।
(ज्योतिर्लिङ्गाय ते देवलिङ्गायार्लिङ्गिने नमः)
नमस्ते सूक्ष्मलिङ्गाय बुद्धिलिङ्गाय बुद्धये ॥ १७॥
नमः पर्वतलिङ्गाय भावलिङ्गाय ते नमः ।
जगत्कारणलिङ्गाय जगतां पतये नमः ॥ १८॥
(आवयोः पतये चैव धर्माणां पतये नमः ।)
नमोऽस्मत्पतये(तुभ्यं) चैव धर्माणां पतये नमः ।
लिङ्गोत्पत्तिस्तवं पुण्यं यः शृणोति नरः सदा ॥ १९॥
नोत्पद्यते हि संसारे स्थानमाप्नोति शाश्वतम् ।
तस्मात्सर्वप्रयत्नेन शृणुयाद्वाचयेत्तथा ॥ २०॥
पापकञ्चुकमुत्सृज्य प्राप्नोति परमं पदम् । २१.१
॥ इति शिवरहस्यान्तर्गते ब्रह्माविष्णूकृतं लिङ्गोत्पत्तिस्तवः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४ लिङ्गोत्पत्तिस्तवः । ९-२१.१॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 4 lingotpattistavaH . 9-21.1..
Notes:
Brahmā ब्रह्मा and Viṣṇu विष्णु eulogize Śiva शिव as they are awed by His appearance in form of the Jvālāliṅga ज्वालालिङ्ग whose beginning and end they had not been able to detect.
Proofread by Ruma Dewan