ब्रह्मणा कृतं ५ शिवस्तोत्रम्
ब्रह्मोवाच ।
पुराणैः सामसङ्गीतैः पुण्याख्यैर्गुह्यनामभिः ।
अजस्त्वमजरो देवः स्रष्टा विभुः परापरम् ॥ ३९॥
प्रधानं पुरुषो यस्त्वं ब्रह्म ध्येयं तदक्षरम् ।
अमृतं परमात्मा च ईश्वरः कारणं महत् ॥ ४०॥
ब्रह्मसृक् प्रकृतेः स्रष्टा सर्वकृत्प्रकृतेः परः ।
इयञ्च प्रकृतिर्देवी सदा ते सृष्टिकारणम् ॥ ४१॥
पत्नीरूपं समास्थाय जगत्कारणमागता ।
नमस्तुभ्यं महादेव देव्या वै सहिताय च ॥ ४२॥
प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ।
देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमायया ॥ ४३॥
कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे ।
तत एवमहं विप्रा विज्ञाप्य परमेश्वरम् ॥ ४४॥
स्तम्भितान् सर्वदेवांस्तानिदं चाहं तदोक्तवान् ।
मूढाश्च देवताः सर्वा नैनं बुध्यत शङ्करम् ॥ ४५॥
गच्छध्वं शरणं शीघ्रमेनमेव महेश्वरम् ।
सार्धं मयैव देवेशं परमात्मानमव्ययम् ॥ ४६॥
ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः ।
प्रणेमुर्मनसा सर्वं भावशुद्धेन चेतसा ॥ ४७॥
अथ तेषां प्रसन्नोऽभूद्देवदेवो महेश्वरः ।
यथापूर्वं चकाराऽऽशु देवतानां तनुस्तदा ॥ ४८॥
इति ब्रह्मपुराणे षट्त्रिंशाध्यायान्तर्गतं
ब्रह्मणा कृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ३६/३९-४३७॥
brahmapurANa . adhyAya 36/39-437..
Proofread by PSA Easwaran