ब्रह्मकृतं २ शिवस्तोत्रम्
तदन्तरे शिवं देवाः सेन्द्राः सब्रह्मकाः प्रभुम् ॥ ३१॥
सम्प्राप्य तुष्टवुः सर्वं विज्ञाप्य मृगरूपिणः ।
ततो ब्रह्मादयस्तूर्णं संस्तूय परमेश्वरम् ॥ ३२॥
आत्मत्राणाय शरणं जग्मुः परमकारणम् ।
मन्दरस्थं महादेवं क्रीडमानं सहोमया ॥ ३३॥
सेवितं गणगन्धर्वैः सिद्धैरप्सरसां गणैः ।
देवताभिः सह ब्रह्मा भीतभीतः सगद्गदम् ।
प्रणम्य दण्डवद्भूमौ तुष्टाव परमेश्वरम् ॥ ३४॥
ब्रह्मोवाच ।
नमस्ते कालकालाय नमस्ते रुद्र मन्यवे ।
नमः शिवाय रुद्राय शङ्कराय शिवाय ते ॥ ३५॥
उग्रोऽसि सर्वभूतानां नियन्तासि शिवोऽसि नः ।
नमः शिवाय शर्वाय शङ्करायार्त्तिहारिणे ॥ ३६॥
मयस्कराय विश्वाय विष्णवे ब्रह्मणे नमः ।
अन्तकाय नमस्तुभ्यमुमायाः पतये नमः ॥ ३७॥
हिरण्यबाहवे साक्षाद्धिरण्यपतये नमः ।
शर्वाय सर्वरूपाय पुरुषाय नमो नमः ॥ ३८॥
सदसद्व्यक्तिहीनाय महतः कारणाय ते ।
नित्याय विश्वरूपाय जायमानाय ते नमः ॥ ३९॥
जाताय बहुधा लोके प्रभूताय नमो नमः ।
रुद्राय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥ ४०॥
कालाय कालपूपाय नमः कालाङ्गहारिणे ।
मीढुष्टमाय देवाय शितिकण्ठाय ते नमः ॥ ४१॥
महीयसे नमस्तुभ्यं हन्त्रे देवारिणां सदा ।
ताराय च सुताराय तारणाय नमो नमः ॥ ४२॥
हरिकेशाय देवाय शम्भवे परमात्मने ।
देवानां शम्भवे तुभ्यं भूतानां शम्भवे नमः ॥ ४३॥
शम्भवे हैमवत्याश्च मन्यवे रुद्ररूपिणे ।
कपर्दिने नमस्तुभ्यं कालकण्ठाय ते नमः ॥ ४४॥
हिरण्याय महेशाय श्रीकण्ठाय नमो नमः ।
भस्मदिग्धशरीराय दण्डमुण्डीश्वराय च ॥ ४५॥
नमो ह्रस्वाय दीर्घाय वामनाय नमो नमः ।
नम उग्रत्रिशूलाय उग्राय च नमो नमः ॥ ४६॥
भीमाय भीमरूपाय भीमकर्मरताय ते ।
अग्रेवधाय वै भूत्वा नमो दूरेवधाय च ॥ ४७॥
धन्विने शूलिने तुभ्यं गदिने हलिने नमः ।
चक्रिणे वर्मिणे नित्यं दैत्यानां कर्मभेदिने ॥ ४८॥
सद्याय सद्यरूपाय सद्योजाताय ते नमः ।
वामाय वामरूपाय वामनेत्राय ते नमः ॥ ४९॥
अघोररूपाय विकटाय विकटशरीराय ते नामः ।
पुरुषरूपाय पुरुषैकतत्पुरुषाय वै नमः ॥ ५०॥
पुरुषार्थप्रदानाय पतये परमेष्ठिने ।
ईशानाय नमस्तुभ्यमीश्वराय नमो नमः ॥ ५१॥
ब्रह्मणे ब्रह्मरूपाय नमः साक्षाच्छिवाय ते ।
सर्वविष्णुर्नृसिंहस्य रूपमास्थाय विश्वकृत् ॥ ५२॥
हिरण्यकशिपुं हत्वा करजैर्निशितैः स्वयम् ।
दैत्येन्द्रैर्बहुभिः सार्धं हितार्थं जगतां प्रभुः ॥ ५३॥
सैंहीं समानयन्योनिं बाधते निखिलं जगत् ।
यत्कृत्यमत्र देवेश तत्कुरुष्व भवानिह ॥ ५४॥
उग्रोऽसि सर्वदुष्टानां नियमेतासि शिवोऽसि नः ।
कालकूटादिवपुषा त्राहि नः शरणागतान् ॥ ५५॥
शुक्रं तु वृत्तं विश्वेशक्रीडा वै केवलं वयम् ।
तवोन्मेषनिमेषाभ्यामस्माकं प्रलयोदयौ ॥ ५६॥
उन्मीलये त्त्वयि ब्रह्मन्विनाशोऽस्ति न ते शिव ।
सन्तप्ताः स्मो वयं देव हरिणामिततेजसा ॥ ५७॥
सर्वलोकहितायैनं तत्त्वं संहर्त्तुमिच्छसि ।
इति श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चनवतितमाध्यायान्तर्गतं
ब्रह्मकृतं शिवस्तोत्रं समाप्तम् ।
लिङ्गपुराण । पूर्वभाग । अध्याय ९५/३४-५७॥
lingapurANa . pUrvabhAga . adhyAya 95/34-57..
Proofread by PSA Easwaran