ब्रह्मकृतं ३ शिवस्तोत्रम्
ब्रह्मोवाच ।
नमो रुद्राय शान्ताय ब्रह्मणे परमात्मने ।
त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः ॥ १६॥
नमो रुद्राय महते नीलकण्ठाय वेधसे ।
विश्वाय विश्वबीजाय जगदानन्दहेतवे ॥ १७॥
ॐ कारस्त्वं वषट्कारः सर्वारम्भप्रवर्तकः ।
यज्ञोऽसि यज्ञकर्मासि यज्ञानां च प्रवर्तकः ॥ १८॥
सर्वेषां यज्ञकर्तॄणां त्वमेव प्रतिपालकः ।
शरण्योऽसि महादेव सर्वेषां प्राणिनां प्रभो ।
रक्ष रक्ष महादेव पुत्रशोकेन पीडितम् ॥ १९॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, केदारखण्डे, पञ्चमाध्यायान्तर्गतं
ब्रह्मकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । केदारखण्ड । अध्याय ५/१६-१९॥
skandapurANa . mAheshvarakhaNDa . kedArakhaNDa . adhyAya 5/16-19..
Proofread by PSA Easwaran