श्रीचन्द्रमौलिपञ्चकम् २
शिवाननारविन्दसन्मिलिन्दभावभाङ्मनो-
विनोदिने दिनेशकोटिकोटिदीप्ततेजसे ।
स्वसेवलोकसादरावलोकनैकवर्तिने
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ १॥
जटातटीलुठद्वियद्धुनीधलद्धलध्वन-
द्घनौघगर्जितोत्थबुद्धिसम्भ्रमच्छिखण्डिने ।
विखण्डितारिमण्डलप्रचण्डदोस्त्रिशूलिने
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ २॥
प्रहृष्टहृष्टतुष्टपुष्टदिष्टविष्टपाय सं-
नमद्विशिष्टभक्तविष्टरार्त(प्त)येऽष्टमूर्तये (?) ।
विदायिने धनाधिनाथसाधुसख्यदायिने
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ३॥
अखर्वगर्वदोर्विजृम्भदम्भकुम्भदानव-
च्छिदासदाध्वनत्पिनाकहारिणे विहारिणे ।
सुहृत्सुहृत्सुहृत्सुहृत्सुहृत्स्मयापहारिणे
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ४॥
अखण्डदण्डबाहुदण्डदण्डितोग्रडिण्डिम-
प्रधिं धिमिन्धिमिन्धिमिन्ध्वनिक्रमोत्थताण्डवम् ।
अखण्डवैभवाहिनाथमण्डितं चिदम्बरं
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ५॥
॥ इति श्रीचन्द्रमौलिपञ्चकं सम्पूर्णम् ॥
Proofread by Aruna Narayanan