ब्रह्मकृतं ४ शिवस्तोत्रम्
ब्रह्मोवाच ।
त्वं लिङ्गरूपी तु महाप्रभावो वेदान्तवेद्योऽसि महात्मरूपि ।
येनैव सर्वे जगदात्ममूलं कृतं सदानन्दपरेण नित्यम् ॥ २॥
त्वं साक्षी सर्वलोकानां हर्ता त्वं च विचक्षणः ।
रक्षणोऽसि महादेव भैरवोऽसि जगत्पते ॥ ३॥
त्वया लिङ्गस्वरूपेण व्याप्तमेतज्जगत्त्रयम् ।
क्षुद्राश्चैव वयं नाथ मायामोहितचेतसः ॥ ४॥
अहं सुराऽसुराः सर्वे यक्षगन्धर्वराक्षसाः ।
पन्नगाश्च पिशाचाश्च तथा विद्याधरा ह्यमी ॥ ५॥
त्वं हि विश्वसृजां स्रष्टा त्वं हि देवो जगत्पतिः ।
कर्ता त्वं भुवनस्यास्य त्वं हर्ता पुरुषः परः ॥ ६॥
त्राह्यस्माकं महादेव देव देव नमोऽस्तु ते । ७.१
ऋषय ऊचुः ।
अज्ञानिनो वयं कामान्न विन्दामोऽस्य संस्थितिम् ।
त्वं ह्यात्मा परमात्मा च प्रकृतिस्त्वं विभाविनी ॥ ९॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमे ।
त्वमीश्वरो वेदविदेकरूपो महानुभावैः परिचिन्त्यमानः ॥ १०॥
त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् ।
सर्वं भवति यस्मात्त्वत्तस्मात्सर्वोऽसि नित्यदा ॥ ११॥
यस्माच्च सम्भवत्येतत्तस्माच्छम्भुरिति प्रभुः ॥ १२॥
त्वत्पादपङ्कजं प्राप्ता वयं सर्वे सुरादयः ।
ऋषयो देवगन्धर्वा विद्याधरमहोरगाः ॥ १३॥
तस्माच्च कृपया शम्भो पाह्यस्माञ्जगतः पते ॥ १४॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, केदारखण्डे, सप्तमाध्यायान्तर्गतं
ब्रह्मादिकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । केदारखण्ड । अध्याय ७/२-७.१; ९-१४॥
skandapurANa . mAheshvarakhaNDa . kedArakhaNDa . adhyAya 7/2-7.1; 9-14..
Proofread by PSA Easwaran