चन्द्रकृतं १ शिवस्तोत्रम्
चन्द्र उवाच ।
ॐ नमो देवदेवाय शिवाय परमात्मने ।
अप्रमेयस्वरूपाय व्यक्ताव्यक्तस्वरूपिणे ॥ ३२॥
त्वं पतिर्योगिनामीश त्वयि सर्वं प्रतिष्ठितम् ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः प्रजापतिः ॥ ३३॥
चतुर्विंशत्यधिकं च भुवनानां शतद्वयम् ।
तस्योपरि परं ज्योतिर्जागर्ति तव केवलम् ॥ ३४॥
कल्पान्त आदिवाराहमुक्तब्रह्माण्डसंस्थितौ ।
आधारस्तम्भभूताय तेजोलिङ्गाय ते नमः ॥ ३५॥
नमोऽनामयनाम्ने ते नमस्ते कृत्तिवाससे ।
नमो भैरवनाथाय नमः सोमेश्वराय ते ॥ ३६॥
इति संज्ञाभिरेताभिः स्तुत्याभिरमृतेश्वरः ।
भूतैर्भव्यैर्भविष्यैश्च स्तूयसे सुरसत्तमैः ॥ ३७॥
आद्यो विरञ्चिनामाभूद्ब्रह्मा लोकपितामहः ।
मृत्युञ्जयेति ते नाम तदाऽभूत्पार्वतीपते ॥ ३८॥
द्वितीयोऽभूद्यदा ब्रह्मा पद्मभूरिति विश्रुतः ।
तदा कालाग्निरुद्रेति तव नाम प्रकीर्तितम् ॥ ३९॥
तृतीयोऽभूद्यदा ब्रह्मा स्वयम्भूरिति विश्रुतः ।
अमृतेशेति ते नाम कीर्तितं कीर्तिवर्द्धनम् ॥ १.२२.४०॥
चतुर्थोऽभूद्यदा ब्रह्मा परमेष्ठीति विश्रुतः ।
अनामयेति देवेश तव नाम स्मृतं तदा ॥ ४१॥
पञ्चमोऽभूद्यदा ब्रह्मा सुरज्येष्ठ इति श्रुतः ।
कृत्तिवासेति ते नाम बभूव त्रिपुरान्तक ॥ ४२॥
षष्ठश्चाभूद्यदा ब्रह्मा हेमगर्भ इति स्मृतः ।
तदा भैरवनाथेति तव नाम प्रकीर्तितम् ॥ ४३॥
अधुना वर्त्तते योऽसौ शतानन्द इति श्रुतः ।
आदिसोमेन यश्चासौ वामनेत्रोद्भवेन ते ॥ ४४॥
प्रतिष्ठार्थं तु लिङ्गस्य आनीतश्चाष्टवार्षिकः ।
बालरूपी तदा तेन सोमनाथेति कीर्तितम् ॥ ४५॥
तदाप्रभृति सोमानां लक्षाणां द्वितयं गतम् ॥ १४॥
सहस्रद्वितयं चैव शतं चैव षडुत्तरम् ॥ ४६॥
सप्तमोऽहं महादेव आत्रेय इति विश्रुतः ।
प्राचेतसेन दक्षेण शप्तस्त्वां शरणं गतः ।
रक्ष मां देवदेवेश क्षयिणं पापरोगिणम् ॥ ४७॥
इति श्रीस्कन्दपुराणे प्रभासखण्डे प्रभासक्षेत्रमाहात्म्ये द्वाविंशाध्यायान्तर्गतं
चन्द्रकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । प्रभासखण्ड । अध्याय २२/३२-४७॥
skandapurANa . prabhAsakhaNDa . adhyAya 22/32-47..
Proofread by PSA Easwaran