ब्रह्मणा कृतं अर्धनारीश्वरस्तोत्रम् ५
ब्रह्मोवाच ।
जय देव महादेव जयेश्वर महेश्वर ।
जय सर्वगुणश्रेष्ठ जय सर्वसुराधिप ॥ १६॥
जय प्रकृति कल्याणि जय प्रकृतिनायिके ।
जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ १७॥
जयामोघमहामाय जयामोघ मनोरथ ।
जयामोघमहालील जयामोघमहाबल ॥ १८॥
जय विश्वजगन्मातर्जय विश्वजगन्मये ।
जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ १९॥
जय शाश्वतिकैश्वर्य जय शाश्वतिकालय ।
जय शाश्वतिकाकार जय शाश्वतिकानुग ॥ २०॥
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ।
जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ २१॥
जयावलोकनायत्तजगत्कारणबृंहण ।
जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥ २२॥
जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ।
जय स्थूलात्मशक्त्येशे जय व्याप्तचराचरे ॥ २३॥
जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ।
जयासुरशिरोनिष्ठ श्रेष्ठानुगकदम्बक ॥ २४॥
जयोपाश्रितसंरक्षासंविधानपटीयसि ।
जयोन्मूलितसंसारविषवृक्षाङ्कुरोद्गमे ॥ २५॥
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृम्भण ।
जय विश्वबहिर्भूत निरस्तपरवैभव ॥ २६॥
जय प्रणीतपञ्चार्थप्रयोगपरमामृत ।
जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणि ॥ २७॥
जयतु घोरसंसारमहारोगभिषग्वर ।
जयानादिमलाज्ञानतमःपटलचन्द्रिके ॥ २८॥
जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ।
जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ २९॥
जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ।
जय प्रचुरदिव्याङ्ग जय प्रार्थितदायिनि ॥ ३०॥
क्व देव ते परं धाम क्व च तुच्छं च नो वचः ।
तथापि भगवन् भक्त्या प्रलपन्तं क्षमस्व माम् ॥ ३१॥
विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ।
नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ ३२॥
इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ।
अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ ३३॥
य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ।
स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ ३४॥
सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ।
नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोऽस्मि शङ्कराभ्याम् ॥ ३५॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे
पञ्चदशाध्यायान्तर्गतं ब्रह्मणा कृतं अर्धनारीश्वरस्तोत्रम् ।
शिवपुराण । वायवीयसंहिता । पूर्वभाग १ । अध्याय १५/१६-३५॥
shivapurANa . vAyavIyasaMhitA . pUrvabhAga 1 . adhyAya 15/16-35..
Proofread by PSA Easwaran