ब्रह्मकृतं ५ शिवस्तोत्रम्
ब्रह्मोवाच ।
अथाहमुच्चरन्वेदानशेषैर्वदनैः शिवम् ।
अस्तौषं भक्तिसम्पूर्णं कृत्वा मानसमर्चनम् ॥ १॥
नमः शिवाय महते सर्वलोकैकहेतवे ।
येन प्रकाश्यते सर्वं ध्रियते सततं नमः ॥ २॥
विश्वव्याप्तमिदं तेजः प्रकाशयति सन्ततम् ।
नेक्षन्ते त्वद्दयाहीना जात्यन्धा भास्करं यथा ॥ ३॥
भूलिङ्गममलं ह्येतद्दृश्यमध्यात्मचक्षुषा ।
अन्तस्स्थं वा बहिस्स्थं वा त्वद्भक्तैरनुभूयते ॥ ४॥
अपरिच्छेद्यमाकारमन्तरात्मनि योगिनः ।
तदेतत्तव देवेश ज्वलितं दर्पणो यथा ॥ ५॥
अथवा शाङ्करी शक्तिः सत्याऽणोरप्यणीयसी ।
मत्तो नान्यतरः कश्चिद्यन्मय्यपि विलीयते ॥ ६॥
अणुस्ते करुणापात्रं महत्त्वं ध्रुवमश्नुते ।
नाधिकोऽस्ति परस्त्वत्तो न मत्तोऽपि तदाश्रयात् ॥ ७॥
त्वय्यर्पितं मनस्त्वतो न वियोगमपेक्षते ।
वाचः कथं प्रवृत्तिः स्यात्तव वैभवकीर्त्तने ॥ ६॥
स्वयमीश महादेव प्रसीद भुवनाधिक ।
आदिश प्रयतं भक्तमपेक्षितनियुक्तिषु ॥ ९॥
इदं विज्ञाप्य विनयान्नमस्कृत्वा पुनःपुनः ।
प्राञ्जलिर्देवदेवेशं न्यषीदं सविधे विभो ॥ ३.१.२.१०॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, अरुणाचलमाहात्म्ये, पूर्वार्धे,
द्वितीयाध्यायान्तर्गतं ब्रह्मकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । अरुणाखण्ड । पूर्वखण्ड । अध्याय २/१-१०॥
skandapurANa . mAheshvarakhaNDa . aruNAkhaNDa . pUrvakhaNDa . adhyAya 2/1-10..
Proofread by PSA Easwaran