ब्रह्मकृतं ७ शिवस्तोत्रम्

ब्रह्मकृतं ७ शिवस्तोत्रम्

ब्रह्मोवाच । (बुधेश्वर लिङ्ग, ओङ्कारेश्वर लिङ्ग) नम ओङ्काररूपाय नमोऽक्षरवपुर्धृते । नमोऽकारादिवर्णानां प्रभवाय सदाशिव ॥ १०१॥ अकारस्त्वमुकारस्त्वं मकारस्त्वमनाकृते । ऋग्यजुः सामरूपाय रूपातीताय ते नमः ॥ १०२॥ नमो नादात्मने तुभ्यं नमो बिन्दुकलात्मने । अलिङ्गलिङ्गरूपाय सर्वरूपस्वरूपिणे ॥ १०३॥ नमस्ते धामनिधये निधनादिविवर्जित । नमो भवाय रुद्राय शर्वाय च नमोऽस्तुते ॥ १०४॥ नम उग्राय भीमाय पशूनां पतये नमः । नमस्तारस्वरूपाय सम्भवाय नमोऽस्तु ते ॥ १०५॥ अमायाय नमस्तुभ्यं नमः शिवतराय ते । कपर्दिने नमस्तुभ्यं शितिकण्ठ नमोऽस्तु ते ॥ १०६॥ मीढुष्टमाय गिरिश शिपिविष्टाय ते नमः । नमोऽह्रस्वाय खर्वाय बृहते वृद्धरूपिणे ॥ १०७॥ कुमारगुरवे तुभ्यं कुमारवपुषे नमः । नमः श्वेताय कृष्णाय पीतायारुणमूर्तये ॥ १०८॥ धूम्रवर्णाय पिङ्गाय नमः किर्मीरवर्चसे । नमः पाटलवर्णाय नमो हरिततेजसे ॥ १०९॥ नानावर्णस्वरूपाय वर्णानां पतये नमः । नमस्ते स्वररूपाय नमो व्यञ्जनरूपिणे ॥ २.७३.११०॥ उदात्तायानुदात्ताय स्वरिताय नमो नमः । ह्रस्वदीर्घप्लुतेशाय सविसर्गाय ते नमः ॥ १११॥ अनुस्वारस्वरूपाय नमस्ते सानुनासिक । नमो निरनुनासाय दन्त्यतालव्यरूपिणे ॥ ११२॥ ओष्ठ्योरस्यस्वरूपाय नम ऊष्मस्वरूपिणे । अन्तस्थाय नमस्तुभ्यं पञ्चमाय पिनाकिने ॥ ११३॥ निषादाय नमस्तुभ्यं निषादपतये नमः । वीणावेणुमृदङ्गादि वाद्यरूपाय ते नमः ॥ ११४॥ नमस्ताराय मन्द्राय घोरायाघोरमूर्तये । नमस्तानस्वरूपाय मूर्च्छनापतये नमः ॥ ११५॥ स्थायिसञ्चारिभेदेन नमो भावस्वरूपिणे । तालप्रियाय तालाय लास्यताण्डवजन्मने ॥ ११६॥ तौर्यत्रिकस्वरूपाय तौर्यत्रिकमहाप्रिय । तौर्यत्रिककृतां भक्त्या निर्वाणश्रीप्रदायक ॥ ११७॥ स्थूलसूक्ष्मस्वरूपाय दृश्यादृश्यस्वरूपिणे । अर्वाचीनाय च नमः पराचीनाय ते नमः ॥ ११८॥ वाक्प्रपञ्चस्वरूपाय वाक्प्रपञ्चपराय च । एकायानेकभेदाय सदसत्पतये नमः ॥ ११९॥ शब्दब्रह्म नमस्तुभ्यं परब्रह्म नमोऽस्तुते । नमो वेदान्तवेद्याय वेदानां पतये नमः ॥ २.७३.१२०॥ नमो वेदस्वरूपाय वेदगोचरमूर्तये । पार्वतीश नमस्तुभ्यं जगदीश नमोऽस्तु ते ॥ १२१॥ नमस्ते देवदेवेश देव दिव्यपदप्रद । शङ्कराय नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ १२२॥ नमस्ते जगदानन्द नमस्ते शशिशेखर । मृत्युञ्जय नमस्तुभ्यं नमस्ते त्र्यम्बकाय च ॥ १२३॥ नमः पिनाकहस्ताय त्रिशूलायुधधारिणे । नमस्त्रिपुरहन्त्रे च नमोऽन्धक निषूदन ॥ १२४॥ कन्दर्पदर्पदलन नमो जालन्धरारये । कालाय कालकालाय कालकूटविषादिने ॥ १२५॥ विषादहन्त्रे भक्तानामभक्तैकविषादद । ज्ञानाय ज्ञानरूपाय सर्वज्ञाय नमोऽस्तुते ॥ १२६॥ योगसिद्धिप्रदोऽसि त्वं योगिनां योगसत्तम । तपसां फलदोऽसि त्वं तपस्विभ्यस्तपोधन ॥ १२७॥ त्वमेव मन्त्ररूपोऽसि मन्त्राणां फलदो भवान् । महादानफलं त्वं वै महादानप्रदो भवान् ॥ १२६॥ महायज्ञस्त्वमेवेश महायज्ञफलप्रद । त्वं सर्वः सर्वगस्त्वं वै सर्वदः सर्वदृग्भवान् ॥ १२९॥ सर्वभुक्सर्वकर्ता त्वं सर्वसंहारकारक । योगिनां हृदयाकाश कृतालय नमोऽस्तु ते ॥ २.७३.१३०॥ त्वमेव विष्णुरूपेण शङ्खचक्रगदाधरः । त्रिलोकीं त्रायसे त्रातः सत्त्वमूर्ते नमोऽस्तु ते ॥ १३१॥ त्वमेव विदधास्येतद्विधिर्भूत्वा विधानवित् । रजोरूपं समालम्ब्य नीरजस्कपदप्रद ॥ १३२॥ त्वमेव हि महारुद्रस्त्वं महोग्रो भुजङ्गभृत् । त्वमेव हि महाभीमो महापितृवनेचर ॥ १३३॥ तामसीं तनुमाश्रित्य त्वं कृतान्त कृतान्तक । कालाग्निरुद्रो भूत्वान्ते त्वं संवर्तप्रवर्तकः ॥ १३४॥ त्वं पुम्प्रकृतिरूपाभ्यां महदाद्यखिलं जगत् । अक्षिपक्ष्मसमुत्क्षेपात्पुनराविःकरोष्यज ॥ १३५॥ उन्मेषविनिमेषौ ते सर्गासर्गैककारणम् । कपालमालाखेलोऽयं भवतः स्वैरचारिणः ॥ १३६॥ त्वत्कण्ठे नृकरोटीयं धूर्जटे या विभासते । सर्वेषामन्तदग्धानां सा स्फुटं बीजमालिका ॥ १३७॥ त्वत्तः सर्वमिदं शम्भो त्वयि सर्वं चराचरम् । कस्त्वां स्तोतुं विजानाति पुरां वाचामगोचरम् ॥ १३८॥ स्तोता त्वं हि स्तुतिस्त्वं हि नित्यं स्तुत्यस्त्वमेव च । वेद्म्यों नमः शिवायेति नान्यद्वेऽद्म्येव किञ्चन ॥ १३९॥ त्वमेव हि शरण्यं मे त्वमेव हि गतिः परा । त्वामेव प्रणमामीश नमस्तुभ्यं नमो नमः ॥ २.७३.१४०॥ इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे त्रिसप्ततितमा- ध्यायान्तर्गतं ब्रह्मकृतं शिवस्तोत्रं समाप्तम् । स्कन्दपुराण । काशीखण्ड । उत्तरखण्ड । अध्याय ७३/१०१-१४०॥ skandapurANa . kAshIkhaNDa . uttarakhaNDa . adhyAya 73/101-140.. Proofread by PSA Easwaran
% Text title            : Brahmakritam 07 Shiva Stotram
% File name             : brahmakRRitaM07shivastotram.itx
% itxtitle              : shivastotram (brahmakRitaM 07 skandapurANAntargatam nama oNkArarUpAya namo.akSharavapurdhRite)
% engtitle              : brahmakRRitaM 07 shivastotram
% Category              : shiva, skandapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | kAshIkhaNDa | uttarakhaNDa | adhyAya 73/101-140||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : June 24, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org