चन्द्रमौलीश्वरवर्णमालास्तोत्रम्
श्रीशात्मभूमुख्यसुरार्चिताङ्घ्रिं श्रीकण्ठशर्वादिपदाभिधेयम् ।
श्रीशङ्कराचार्यहृदब्जवासं श्रीचन्द्रमौलीशमहं नमामि ॥ १॥
चण्डांशुशीतांशुकृशानुनेत्रं चण्डीशमुख्यप्रमथेड्यपादम् ।
षडास्यनागास्यसुशोभिपार्श्वं श्रीचन्द्रमौलीशमहं नमामि ॥ २॥
द्रव्यादिसृष्टिस्थितिनाशहेतुं रव्यादितेजांस्यपि भासयन्तम् ।
पव्यायुधादिस्तुतवैभवं तं श्रीचन्द्रमौलीशमहं नमामि ॥ ३॥
मौलिस्पुरज्जह्नुसुतासितांशुं व्यालेशसंवेष्टितपाणिपादम् ।
शूलादिनानायुधशोभमानं श्रीचन्द्रमौलीशमहं नमामि ॥ ४॥
लीलाविनिर्धूतकृतान्तदर्पं शैलात्मजासंश्रितवामभागम् ।
शूलाग्रनिर्भिन्नसुरारिसङ्घं श्रीचन्द्रमौलीशमहं नमामि ॥ ५॥
शतैः श्रुतीनां परिगीयमानं यतैर्मुनीन्द्रैः परिसेव्यमानम् ।
नतैः सुरेन्द्रैरभिपूज्यमानं श्रीचन्द्रमौलीशमहं नमामि ॥ ६॥
मत्तेभकृत्या परिशोभिताङ्गं चित्ते यतीनां सततं वसन्तम् ।
वित्तेशमुख्यैः परिवेष्टितं तं श्रीचन्द्रमौलीशमहं नमामि ॥ ७॥
हंसोत्तमैः चेतसि चिन्त्यमानं संसारपाथोनिधिकर्णधारम् ।
तं सामगानप्रियमष्टमूर्तिं श्रीचन्द्रमौलीशमहं नमामि ॥ ८॥
नताघहं नित्यचिदेकरूपं सतां गतिं सत्यसुखस्वरूपम् ।
हतान्धकं हृद्यपराक्रमं तं श्रीचन्द्रमौलीशमहं नमामि ॥ ९॥
मायातिगं वीतभयं विनिद्रं मोहान्तकं मृत्युहरं महेशम् ।
फालानलं नीलगलं कृपालुं श्रीचन्द्रमौलीशमहं नमामि ॥ १०॥
मित्रं हि यस्याखिलशेवधीशः पुत्रश्च विघ्नौघविभेददक्षः ।
पात्रं कृपायाश्च समस्तलोकः श्रीचन्द्रमौलीशमहं नमामि ॥ ११॥
इति चन्द्रमौलीश्वरवर्णमालास्तोत्रं सम्पूर्णम् ।