ब्रह्मणा कृतं ८ शिवस्तोत्रम्
स बुद्ध्वा देवमीशानं शीघ्रमुत्थाय विस्मितः ।
ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः ॥ ४२॥
पितामह उवाच ।
बुद्धिस्त्वं सर्वलोकानामहङ्कारस्त्वमीश्वरः ।
भूतानामिन्द्रियाणां च त्वमेवेश प्रवर्त्तकः ॥ ४३॥
तवाहं दक्षिणाद्धस्तात्सृष्टः पूर्वं पुरातनः ।
वामहस्तान्महाबाहो देवो नारायणः प्रभुः ॥ ४४॥
इयं च प्रकृतिर्देवी सदा ते सृष्टिकारण ।
पत्नीरूपं समास्थाय जगत्कारणमागता ॥ ४५॥
नमस्तुभ्यं महादेव महादेव्यै नमो नमः ।
प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ॥ ४६॥
देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमोहिताः ।
कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे ॥ ४७॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे द्व्यधिकशततमाध्यायान्तर्गतं
पितामहकृतं शिवस्तोत्रं समाप्तम् ।
लिङ्गपुराण । पूर्वभाग । अध्याय १०२/४२-४७॥
lingapurANa . pUrvabhAga . adhyAya 102/42-47..
Proofread by PSA Easwaran