ब्रह्मणा कृतं ६ शिवस्तोत्रम्
ब्रह्मोवाच ।
सम्मन्त्र्य देवैरर्सुरैश्च सर्वैर्यदाऽऽहृतं सम्मथितुं समुद्रम् ।
यत्कालकूटं समभून्महेश तत्त्वां विना को ग्रसितुं समर्थः ॥ ४॥
पुष्पप्रहारेण जगत्त्रयं यः स्वाधीनमापादियितुं समर्थः ।
मारो हरेऽप्यन्यसुरादिवन्द्यो वितायमानो विलयं प्रयातः ॥ ५॥
विमथ्य वारीशमनङ्गशत्रो यदुत्तमं तत्तु दिवौकसेभ्यः ।
दत्त्वा विषं संहरन्नीलकण्ठ को वा धर्तुं त्वामृते वै समर्थः ॥ ६॥
ततश्च तुष्टो भगवानादिकर्ता त्रिलोचनः ॥ ७॥
इति ब्रह्मपुराणे द्वादशाधिकशततमाध्यायान्तर्गतं
ब्रह्मणा कृतं शिवस्तोत्रं समप्तम् ।
ब्रह्मपुराण । अध्याय ११२/४-६॥
brahmapurANa . adhyAya 112/4-6..
Proofread by PSA Easwaran