ब्रह्माविष्ण्वादिदेवैः कृता १ शिवस्तुतिः

ब्रह्माविष्ण्वादिदेवैः कृता १ शिवस्तुतिः

(शिवरहस्यान्तर्गते ईश्वराख्ये) ईश्वर उवाच । ततो ब्रह्ममुखा देवा बिल्वाद्यास्त्रिपुरार्दिताः । मामेव शरणं प्राप्ता मम कैलासभूधरे ॥ १॥ शतं वर्षाणि ते देवास्तप्यन्ति परमं तपः । मद्दर्शनार्थमगजे भस्मरुद्राक्षधारणाः ॥ २॥ मम लिङ्गार्चनव्यग्रा रुद्रपञ्चाक्षरादराः । ब्रह्मा ब्रह्मेश्वरे लिङ्गे विष्णुर्विष्ण्वीश्वरे तथा ॥ ३॥ इन्द्रश्चेन्द्रेश्वरे देवि चन्द्रश्चन्द्रेश्वराभिधे । सूर्यः सूर्येश्वरे देवि वरुणो वरुणेश्वरे ॥ ४॥ वस्वीश्वरेऽथ वसवो मरुतो मारुतेश्वरे अग्निरग्नीश्वरेऽथ तत्र यमश्चापि यमेश्वरे ॥ ५॥ नैरृतेशे निरृतिश्च ईशानो हीश्वरेश्वरे । अश्वीश्वरे ह्यश्विनौ तौ पितरः पैतृकेश्वरे ॥ ६॥ ऋक्षेश्वरे च ऋभवो रुद्रा रुद्रेश्वरे तथा । मुनीश्वरेऽथमुनयो विश्वेदेवेश्वरे सुराः ॥ ७॥ मत्कैलासे प्रतिष्ठाप्य लिङ्गान्येतानि शङ्करि । मणिसद्मागतान्येव कृत्वा पाशुपतं व्रतम् ॥ ८॥ अग्निरित्यादिभिर्मन्त्रैर्धूलिताङ्गास्तदा सुराः । रुद्राक्षहारवलया रुद्रपञ्चाक्षरादराः ॥ ९॥ ब्रह्मविष्ण्वादयो देवाः पूजयन्ति च मां सदा । पञ्चामृतैर्गन्धधूपपुष्पैर्नैवेद्यकल्पनैः ॥ १०॥ बिल्वपत्रार्चनैश्चैव लिङ्गान्यभ्यर्च्य भक्तितः । स्तुवन्ति स्तुतिभिर्देवि तां स्तुतिं मे निशामय ॥ ११॥ ब्रह्मोवाच । भवभूतपते पिनाकपाणे त्रिपुरग्रस्तमिदं हि नाकिजालम् । गरभक्षातुलचारुनेत्र दृष्ट्वा अभिरक्षाद्य पदं तव प्रपद्ये ॥ १२॥ विष्णुरुवाच । मदनार्दन गाङ्गसत्कपर्द शम्भो दुरितं मे शमयाशु चारुदृष्ट्या । परिहर भयमेतदुग्रदैत्या- द्भयमद्य त्वमहो भवैकवैद्यः ॥ १३॥ इन्द्र उवाच । त्र्यक्षाक्षय्यफलप्रदाव्यय गरीभूतोरुकण्ठोज्ज्वल रक्षास्माञ्छरणागतान् करुणया दैत्यान् प्रहृत्यादरात् । त्वत्पादाम्बुरुहं प्रयामि शरणं भस्मत्रिपुण्ड्रोज्ज्वलो नान्या मेऽस्ति गतिस्त्वमेव भगवन् रुद्रश्रुतौ विश्रुतः ॥ १४॥ चन्द्र उवाच । सोमोत्तंस गजच्छदोत्तम वसामेशान शम्भो प्रभो दिग्वासा वस में हृदम्बुजवरे वासीकृताङ्गाखिल । दक्षोद्वृत्तसवप्रमर्दनकर हे वासवाद्यर्चित पाह्यस्मान् दयया सदैव करुणासिन्धोऽद्य बन्धं हर ॥ १५॥ सूर्य उवाच । पतङ्गनयन प्रभो वरकुरङ्गहस्ताम्बुज वराङ्गधृतगाङ्गसद्वरतरङ्गमालाधर । हरामरवरोत्तम प्रबलपापतापं हर स्मराङ्गदमन प्रभो त्रिपुरदैत्यभीतिं हर ॥ १६॥ वसव ऊचुः । असुभिर्वसवो विहीनभासः स्मरवैरिन् अधुना मुखस्मितं ते । सुदृशाऽऽलोक्य महेश दुर्दशां नः परिहार्यैव हराव सर्वदा नः ॥ १७॥ मरुतः ऊचुः । रक्षास्मान् भगवन्नधोक्षजविधिप्रेक्षातिदूराङ्घ्रिक पाहीन्दुद्युतिमौलिधारितमहागङ्गातरङ्गोज्जवल । कामाङ्गाहृतिभीतिदां तव दृशं दैत्येषु सम्पातय ॥ १८॥ अग्निरुवाच । श्रीभालानललोचनान्तकहर व्योमावकाश प्रभो देवानामवनाय चारुसुदृशाऽपाङ्गेन संवीक्षय । उद्वृत्तासुरहृत्त्वदीयकरगशूलानलोत्पाटितं तद्दैत्यप्रवरोरुसत्पुरवरप्राकारभङ्गं कुरु ॥ १९॥ यम उवाच । श्री वामदेव जितकाम ललामसोम भीमाव्ययेश मखशासन व्योमकेश । व्योमोत्तमाङ्ग वरसाम समस्त सीम- भूमा त्वमेव भगवन्नव मां सदैव ॥ २०॥ निरृतिरुवाच । देवेन्दुचूड भगवन्नमरारिपीडां भूर्यद्य तामगवरात्मसुताङ्गभाग । संवारयाशु नितरामरविन्दनेत्र- पूज्याब्जपाद सहसा नमसा प्रपद्ये ॥ २१॥ ईशान उवाच । शम्भो शङ्कर शान्त खण्डपरशो देवेश विश्वार्तिहन् उग्रामेय भवोद्भव त्रिणयन मामद्य पाहि प्रभो । अस्मान् रक्ष सदैव सौम्यकरुणासारेक्षणोद्वीक्षणात् रुद्रान् रुग्विनिवारकाशु भगवन्नस्तेन शस्तं नमः ॥ २२॥ (रुद्रान् रुग्विनिवारकाशु भगवन्नस्ते नमस्ते नमः) ॥ २२॥ अश्विनावूचतुः । शम्भो त्वं भवभेषजो भसितयुग् भूषाहि शैवोज्ज्वलः निःशेषं वरपातकं हर हर श्रीसाम्ब रक्षाद्य नौ । दैत्योद्वृत्तभयं हरापहर वै श्रीकण्ठ शम्भोऽधुना वैकुण्ठार्चितपादपङ्कज हरामेय प्रभो शङ्कर ॥ २३॥ ऋभव ऊचुः । मातङ्गानङ्गभङ्गत्रिपुरदनुजजोद्भूतभीतिं हराशु चन्द्रासार किरीटशोभित कराधारैकशूल प्रभो । बन्धं नो हर साम्ब संसृतिभवं पापौघतापं हर त्र्यक्षाक्षय्यगतिप्रदानकुशलेनाक्ष्णा विलोक्याशु नः ॥ २४॥ पितर ऊचुः । हे सोमधामशकलाकलितोत्तमाङ्ग गङ्गातरङ्गसुजटाभरसङ्ग शङ्ग । पाह्यस्मदुत्स्मयगतं ज्वरगर्वरूपं दैत्याधमोरुजनितं भयनाशहेतो ॥ २५॥ (दैत्याधमोरुजमहाभयनाशहेतो) ॥ २५॥ विश्वेदेवा ऊचुः । अन्नानां पतिरेक एव भगवान् रुद्रो वरो द्रापधृक् (द्रापः जटाः) । कद्रुद्रः श्रुतिशेखराङ्कितपदा दैत्यापदुध्वंसकृत् । पापं नो विनिवारयाशु भगवन् भूम्ने च धाम्ने नमः सर्वाम्नायकसीम्नि विश्रुतपदं तत्ते प्रपद्यामहे ॥ २६॥ मातर ऊचुः । देवामरोत्तम गरादिधरान्तकारे पाहीक्षणेन क्षणमद्रिसुतासहाय । वाहीकृतोक्ष भुजगेशमहोरुहार पारं भवाद्य सुरतारुजसिन्धुतार ॥ २७॥ - - स्कन्द उवाच । इत्थं देवैः स्तुतः शम्भुस्त्रिपुरासुरपीडितैः । चन्द्रमौलिर्महादेवस्तेषां काममपूरयत् ॥ २८॥ गिरिजाजानिरीशोऽयं वलक्षोक्षपराश्रयः । त्र्यक्षो भगाक्षिमथनः प्रत्यथं (त्रिदशैः) समदृश्यत ॥ २९॥ बालेन्दुगङ्गाविधृतजटामौलिः सुरारिहा । गणवृन्दवृतस्तेषां उग्रोऽग्रे समदृश्यत ॥ ३०॥ सूतः - दृष्ट्वा ते सुरपुङ्गवा इति धृतैः स्वैः पद्मसज्जैः करैः देवं चारुशशाङ्क सुन्दरजटोदग्रं प्रसन्नाननम् । सन्नास्ते त्रिपुरैः विदारितपदक्षुण्णं ततो मेनिरे शम्भुं तद्भयमोचनेऽभ्युपगतं प्राहुः स्वकीर्तिं सुराः ॥ ३१॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माविष्ण्वादिदेवैः कृता शिवस्तुतिः १ सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः १८ । १-३१॥ - .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 18 . 1-31.. Notes: Brahmā ब्रह्मा, Viṣṇu विष्णु, Indra इन्द्र et al Deva-s देवाः; who are distressed due to the atrocities caused by Tripurāsura त्रिपुरासुर, eulogize Śiva शिव and pray to Him seeking relief. They do so while individually worshiping the respective Śivaliṅga शिवलिङ्ग that they establish in the Kailāsa kailAsa, each known in accordance with their own names viz. Brahmā ब्रह्मा - Brahmeshvara ब्रह्मेश्वर, Viṣṇu विष्णु - Viṣṇavīśvara विष्णवीश्वर, Indraḥ इन्द्रः - Indreśvara इन्द्रेश्वर, Candraḥ चन्द्रः - Candreśvara चन्द्रेश्वर, Sūryaḥ सूर्यः - Sūryeśvara सूर्येश्वर, Varuṇaḥ वरुणः Varuṇeśvara वरुणेश्वर, Vasavaḥ वसवः - Vasavīśvara वसवीश्वर, Marutaḥ मरुतः - Māruteśvara मारुतेश्वर, Agniḥ अग्निः - Agnīśvara अग्नीश्वर, Yamaḥ यमः - Yameśvara यमेश्वर, Nirṛtiḥ निरृतिः - Nairṛteśa नैरृतेश, Īśānaḥ ईशानः - Iśvareśvara इश्वरेश्वर, Aśvinau अश्विनौ - Aśvīśvara अश्वीश्वर, Pitaraḥ पितरः - Paitṛkeśvara पैतृकेश्वर, Ṛbhavaḥ ऋभवः - Ṛkṣeśvara ऋक्षेश्वर, Rudrāḥ रुद्राः - Rudreśvara रुद्रेश्वर, Munayaḥ मुनयः - Munīśvara मुनीश्वर, Surāḥ सुराः - Viśvadeveśvara विश्वदेवेश्वर. Skanda स्कन्द and Sūta सूत describe the appearance of Śiva शिव at the scene. Proofread by Ruma Dewan
% Text title            : Brahmavishnvadidevaih Krita Shiva Stuti 1
% File name             : brahmAviShNvAdidevaiHkRRitAshivastutiH1.itx
% itxtitle              : shivastutiH (brahmAviShNvAdidevaiH kRitA 1 shivarahasyAntargatA)
% engtitle              : brahmAviShNvAdidevaiH kRitA 1 shivastutiH
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshvarAkhyaH dashamAMshaH | adhyAyaH 18 | 1-31||
% Indexextra            : (Scan)
% Latest update         : September 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org