ब्रह्मणा कृतं २ शिवस्तोत्रम्
ततः प्रणम्य सुचिरं साधु साध्वित्युदीर्य च ।
भक्तिनम्रो महादेवं पद्मजः स्तोत्रमीरयत् ॥ ११॥
ब्रह्मोवाच ।
ॐ नमस्ते देवाधिदेव वासुदेव एकश्रृङ्ग बहुरूप वृषाकपे
भूतभावनसुरासुरवृष सुरासुरमथन पीतवासःश्रीनिवास
असुरनिर्मितान्त अमितनिर्मितकपिल महाकपिल विष्वक्सेन नारायण ।
(५)ध्रुवध्वज सत्यध्वज खड्गध्वज तालध्वजवैकुण्ठ पुरुषोत्तम
वरेण्य विष्णो अपराजितजय जयन्त विजय कृतावर्त महादेवानादे
अनन्त आद्यान्तमध्यनिधनपुरञ्जय धनञ्जय शुचिश्रव पृश्निगर्भ ।
(१०)कमलगर्भ कमलायताक्ष श्रीपते विष्णुमूलमूलाधिवास धर्माधिवास
धर्मवासधर्माध्यक्ष प्रजाध्यक्ष गदाधरश्रीधर श्रुतिधर
वनमालाधरलक्ष्मीधर धरणीधर पद्भनाम ।
(१५)विरिञ्चे आर्ष्टिषेण महासेन सेनाध्यक्षपुरुष्टुत बहुकल्प
महाकल्पकल्पनामुख अनिरुद्ध सर्वग सर्वात्मन्द्वादशात्मक सूर्यात्मक
सोमात्मककालात्मक व्योमात्मक भूतात्मक ।
(२०)रसात्मक परमात्मन् सनातन मुञ्जकेश हरिकेश गुडाकेश केशवनील
सूक्ष्म स्थूल पीत रक्त श्वेत श्वेताधिवासरक्ताम्बरप्रिय प्रीतिकर
प्रीतिवास हंसनीलवास सीरध्वज सर्वलोकाधिवास ।
(२५)कुशेशय अधोक्षज गोविन्द जनार्दनमधुसूदन वामन नमस्ते ।
सहस्रशीर्षोऽसि सहस्रदृगसि सहस्रपादोऽसि त्वं कमलोऽसि
महापुरुषोऽसि सहस्रबाहुरसि सहस्रमूर्तिरसि त्वं देवाः प्राहुः
सहस्रवदनमं ते नमस्ते । (३०)ॐ नमस्ते विश्वदेवेश विश्वभुवे
विश्वात्मक विश्वरूप विश्वसम्भव
त्वत्तो विश्वामिदमभवत्।ब्राह्मणास्त्वन्मुखेभ्योऽभवन्,
क्षत्रिया दोःसम्भूताः, ऊरुयुग्माद्विशोऽभवन्,
शूद्राश्चरणकमलेभ्यः ।
(३५)
नाभ्या भवतोऽन्तरिक्षमजायत इन्द्राग्नीवक्त्रतोनेत्राद्भानुरभून्मनसः
शशाङ्कः अहं प्रसादजस्तवक्रोधात् त्र्यम्बकः
प्राणाज्जातो भवतो मातरिश्वाशिरसो द्यौरजायत श्रोत्राद्दिशो
भूरियं चरणादभूत्श्रोत्रोद्भवा दिशो भवतः
स्वयम्भो नक्षत्रास्तेजोद्भवाः ।
(४०)मूर्त्तयश्चामूर्तयश्च सर्वे त्वत्तः समुद्भूताः ।
अतो विश्वात्मकोऽसि ॐ नमस्ते पुष्पहासोऽसि महाहासोऽसि परमोऽसि ओङ्कारोऽसि
वषट्कारोऽसि स्वाहाकारोऽसि वौषट्कारोऽसि स्वधाकारोऽसि वेदमयोऽसि
तीर्थमयोऽसि यजमानमयोऽसि ।
(४५)
यज्ञमयोऽसि सर्वधाताऽसि यज्ञभोक्ताऽसि शुक्रधाताऽसि भूर्द भुवर्द
स्वर्द स्वर्णद गोदामृतदोऽसीति ।
ॐ ब्रह्मादिरसि ब्रह्ममयोऽसि यज्ञोऽसि वेदकामोऽसि वेद्योऽसि
यज्ञधारोऽसि महामीनोऽसि महासेनोऽसि महाशिरा असि ।
(५०)नृकेसर्यसि होताऽसि होम्योऽसि हव्योऽसि हूयमानोऽसि हयमेधोऽसि
पोताऽसि पावयिताऽसि पूतोऽसि पूज्योऽसि दाताऽसि हन्यमानोऽसि
ह्रियमाणोऽसि हर्त्तासीति ॐ ।
नीतिरसि नेताऽसि अग्र्योऽसि विश्वधामाऽसि
शुभाण्डोऽसि ध्रुवोऽसि आरणेयोऽसि ।
(५५)ध्यानोऽसि ध्येयोऽसि ज्ञेयोऽसि ज्ञानोऽसि ज्ञानोऽसि
यष्टाऽसि दानोऽसि भूमाऽसि ईक्ष्योऽसि ब्रह्माऽसि
होताऽसि उद्गाताऽसि गतिमतां गतिरसि ज्ञानिनां ज्ञानमसि योगिनां योगोऽसि
मोक्षगामिनां मोक्षोऽसि श्रीमतां श्रीरसि गृह्योऽसि पाताऽसि परमसि ।
(६०)सोमोऽसि सूर्योऽसि दीक्षाऽसि दक्षिणाऽसि नरोऽसि त्रिनयनोऽसि
महानयनोऽसि आदित्यप्रभवोऽसि सुरोत्तमोऽसि शुचिरसि शुक्रोऽसि
नभोऽसि नभस्योऽसि इषोऽसि ऊर्जोऽसि सहोऽसि सहस्योऽसि तपोऽसि
तपस्योऽसि मधुरसि ।
(६५)माधवोऽसि कालोऽसि सङ्क्रमोऽसि विक्रमोऽसि पराक्रमोऽसि अश्वग्रीवोऽसि
महामेधोऽसि शङ्करोऽसि हरीश्वोरोऽसि शम्भुरसि ब्रह्मेशोऽसि सूर्योऽसि
मित्रावरुणोऽसि प्राग्वंशकायोऽसि भूतादिरसि महाभूतोऽसि
ऊर्ध्वकर्माऽसि कर्त्ताऽसि ।
(७०)सर्वपापविमोचनोऽसि त्रिविक्रमोऽसि ॐ नमस्ते
पुलस्त्य उवाच ।
इत्थं स्तुतः पद्मभवेन विष्णुस्तपस्विभिश्चाद्भुतकार्मकारी ।
प्रोवाच देवं प्रपितामहं तु वरं वृणीष्वामलसत्त्ववृत्ते ॥ १२॥
इति वामनपुराणे त्रिनवतितमाध्यायान्तर्गतं
ब्रह्मणा कृतं विष्णुस्तोत्रं समाप्तम् ।
वामनपुराण । अध्याय ९३/१२॥
vAmanapurANa . adhyAya 93/12..
Proofread by PSA Easwaran