ब्रह्मदेवप्रोक्तं शिवस्तोत्रम्
सनत्कुमार उवाच ।
कथं भवप्रसादेन देवदारुवनौकसः ।
प्रपन्नाः शरणं देवं वक्तुमर्हसि मे प्रभो ॥ १॥
शैलादिरुवाच ।
तानुवाच महाभागान्भगवानात्मभूः स्वयम् ।
देवदारुवनस्थांस्तु तपसान् पावकप्रभान् ॥ २॥
पितामह उवाच ।
एष देवो महादेवो विज्ञेयस्तु महेश्वरः ।
न तस्मात्परमं किञ्चित्पदं समधिगम्यते ॥ ३॥
देवानां च ऋषीणां च पितॄणां चैव स प्रभुः ।
सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनः ॥ ४॥
संहरत्येष भगवान् कालो भूत्वा महेश्वरः ।
एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा ॥ ५॥
एष चक्री च वज्री च श्रीवत्सकृतलक्षणः ।
योगी कृतयुगे चैव त्रेतायां क्रतुरुच्यते ॥ ६॥
द्वापरे चैव कालाग्निर्धमकेतुः कलौ स्मृतः ।
रुद्रस्य मूर्तयस्त्वेता येऽभिध्यायन्ति पण्डिताः ॥ ७॥
चतुरस्रं बहिश्चान्तरष्टास्रं पिण्डिकाश्रये ।
वृत्तं सुदर्शनं योग्यमेवं लिङ्गं प्रपूजयेत् ॥ ८॥
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुः प्रकाशकम् ।
मूर्तिरेका स्थिता चास्य मूर्तयः परिकीर्तिताः ॥ ९॥
यत्र तिष्ठति तद्ब्रह्म योगेन तु समन्वितम् ।
तस्माद्धि देवदेवेशमीशानं प्रभुमव्ययम् ॥ १०॥
आराधयन्ति विप्रेन्द्रा जितक्रोधा जितोन्द्रियाः ।
लिङ्गं कृत्वा यथान्यायं सर्वलक्षणसंयुतम् ॥ ११॥
अङ्गुष्ठमात्रं सुशुभं सुवृत्तं सर्वसम्मतम् ।
समनाभं तथाष्टास्रं षोडशास्रमथापि वा ॥ १२॥
सुवृत्तं मण्डलं दिव्यं सर्वकामफलप्रदम् ।
वेदिका द्विगुणा तस्य समा वा सर्वसम्मता ॥ १३॥
गोमुखी च त्रिभागैका वेद्या लक्षणसयुता ।
पट्टिका च समन्ताद्वै यवमात्रा द्विजोत्तमाः ॥ १४॥
सौवर्णं राजतं शैलं कृत्वा ताम्रमयं तथा ।
वेदिकायाश्च विस्तारं त्रिगुणं वै समन्ततः ॥ १५॥
वर्तुलं चतुरस्रं वा षडस्रं वा त्रिरस्रकम् ।
समन्तान्निर्व्रणं शुभ्रं लक्षणैस्तत्सुलक्षितम् ॥ १६॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे एकत्रिंशाध्यायान्तर्गतं
ब्रह्मदेवप्रोक्तं शिवस्तोत्रं समाप्तम् ।
लिङ्गपुराण । पूर्वभाग । अध्याय ३२/१-१६॥
lingapurANa . pUrvabhAga . adhyAya 32/1-16..
Proofread by PSA Easwaran