ब्रह्माविष्णूप्रोक्ता महेश्वरस्तुतिः
(शिवरहस्यान्तर्गते ईश्वराख्ये)
ब्रह्मविष्णू ऊचतुः ।
अनादिदेव देवेश विश्वेश्वर महेश्वर ॥ २७.२॥
सर्वज्ञ ज्ञानविज्ञानप्रदाज्ञाननिवर्तक ।
अनेककान्तिसम्पन्न अनन्तासनसंस्थित ॥ २८॥
अनन्तशक्तिसम्भोग परमेश नमोऽस्तु ते ।
परात्पर परातीत उत्पत्तिस्थितिकारण ॥ २९॥
सर्वार्थद महाशर्व सर्वकार्यपरायण ।
बहुरूप महारूप सर्वरूपामरोत्तम ॥ ३०॥
पशुपाशार्णवातीत मायाशक्तिविवर्जित ।
स्वभावनिर्मलामेय निर्गुणाकाशमध्यग ॥ ३१॥
योगसाङ्ख्यैःदुरापात्मन्निगमान्तैकगोचर ।
निरञ्जन निराधार स्वाधार निरूपप्लव ॥ ३२॥
स्वभावभासकामेय भास्यभासकवर्जित ।
सर्वेन्द्रियादिरहित भावाभावविवर्जित ॥ ३३॥
नमस्ते शिवलिङ्गाय अलिङ्गाय नमोऽस्तुते ।
नमस्ते गुह्यलिङ्गाय परलिङ्गाय लिङ्गिने ॥ ३४॥
नमस्ते देवलिङ्गाय ज्योतिर्लिङ्गाय ते नमः ।
नमस्ते सूक्ष्मलिङ्गाय बुद्धिलिङ्गाय ते नमः ॥ ३५॥
नमः पर्वतलिङ्गाय भावलिङ्गाय ते नमः ।
जगत्कारणलिङ्गाय जगतां पतये नमः ॥ ३६॥
नमो हिरण्यलिङ्गाय दिव्यलिङ्गाय ते नमः ।
नमस्ते रुद्र मन्यो च उतोत इषवे नमः ॥ ३७॥
नमस्ते अस्तु धन्वने कराभ्यां ते नमो नमः ।
या ते रुद्र शिवाघोरा तनूस्तुभ्यं नमोनमः ॥ ३८॥
नमोऽस्तु नीलग्रीवाय सहस्राक्षाय ते नमः ।
सहस्रपाणये तुभ्यं नमो मीढुष्टमाय ते ॥ ३९॥
कपर्दिने नमस्तुभ्यं कालातीताय ते नमः ।
नमस्ते ततशूलाय विज्याय धनुषे नमः ॥ ४०॥
(नमस्ते ततशूलाय नमस्ते विज्यधन्वने) ॥ ४०॥
हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः ।
सेनान्ये ते नमो देव दिशां च पतये नमः ॥ ४१॥
नमस्ते हरिकेशाय नमस्ते(त) उपवीतिने ।
नमो भवस्य हेत्यै ते जगतां पतये नमः ॥ ४२॥
पुष्टानां पतये शम्भो क्षेत्राणां पतये नमः ।
पशूनां पतये तुभ्यं पथीनां पतये नमः ॥ ४३॥
आततायिन् नमस्तुभ्यं वनानां पतये नमः ।
नमस्ते रोहितायाथ वृक्षाणां पतये नमः ॥ ४४॥
नमस्ते मन्त्रिणे देव कक्षाणां पतये नमः ।
ओषधीनां च पतये नमस्तेऽस्तु भुवन्तये ॥ ४५॥
उच्चैर्घोषाय च नमः पत्तीनां पतये नमः ।
सत्वानां पतये तुभ्यं धन्वनां पतये नमः ॥ ४६॥
सहमानायं शान्ताय शम्भवे ते मयोभुवे ।
आधीनां पतये तुभ्यं व्याधीनां पतये नमः ॥ ४७॥
भिषजे भवरोगाणां प्रथमाय प्रमाथिने ।
ककुभाय नमस्तुभ्यं नमस्तेऽस्तु निषङ्गिणे ॥ ४८॥
सेनानां पतये तुभ्यं वनानां पतये नमः ।
तस्कराणां च पतये नमस्तुभ्यं पिनाकिने ॥ ४९॥
वञ्चते भक्तिहीनानां नमस्ते परिवञ्चते ।
स्थायूनां पतये तुभ्यं नमस्तेऽस्तु निचेरवे ॥ ५०॥
अरण्यानां च पतये नम उष्णीषिणे विभो ।
धावते भ्रमते देव आसीनाय स्थिताय ते ॥ ५१॥
शयानाय सुषुप्ताय जाग्रते ते नमो नमः ।
नमः सोमाय शान्ताय भीमायाथ भवाय च ॥ ५२॥
ताम्राय अरुणायाथ शिवाय च नमोनमः ।
उग्राय शङ्करायाथ शम्भवे ते नमो नमः ॥ ५३॥
शर्वाय सर्वरूपाय नमः सर्वगताय च ।
आवयोः पतये चैव जगतां पतये नमः ॥ ५४॥
॥ इति शिवरहस्यान्तर्गते ब्रह्माविष्णूप्रोक्ता महेश्वरस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ४१ लिङ्गोद्भवः । २७.२-५४॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 41 li~NgodbhavaH . 27.2-54..
Notes:
Brahmā ब्रह्मा and Viṣṇu विष्णु eulogize Maheśvara महेश्वर as they are awed by the appearance of Śiva शिव in form of the Jvālāliṅga ज्वालालिङ्ग whose beginning and end they had not been able to detect.
Proofread by Ruma Dewan