ब्रह्मणा कृतं ७ शिवस्तोत्रम्
शुद्धस्फटिकसङ्काशं सर्वाभरणभूषितम् ।
अथ तं मनसा ध्यात्वा युक्तात्मा वै पितामहः ॥ ५॥
ववन्दे देवमीशानं सर्वेशं सर्वगं प्रभुम् ।
ब्रह्मोवाच ।
ओमीशान नमस्तेऽस्तु महादेव नमोऽस्तु ते ॥ ६॥
नमोऽस्तु सर्वविद्यानामीशान परमेश्वर ।
नमोऽस्तु सर्वभूतानामीशान वृषवाहन ॥ ७॥
ब्रह्मणोऽधिपते तुभ्यं ब्रह्मणे ब्रह्मरूपिणे ।
नमो ब्रह्माधिपतये शिवं मेऽस्तु सदाशिव ॥ ८॥
ॐ कारमूर्ते देवेश सद्योजात नमो नमः ।
प्रपद्ये त्वां प्रपन्नोऽस्मि सद्योजाताय वै नमः ॥ ९॥
अभवे च भवे तुभ्यं तथा नातिभवे नमः ।
भवोद्भव भवेशान मां भजस्व महाद्युते ॥ १०॥
वामदेव नमस्तुभ्यं ज्येष्ठाय वरदाय च ।
नमो रुद्राय कालाय कलनाय नमो नमः ॥ ११॥
नमो विकरणायैव कालवर्णाय वर्णिने ।
बलाय बलिनां नित्यं सदा विकरणाय ते ॥ १२॥
बलप्रमथनायैव बलिने ब्रह्मरूपिणे ।
सर्वभूतेश्वरेशाय भूतानां दमनाय च ॥ १३॥
मनोन्मनाय देवाय नमस्तुभ्यं महाद्युते ।
वामदेवाय वामाय नमस्तुभ्यं महात्मने ॥ १४॥
ज्येष्ठाय चैव श्रेष्ठाय रुद्राय वरदाय च ।
कालहन्त्रे नमस्तुभ्यं नमस्तुभ्यं महात्मने ॥ १५॥
इति स्तवेन देवेशं ननाम वृषभध्वजम् ।
यः पठेत् सकृदेवेह ब्रह्मलोकं गमिष्यति ॥ १६॥
श्रावयेद्वा द्विजान् श्राद्धे स याति परमां गतिम् ।
इति श्रीलिङ्गमहापुराणे पूर्वभागे षोडशाध्यायान्तर्गतं
ब्रह्मणा कृतं शिवस्तोत्रं समाप्तम् ।
लिङ्गपुराण । पूर्वभाग । अध्याय १६/६-१५॥
lingapurANa . pUrvabhAga . adhyAya 16/6-15..
Proofread by PSA Easwaran